अष्टमं मण्डलम् - सूक्तम् 7

36 ऋचः

ऋषिः: पुनर्वत्सः काण्वः देवता: मरुतः छन्दः: गायत्री

सूक्तम् 8.7 - सम्पूर्णम्

1 / 36
ऋक्: 8.7.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (36)
8.7.1
प्र यद्व᳚स्त्रि॒ष्टुभ॒मिषं॒ मरु᳚तो॒ विप्रो॒ अक्ष᳚रत् ।
वि पर्व᳚तेषु राजथ ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । वः॒ । त्रि॒॑स्तुभ᳚म् । इष᳚म् । मरु᳚तः । विप्रः᳚ । अक्ष᳚रत् ।
वि । पर्व᳚तेषु । रा॒ज॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः मरुतो मितराविणोवा मितरोचिनोवा महद्रवन्तीतिवा एतत्संज्ञामाध्यमिकादेवगणाः पादादित्वात् अपादादाविति पर्युदासात् आष्टमिकनिघाताभावः षाष्ठिकमामन्त्रितद्युदात्तत्वम् वोयुष्मभ्यं विप्रोमेधावी स्तोता त्रिष्टुभं त्रिषु सवनेषु प्रशस्यां त्रिभिर्देवैः स्तुतां वा यद्वा त्रिष्टुप् छन्दसा संबद्धा माध्यन्दिनसवनिकीं इषं सोमलक्षणमन्नं यद्यदा प्राक्षरत् प्रासिञ्चत् अग्नौ प्राक्षिपत् । यद्वा त्रिष्ट्भं त्रिष्टुप् छन्दस्कं स्तोत्रं इषं सोमं चेति योज्यं तदानीं यूयं पर्वतेषु पर्ववत्सु शिलोच्चयेषु विराजथ तेन सोमेन लब्धबलाः सन्तोविशेषेण दीप्ताभवथ ॥ १ ॥

8.7.2
यद॒ङ्ग त᳚विषीयवो॒ यामं᳚ शुभ्रा॒ अचि᳚ध्वम् ।
नि पर्व᳚ता अहासत ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒ङ्ग । त॒वि॒षी॒॑य॒वः॒ । याम᳚म् । शु॒भ्राः॒ । अचि᳚ध्वम् ।
नि । पर्व᳚ताः । अ॒हा॒स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तविषीयवः तविषीति बलनाम तां कामयमानाः यद्वा बल् युक्ताः हेशुभ्राः शोभमानाः अंग हे मरुतः यामं याति गच्छतीति यामोरथः तं यद्यदा अचिध्वं समचिनुध्वं अश्वादिभिः साधनैः सञ्चितं संश्लिष्टं कुरुथ गमनार्थं तदानीं पर्वता गिरयोपि न्यहासत नितरांगच्छन्ति युष्मद्रथवेगाद्भीताः सन्तः स्वस्थानात् प्रचलन्ति । ओहाङ् गतौ छान्दसोलुङ् ॥ २ ॥

8.7.3
उदी᳚रयन्त वा॒युभि᳚र्वा॒श्रास॒ः पृश्नि᳚मातरः ।
धु॒क्षन्त᳚ पि॒प्युषी॒मिष᳚म् ॥
▶ पदपाठः (Word-by-word)
उत् । ई॒र॒य॒न्त॒ । वा॒यु॑भिः᳚ । वा॒श्रासः᳚ । पृश्नि᳚॑मातरः ।
धु॒क्षन्त᳚ । पि॒प्युषी᳚म् । इष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाश्रासोवाशनशीलाः शब्दकारिणः पृश्निमातरः पृश्निर्माध्यमिका वाक् सा माता जननी येषांते तथोक्ताः ऋतश्छन्दसीति कपःप्रतिषेधः ईदृशा मरुतः वायुभिः वान्ति गच्छन्तीति वायवः पृषत्यः पृषतीभिर्वाहनभूताभिः स्वावयवभूतैर्वायुभिरेव वा उदीरयन्त उद्गमयन्ति मेघादिकं तथा पिप्युषीं वर्धयित्रीं इषमन्नं च स्तोतृभ्योधुक्षंत दुहन्ति ॥ ३ ॥

