श्रवणम्

8.74.14
मां च॒त्वार᳚ आ॒शव॒ः शवि᳚ष्ठस्य द्रवि॒त्नवः᳚ ।
सु॒रथा᳚सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य᳚म् ॥
▶ पदपाठः (Word-by-word)
माम् । च॒त्वारः᳚ । आ॒शवः᳚ । शवि᳚ष्ठस्य । द्र॒वि॒त्नवः᳚ ।
सु॒॑रथा᳚सः । अ॒भि । प्रयः᳚ । वक्ष᳚न् । वयः᳚ । न । तुग्र्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मां शविष्ठस्यातिशयेनान्नवतः श्रुतर्वणोराज्ञः संबन्धिनश्चत्वार आशवोश्वा द्रवित्नवो गमनशीलाः सुरथासः शोभनरथा अश्वाः प्रयोन्नं शत्रूणां संबन्धिनं प्रति अभिवक्षत् अभिवहन्ति वयोन तुग्र्यं भुज्युं यथाश्विभ्यां प्रेरिताश्चतस्रो नावः स्वगृहं प्रापयन् तद्वदिति ॥ १४ ॥