अष्टमं मण्डलम् - सूक्तम् 30

4 ऋचः

ऋषिः: मनुर्वैवस्वतः देवता: विश्वेदेवाः छन्दः: गायत्री

सूक्तम् 8.30 - सम्पूर्णम्

1 / 4
ऋक्: 8.30.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
8.30.1
न॒हि वो॒ अस्त्य᳚र्भ॒को देवा᳚सो॒ न कु᳚मार॒कः ।
विश्वे᳚ स॒तोम᳚हान्त॒ इत् ॥
▶ पदपाठः (Word-by-word)
न॒हि । वः॒ । अस्ति᳚ । अ॒र्भ॒कः । देवा᳚सः । न । कु॒मा॒र॒कः ।
विश्वे᳚ । स॒तः॑म᳚हान्तः । इत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवासोदेवाः वोयुष्माकंमध्ये अर्भकोनह्यस्ति शिशुर्नास्ति तथा न कुमारकः युष्माकं मध्ये कुमारोपिनास्ति । किन्तु सर्वे यूयं सवयसोनित्यतरुणा- भवथ । एतदेव प्रतिपादयति विश्वे सर्वे देवाः यूयं सतोमहान्तइत् सर्वस्माद्विद्यमानात् पृथिव्यामपिये महान्तः ते सतोमहान्तइत्युच्यन्ते तस्माद्यु- ष्माकमर्भको कुमारोपि नास्तीत्यर्थः ॥ १ ॥

8.30.2
इति᳚ स्तु॒तासो᳚ असथा रिशादसो॒ ये स्थ त्रय᳚श्च त्रिं॒शच्च᳚ ।
मनो᳚र्देवा यज्ञियासः ॥
▶ पदपाठः (Word-by-word)
इति᳚ । स्तु॒तासः᳚ । अ॒स॒थ॒ । रि॒शा॒द॒सः॒ । ये । स्थ । त्रयः᳚ । च॒ । त्रिं॒शत् । च॒ ।
मनोः᳚ । दे॒वाः॒ । य॒ज्ञि॒या॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रिशादसः रिशतां हिंसतामसितारो हे मनोर्यज्ञियासः मनुनामकस्य मम यज्ञार्हा हे देवाः ये यूयं त्रयः त्रिसंख्याकाः त्रिंशच्च त्रिंशत्संख्याकाः त्रय- स्त्रिंशद्देवताःस्थ भवथ अभूत । ते यूयमिति इत्थमनेन प्रकारेण स्तुतासः असथ मया मनुना स्तुताभवथ अस्तेर्लेटि छान्दसोलुगभावः । यद्वा असथे- तिकान्त्यर्थः इत्थं स्तुतायूयं हवींषि कामयध्वम् ॥ २ ॥

8.30.3
ते न᳚स्त्राध्वं॒ ते᳚॑वत॒ त उ᳚ नो॒ अधि᳚ वोचत ।
मा नः᳚ प॒थः पित्र्या᳚न्मान॒वादधि᳚ दू॒रं नै᳚ष्ट परा॒वतः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । त्रा॒ध्व॒म् । ते॒ । अ॒व॒त॒ । ते । ऊं॒ इति᳚ । नः॒ । अधि᳚ । वो॒च॒त॒ ।
मा । नः॒ । प॒थः । पित्र्या᳚त् । मा॒न॒वात् । अधि᳚ । दू॒रम् । नै॒ष्ट॒ । प॒रा॒॑वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः ते यूयं नोस्मान् त्राध्वं बाधकेभ्यो रक्षोभ्यस्त्रायध्वं ते यूयं अवत धनादिप्रदानैरस्मान्त्रक्षत तेएवदेवा नोस्मानधिवोचत अधिकंभवन्तः कर्म- कारिणो धनादिमन्तश्च भवन्त्विति यूयं ब्रूत । किंच हे देवाः मानवात् पित्र्यात् मनुः सर्वेषां पिता तताआगतात् परावतः पिता मनुर्दूरंमार्गं चक्रे त- स्मात्पथोमार्गान्नोस्मान्मानैष्ट मा नयत अपनयनं माकुरुतेत्यर्थः सर्वदा ब्रह्मचर्याग्निहोत्रादिकर्माणि येन मार्गेण भवन्ति तमेवास्मान्नयत । किन्तु दूरं यएतद्मतिरिक्तोविप्रकृषृमार्गोस्ति तस्मादधि अधिकमित्यर्थः अस्मानपनयत ॥ ३ ॥

8.30.4
ये दे᳚वास इ॒ह स्थन॒ विश्वे᳚ वैश्वान॒रा उ॒त ।
अ॒स्मभ्यं॒ शर्म᳚ स॒प्रथो॒ गवे॑श्वा᳚य यच्छत ॥
▶ पदपाठः (Word-by-word)
ये । दे॒वा॒सः॒ । इ॒ह । स्थन᳚ । विश्वे᳚ । वै॒श्वा॒न॒राः । उ॒त ।
अ॒स्मभ्य᳚म् । शर्म᳚ । स॒॑प्रथः᳚ । गवे᳚ । अश्वा᳚य । य॒च्छ॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवासोदेवाः उतापिच वैश्वानराः विश्वे सर्वे नरः कर्मनेतारोध्वर्य्वादयोयस्य सविश्वानरो यज्ञः तस्मिन्सोमादिहवींषि स्वीकर्तुंभवाः प्रादुर्भूताःभ- वार्थे अण् प्रत्ययः यद्वा वैश्वानरोग्निः देवानां तन्मुखत्वात् तस्य संबंधिनोविश्वेसर्वेयेदेवायूयं इहास्मिन्नस्मदीये यज्ञे स्थन हवींष्यादातुं भवथ । ततः सप्रथः प्रथप्रख्याने सर्वतः प्रसिद्धं सर्वत्रपृथुतमंवा शर्म श्रृणाति हिनस्ति दुःखमिति शर्म सुखं तदस्मभ्यं प्रयच्छतं तथा गवे अस्मदीयेभ्यो यज्ञसाध- नभूतेभ्यो गोभ्यः अश्वाय शर्म सुखं प्रदत्त ॥ ४ ॥

पच्चमेनुवाके द्वादशसूक्तानि तत्र योयजातीत्यष्टादशर्चं प्रथमं सूक्तं वैवस्वतमनुरृषिः नवमीचतुर्दश्यावनुष्टुभौ पच्चदश्याद्याश्चतस्रः पंक्तयः दशमीपा- दनिचृत् त्रयः सप्तकाः पादनिचृदिति तल्लक्षणात् शिष्टाएकादशप्राग्वत्सप्रपरिभाषाया गायत्र्यः आद्यासु चतसृषु यज्ञः ततोयजमानप्रशंसाच स्तूयते अतस्तद्देवताकाः यादंपती इत्याद्यासु पच्चम्यादिषु दंपतीप्रशस्येते अतस्तद्देवताकाः अवशिष्टासु नवसु दंपत्योराशिषः प्रतिपाद्यन्ते अतस्ताएवदेव- ताः । तथाचानुक्रम्यते-योयजातिद्मूनात्रेज्यास्तवोयजमानप्रशंसाच येत्यादिपच्चदम्पत्योः शिष्टास्तदाशिषोनुष्टुप् चतुष्पङ्क्त्यन्तं नवम्यनुष्टुप् दश- मीपादनिचृदिति ।