8.7.4
वप᳚न्ति म॒रुतो॒ मिहं॒ प्र वे᳚पयन्ति॒ पर्व᳚तान् ।
यद्यामं॒ यान्ति᳚ वा॒युभि᳚ः ॥
▶ पदपाठः (Word-by-word)
वप᳚न्ति । म॒रुतः᳚ । मिह᳚म् । प्र । वे॒प॒य॒न्ति॒ । पर्व᳚तान् ।
यत् । याम᳚म् । यान्ति᳚ । वा॒यु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतः एतत्संज्ञादेवाः मिहं वृष्टिं वपन्ति विकिरन्ति विक्षिपन्ति तथा पर्वतान् गिरीन् प्रवेण्यन्ति प्रकंपयन्ति अयंमर्थः कदेतिचेत् यद्यदा वायुभिः सार्धं यामं रथं गमनं वा यांति प्राप्नुवन्ति तदानीमित्यर्थः ॥ ४ ॥

8.7.5
नि यद्यामा᳚य वो गि॒रिर्नि सिन्ध᳚वो॒ विध᳚र्मणे ।
म॒हे शुष्मा᳚य येमि॒रे ॥
▶ पदपाठः (Word-by-word)
नि । यत् । यामा᳚य । वः॒ । गि॒रिः । नि । सिन्ध᳚वः । वि॑ध᳚र्मणे ।
म॒हे । शुष्मा᳚य । ये॒मि॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतोवियुष्माकं यामाय रथाय गमनायवा गिरिः सुपांसुलुगिति जसःसुः गिरयः पर्वताः यद्यदा नियेमिरे स्वयमेव नियम्यन्ते तथा सिन्धवः स्यन्दनशीलाः समुद्राः नद्योवा विधमंणे विधरणाय महे महते शुष्माय शोषकाय युष्मदीयाय बलाय नियेगिरे स्वयमेव निय- म्यन्ते गिरयोनद्यश्च युष्मद्यामाद्वलाच्च भीत्या एकत्रैव स्थाने नियता वर्तन्तइत्यर्थः तदानीं वपन्ति मरुतोमिहमितिशेषः । यमेः कर्मकर्तरि लिट् यद्वृत्तान्नित्यमितिनिद्यातप्रतिषेधः ॥ ५ ॥

8.7.6
यु॒ष्मा{4} उ॒ नक्त᳚मू॒तये᳚ यु॒ष्मान्दिवा᳚ हवामहे ।
यु॒ष्मान्प्र᳚य॒त्य᳚ध्व॒रे ॥
▶ पदपाठः (Word-by-word)
यु॒ष्मान् । ऊं॒ इति᳚ । नक्त᳚म् । ऊ॒तये᳚ । यु॒ष्मान् । दिवा᳚ । ह॒वा॒म॒हे॒ ।
यु॒ष्मान् । प्र॒॑य॒ति । अ॒ध्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो युष्मां उ युष्मानेव नक्तं रात्रौ ऊतये रक्षणार्थं हवामहे दिवा अह्निच युष्मानेवाह्वयामहे अध्वरे ध्वरोनास्त्यस्मिन्नित्यध्व- रोयागः नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । यागे प्रयति प्रगच्छति प्रवर्तमाने सति रक्षणार्थं युष्मानेवाह्वयामहे ॥ ६ ॥

8.7.7
उदु॒ त्ये अ᳚रु॒णप्स᳚वश्चि॒त्रा यामे᳚भिरीरते ।
वा॒श्रा अधि॒ ष्णुना᳚ दि॒वः ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । त्ये । अ॒रु॒ण॑प्स᳚वः । चि॒त्राः । यामे᳚भिः । ई॒र॒ते॒ ।
वा॒श्राः । अधि᳚ । स्नुना᳚ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्ये ते पूर्वोक्तगुणाः अरुणप्सवः अरुणवर्णरूपाः चित्राश्चायनीयाः आश्चर्यभूतावा वाश्राः शब्दकारिणः एवंभूतामरुतः यामेभिर्यामै- र्यानैः दिवोधि द्युलोकस्योपरि स्नुना सानुना समुच्छ्रितप्रदेशेन उदीरते उद्गच्छन्ति उइति पूरणः पदादिषु मांस्पृत्स्नूनामुपसंख्यानमिति सानुशब्दस्य स्नुभावः ॥ ७ ॥ कारीर्यां सौर्यस्य हविषः सृजन्तिरश्मिमित्येषानुवाक्या सूत्र्यतेहि-सृजन्तिरश्मिमोजसावहिष्ठेभिर्विहरन्यासितन्तुमिति ।

