ता वां॒ विश्व᳚को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच᳚तम् ॥
पदपाठः (Word-by-word)
ता । वा॒म् । विश्व᳚कः । ह॒व॒ते॒ । त॒नू॒॑कृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ दस्रा दर्शनीयौ यद्वा दसु उपक्षये सर्वेषां शत्रूणामुपक्षपयितारौ भिषजा देवानां वैद्यौ यद्वा भीतीनां त्रासयितारौ यद्वा नराः अश्विनौ स्तुवन्ति तदा तौ तेषां भीतिंसमनयतइत्यर्थः पृषोदरादित्वाद्रूपसिद्धिः । तादृशौ अतएव मयोभुवा मयसः सुखस्य भावयितारौ उभा परस्परं द्वित्वसंख्यापूरकौ उभा उभौ द्वौ युवां दक्षस्य एतन्नामकस्य प्रजापतेःवचसःस्तुतेः संबन्धिनौ बभूवथुः । हि प्रसिद्धौ । पुरा युवां दक्षेणास्ताविषाथां खलु विद्याढ्यौ खलु ता तौ तादृशौ प्रसिद्धौ वां युवां विश्वकः एतन्नामकऋषिः तनूकृथे तनोति कुलमिति तनूः पुत्रः तस्य विष्णाप्वो निमित्तं हवते स्तुतिभिराह्वयति । तस्मात् नोस्माकं सख्या सख्यानि यष्टृयष्टव्यतया जातानि सखित्वानि मावियौष्टं मापृथक्कुरुतम् । यौतेर्लुङि सिचिरूपम् । किंच युवां मुमोचतं अस्मानागन्तुं रथे स्थित्वा अश्वप्रग्रहान्मुंचतम् । मुंचतेर्लोटि बहुलंछन्दसीति शपः श्लुः अडागमः । अत्रविष्णापूनामानं पुत्र- मुद्दिश्य तस्य पिता विश्वको युवामाह्वयतीत्यात्मानमाह । यद्वा विश्वकस्य पिता कृष्णोनामऋषिः ममपुत्रो विश्वकः पुत्रार्थं युवां अधि ह्वयतीति वदति ॥ १ ॥