8.7.8
सृ॒जन्ति᳚ र॒श्मिमोज᳚सा॒ पन्थां॒ सूर्या᳚य॒ यात᳚वे ।
ते भा॒नुभि॒र्वि त᳚स्थिरे ॥
▶ पदपाठः (Word-by-word)
सृ॒जन्ति᳚ । र॒श्मिम् । ओज᳚सा । पन्था᳚म् । सूर्या᳚य । यात᳚वे ।
ते । भा॒नु॑भिः᳚ । वि । त॒स्थि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तच्छब्दश्रुतेर्यच्छब्दाध्याहारः थे मरुतः सूर्याय सूर्यस्य षष्ठ्यर्थेचतुर्थीवक्तव्येति चतुर्थी । यातवे गन्तवे गन्तुं रश्मिं व्याप्तं अशेरशचेति अश्नोतेरौणादिकोमिप्रत्ययः रशादेशश्च । यद्वा रश्मिभिस्तेजोभिर्युक्तं पन्थां पन्थानं ओजसा बलेन सृजन्ति उत्पादयन्ति वृत्रादिभिरा- वृतं सूर्यपथं आवरकस्य वृत्रादेरपनयनेन जनयन्तीत्यर्थः । ते मरुतः भानुभिस्तेजोभिः वितस्थिरे कृत्स्नं जगद्भ्याप्यावतिष्ठंते ॥ ८ ॥

8.7.9
इ॒मां मे᳚ मरुतो॒ गिर᳚मि॒मं स्तोम᳚मृभुक्षणः ।
इ॒मं मे᳚ वनता॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । मे॒ । म॒रु॒तः॒ । गिर᳚म् । इ॒मम् । स्तोम᳚म् । ऋ॒भु॒क्ष॒णः॒ ।
इ॒मम् । मे॒ । व॒न॒त॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः इमां पुरोवर्तिनीं मे मम गिरं शस्त्ररूपां वाचं वनत संभजत ऋभुक्षणः महन्नामैतत् महान्तः जसि इतोत्सर्वनामइत्यकारः वाष- पूर्वस्यनिगमइतिदीर्घाभावः । ते यूयं इमं स्तोमं स्तोत्रं प्रगीतमन्त्रसाध्यं मे मम इमं पुरोवर्तिनं हवमाह्वानरूपं च याजुषं मन्त्रं वनत संभजत सेवध्वम् ॥ ९ ॥

8.7.10
त्रीणि॒ सरां᳚सि॒ पृश्न᳚यो दुदु॒ह्रे व॒ज्रिणे॒ मधु᳚ ।
उत्सं॒ कव᳚न्धमु॒द्रिण᳚म् ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । सरां᳚सि । पृश्न᳚यः । दु॒दु॒ह्रे । व॒ज्रिणे᳚ । मधु᳚ ।
उत्स᳚म् । कव᳚न्धम् । उ॒द्रिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृश्नयोमरुन्मातृय्भूतागावः वज्रिणे वज्रवतइन्द्राय तादर्थ्येचतुर्थी हन्द्रार्थं मधु मधुरं क्षीरादिकमाश्रयणद्रव्यं त्रीणि सरांसि सरइव सोमैः पूरितानि त्रीणि सवनानि त्रिष्वपि सवनेषु श्रयणार्थं दुदुह्रे दुदुहिरे । यद्वा मधु मधुरं सोमं वज्रिणे वज्रयुक्ताय मरुद्गणाय त्रीणि सरांसि द्रोणकलशाधवनीयपूतभृल्लक्षणानि प्रति पृश्नयोमाध्यमिकावाचः दुदुह्रे वृष्टिद्वारा दुहन्ति । यद्वा पृश्नयइति मातृवाचिना शब्देन पुत्रा- उच्यन्ते पृश्निमातरोमरुतः इन्द्रार्थं त्रीणि सरांसि द्रोणकलशादीनि मधु मधुना सोमेन पूरयितु उत्सं उत्स्रवणशीलं कवन्धमुदकं उद्रिणं उदकवन्तं मेघं दुदुह्रे दुहते । दुहेश्छान्दसोलिट् इरयोरेइति रेभावः पादादित्वादनिघातः ॥ १० ॥

8.7.11
मरु᳚तो॒ यद्ध᳚ वो दि॒वः सु᳚म्ना॒यन्तो॒ हवा᳚महे ।
आ तू न॒ उप᳚ गन्तन ॥
▶ पदपाठः (Word-by-word)
मरु᳚तः । यत् । ह॒ । वः॒ । दि॒वः । सु॒म्न॒॑यन्तः᳚ । हवा᳚महे ।
आ । तु । नः॒ । उप᳚ । ग॒न्त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः यद्ध यदा खलु वो युष्मान् सुम्नायन्तः सुम्नं सुखं आत्मनइच्छन्तोवयं दिवः द्युलोकात् हवामहे स्तुतिभिराह्वयामहे । आतु अनन्तरमेव शीघ्रं नोस्मान् उपगन्तन उपगच्छत गमेर्लोटि तप्तनप्तनथनाश्चेतितनबादेशः ॥ ११ ॥

8.7.12
यू॒यं हि ष्ठा सु᳚दानवो॒ रुद्रा᳚ ऋभुक्षणो॒ दमे᳚ ।
उ॒त प्रचे᳚तसो॒ मदे᳚ ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । हि । स्थ । सु॒॑दा॒न॒वः॒ । रुद्राः᳚ । ऋ॒भु॒क्ष॒णः॒ । दमे᳚ ।
उ॒त । प्र॑चे᳚तसः । मदे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे सुदानवः शोभनदाना हे रुद्राः रुद्रपुत्राः पादादित्वादामंत्रितनिघाताभावः हे ऋभुक्षणः महानतः उरुतेजस्कावा ईदृशा हे मरुतः यूयं हि खलु दये यज्ञगृहे मदे मदकरे सोमे पीतेसति प्रचेतसः स्थ प्रकृष्टज्ञानाभवथ ॥ १२ ॥

8.7.13
आ नो᳚ र॒यिं म᳚द॒च्युतं᳚ पुरु॒क्षुं वि॒श्वधा᳚यसम् ।
इय᳚र्ता मरुतो दि॒वः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । र॒यिम् । म॒द॒॑च्युत᳚म् । पु॒रु॒॑क्षुम् । वि॒श्व॑धा᳚यसम् ।
इय᳚र्त । म॒रु॒तः॒ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः नोस्माकं रयिं धनं दिवोद्युलोकात् आइयर्त आगमयत ऋगतावित्यस्मादन्तर्भावितण्यर्थाज्जौहोत्यादिकाल्लोटि तस्य तप्तनप्त- नथनेति तबादेशः अनुदात्तेचेत्यभ्यस्ताद्युदात्तत्वम् कीदृशं रयिं मदच्युतं मदंस्रवन्तं यद्वा शात्रवस्य मदस्य च्यावयितारं पुरुक्षुं बहुनिवासं बहुभिः स्तूयमानंवा विश्वधायसं विश्वेषां सर्वेषामस्मदीयानां धारणाय पोषणाय पर्याप्तम् ॥ १३ ॥

8.7.14
अधी᳚व॒ यद्गि᳚री॒णां यामं᳚ शुभ्रा॒ अचि᳚ध्वम् ।
सु॒वा॒नैर्म᳚न्दध्व॒ इन्दु᳚भिः ॥
▶ पदपाठः (Word-by-word)
अधि᳚॑इव । यत् । गि॒री॒णाम् । याम᳚म् । शु॒भ्राः॒ । अचि᳚ध्वम् ।
सु॒वा॒नैः । म॒न्द॒ध्वे॒ । इन्दु᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शुभ्राः शोभमानामरुतः गिरीणां पर्वतानां अधीव उपरीव यद्यदा यामं युष्मदीयं रथं अचिध्वं गमनसाधनैरश्वादिभिरुपचितं कुरुथ तदानीं सुवानैरभिषूयमाणैरिन्दुभिः सोमैर्मन्दध्वे मादयध्वे ॥ १४ ॥

8.7.15
ए॒ताव᳚तश्चिदेषां सु॒म्नं भि᳚क्षेत॒ मर्त्य᳚ः ।
अदा᳚भ्यस्य॒ मन्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
ए॒ताव᳚तः । चि॒त् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः᳚ ।
अदा᳚भ्यस्य । मन्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्त्योमनुष्यः स्तोता मन्मभिः स्तोत्रैः सुम्नं सुखं धनं वा एषां मरुतां स्वभूतं भिक्षेत याचेत । इदानीं गणाभिप्रायेणैकवदाह एतावतश्चित् यत्परिमाणस्यच अदाभ्यस्य केनापि हिंसितुमशक्यस्य मरुद्गणस्य सुम्नं भिक्षेत एतच्छब्दात् यत्तदेतेभ्यइति परिमाणेर्थेवतुप् आसर्वना- म्नइत्यात्वम् ॥ १५ ॥

8.7.16
ये द्र॒प्सा इ᳚व॒ रोद᳚सी॒ धम॒न्त्यनु᳚ वृ॒ष्टिभि᳚ः ।
उत्सं᳚ दु॒हन्तो॒ अक्षि᳚तम् ॥
▶ पदपाठः (Word-by-word)
ये । द्र॒प्साः॑इ᳚व । रोद᳚सी॒ इति᳚ । धम᳚न्ति । अनु᳚ । वृ॒ष्टि॑भिः᳚ ।
उत्स᳚म् । दु॒हन्तः᳚ । अक्षि᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतः द्रप्साइव उदबिन्दवइव रोदसी द्यावापृथिव्यौ वृष्टिभिर्वर्षणैः अनुधमन्ति अनुगच्छन्ति साकल्येन व्याप्नुवन्ति । यद्वा अनुध्माते उच्छसितावयवे कुर्वन्ति । किंकुर्वन्तः अक्षितं अक्षीणमुदकं उत्सं मेघं दुहन्तः पूरयन्तः मेघादवाङ्मुखं पातयन्तः दुहेर्लक्षणहेत्वोरिति हेतौ शतृप्रत्ययः यतएवं दुहन्ति ततोरोदसी अनुधमन्तीत्यर्थः ॥ १६ ॥

8.7.17
उदु᳚ स्वा॒नेभि᳚रीरत॒ उद्रथै॒रुदु᳚ वा॒युभि᳚ः ।
उत्स्तोमै॒ः पृश्नि᳚मातरः ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्व॒नेभिः᳚ । ई॒र॒ते॒ । उत् । रथैः᳚ । उत् । ऊं॒ इति᳚ । वा॒यु॑भिः᳚ ।
उत् । स्तोमैः᳚ । पृश्नि᳚॑मातरः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वानेभिः स्वानैः शब्दैः मरुतउदीरते उद्गच्छन्ति । स्वनशब्दे स्वनहसोर्बेति अपोविकल्पितत्वात् पक्षेघञ् कर्षात्वतइत्यन्तोदात्तत्वम् बहुलंछन्दसीतिभिसऎसभाव् उइतिपूरणः । तथा रथैः रथप्रमुखैर्वायुभिर्वाहनैश्च उदीरते पृश्निमातरः मरुतः यथा स्तोमैः स्तोत्रैः उदीरते ॥ १७ ॥

8.7.18
येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं᳚ धन॒स्पृत᳚म् ।
रा॒ये सु तस्य᳚ धीमहि ॥
▶ पदपाठः (Word-by-word)
येन᳚ । आ॒व । तु॒र्वश᳚म् । यदु᳚म् । येन᳚ । कण्व᳚म् । ध॒न॒॑स्पृत᳚म् ।
रा॒ये । सु । तस्य᳚ । धी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येनात्मीयेन रक्षणेन तुर्वशं एतत्संज्ञं यदुं एतत्संज्ञञ्च राजर्षिं आव यूयं रक्षितवन्तः स्थ अवतेर्लेटि मध्यमबहुवचनेरूपमेतत् । येनच धनस्पृतं धनकामं कण्वमृषिं रक्षितवन्तः स्थ । तस्य युष्मदीयं रक्षणं राये धनार्थं सुधीमहि शोभनं ध्यायेम ॥ १८ ॥

8.7.19
इ॒मा उ᳚ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः᳚ ।
वर्धा᳚न्का॒ण्वस्य॒ मन्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
इ॒माः । ऊं॒ इति᳚ । वः॒ । सु॒॑दा॒न॒वः॒ । घृ॒तम् । न । पि॒प्युषीः᳚ । इषः᳚ ।
वर्धा᳚न् । का॒ण्वस्य᳚ । मन्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदानवः शोभनदानामरुतः घृतं न घृतमिव पिप्युषीः वर्धयित्र्यः शरीरतुष्टिहेतुभूताः इमा इमानि प्रदीयमानानि इषोन्नानि सोम- लक्षणानि काण्वस्य कण्वगोत्रस्य मम संबन्धिभिः मन्मभिः स्तोत्रैः सार्धं वोयुष्मान्वर्धान् वर्धयन्तु वृधेर्ण्यन्तात् लेटिरूपमेतत् उइतिपूरणः ॥ १९ ॥

8.7.20
क्व᳚ नू॒नं सु᳚दानवो॒ मद᳚था वृक्तबर्हिषः ।
ब्र॒ह्मा को वः᳚ सपर्यति ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । नू॒नम् । सु॒॑दा॒न॒वः॒ । मद᳚थ । वृ॒क्त॒॑ब॒र्हि॒षः॒ ।
ब्र॒ह्मा । कः । वः॒ । स॒प॒र्य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुदागमनस्य विलंबमसहमान ऋषिरनया वितर्कयति सुदानवः शोभनदानाः हे वृक्तबर्हिषः वृक्तं वृक्णं छिन्नं बर्हिर्येषां यागाय यद्वा बर्हिरिति यज्ञनाम वृक्तः प्रवृक्तोयज्ञोयेषां ते तथोक्तः ईदृशामरुतः क्व कुत्र देशे नूनमिदानीं मदथ माद्यथ मदीहर्षे व्यत्ययेन शप् । कश्च ब्रह्मा ब्राह्मणः स्तोता वोयुष्मान् सपर्यति परिचरति किंकारणं बहुशः स्तुतैरपि भवद्भिरिदानीं नागम्यत इति न जानीमः ॥ २० ॥

8.7.21
न॒हि ष्म॒ यद्ध᳚ वः पु॒रा स्तोमे᳚भिर्वृक्तबर्हिषः ।
शर्धा{4}᳚ ऋ॒तस्य॒ जिन्व᳚थ ॥
▶ पदपाठः (Word-by-word)
न॒हि । स्म॒ । यत् । ह॒ । वः॒ । पु॒रा । स्तोमे᳚भिः । वृ॒क्त॒॑ब॒र्हि॒षः॒ ।
शर्धा᳚न् । ऋ॒तस्य᳚ । जिन्व᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वया वितर्क्येदानीं निश्चिनोति हे वृक्तबर्हिषः प्रवृत्तयज्ञकामरुतः नहिष्म तन्नखलु संभवति वोयूयं पुरा अस्मत्तः पूर्वमेव कृतैः स्तोमेभिः अन्यदीयैः स्तोत्रैः ऋतस्योदकस्य सत्यस्य यज्ञस्यवा संबन्धिनः शर्धान् आत्मीयानि बलानि जिन्वथ प्रीणयथेति यद्ध यत् खलु तन्न संभवत्येव अतः शीघ्रमागच्छतेत्यर्थः । यद्वा वृक्तबर्हिषइति ऋत्विङ्गाम हे ऋत्विजः वोयुष्माकं संबन्धिभिः स्तोमेभिः स्तोत्रैः ऋतस्य यज्ञस्य संबन्धिनोयागार्हान् शर्धान् मारुतानि बलानि पुरा अन्येभ्यः स्तोतृभ्यः पूर्वं यद्यस्मात्कारणात् जिन्वथ यूयं प्रीणयथ जिविः प्रीणनार्थः तस्मादन्यदीयैः स्तोत्रैः नहिष्म न खलु ते मरुतोवशीभवन्तीत्यर्थः ॥ २१ ॥ प्रवर्ग्ये महावीरे पयसोरासिक्तयोः सतोः समुत्येमहतीरपइत्येषानुवक्तव्या सूत्र्यतेहि-आसिक्तयोः समुत्येमहतीरपइति महावीरमादायोत्तिष्ठत्स्विति ।

8.7.22
समु॒ त्ये म᳚ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य᳚म् ।
सं वज्रं᳚ पर्व॒शो द᳚धुः ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । त्ये । म॒ह॒तीः । अ॒पः । सम् । क्षो॒णी इति᳚ । सम् । ऊं॒ इति᳚ । सूर्य᳚म् ।
सम् । वज्र᳚म् । प॒र्व॒॑शः । द॒धुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्ये ते पूर्वोक्तगुणामरुतः महतीर्बह्वीः अपोवृष्ट्युदकानि समुदधुः सन्दधति ओषध्यादिभिः संयोजयन्ति यद्वा घर्मकाले सूर्यरश्मिभिराहृ- ताउपरि सम्यक् धारयन्ति बृहन्महतोरुपसंख्यानमिति महतः परस्य ङीपउदात्तत्वम् ऊडिदमित्यादिना अप् शब्दात् परःशसुदात्तः तथा क्षोणी क्षोण्यौ द्यावापृथिव्यौ च ते मरुतः सन्दधुः यथा स्वे स्वे स्थाने अवतिष्ठेते तथा धारयन्ति सूत्रात्मना वायुना सर्वं जगद्धार्यते । तथाचश्रूयते-वायुर्वै गोतमतत्सूत्रं वायुनावै गोतमसूत्रेणायं च लोकः परश्चलोकः सर्वाणि भूतानि संदृब्धानि भवन्तीति । तथा सूर्यं सर्वस्य प्रेरकमादित्यं चांतरिक्षे संदधुः सम्यग्धारयन्ति उशब्दः समुच्चये ईदृशास्ते मरुतः वज्रमात्मीयमायुधं पर्वशः पर्वणि पर्वणि वृत्रस्य सर्वेष्ववयवसन्धिषु हननार्थं सन्दधुः समयूयुजन् ॥ २२ ॥

8.7.23
वि वृ॒त्रं प᳚र्व॒शो य᳚यु॒र्वि पर्व᳚ता{4} अरा॒जिनः᳚ ।
च॒क्रा॒णा वृष्णि॒ पौंस्य᳚म् ॥
▶ पदपाठः (Word-by-word)
वि । वृ॒त्रम् । प॒र्व॒॑शः । य॒युः॒ । वि । पर्व᳚तान् । अ॒रा॒जिनः᳚ ।
च॒क्रा॒णाः । वृष्णि᳚ । पौंस्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अराजिनः राज्ञा केनचित् स्वामिना अनधिष्ठिताः यद्वा राजा स्वामी अस्य नविद्यते इत्यराजा इन्द्रः तद्युक्ता वृष्णि वीर्यवत् पौंस्यं बलं चक्राणाः कुर्वाणामरुतः वृत्रं आवरकमसुरं मेघं वा पर्वशः पर्वणि पर्वणि भेदेन विययुः विशिष्टं वधमगमयन् तथा पर्वतान् गिरींश्च विशिष्टं वधं प्रापयन् ॥ २३ ॥

8.7.24
अनु᳚ त्रि॒तस्य॒ युध्य᳚त॒ः शुष्म᳚मावन्नु॒त क्रतु᳚म् ।
अन्विन्द्रं᳚ वृत्र॒तूर्ये᳚ ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । त्रि॒तस्य᳚ । युध्य᳚तः । शुष्म᳚म् । आ॒व॒न् । उ॒त । क्रतु᳚म् ।
अनु᳚ । इन्द्र᳚म् । वृ॒त्र॒॑तूर्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रितस्याप्त्यस्य एतत्संज्ञस्य युध्यतः शत्रून्संप्रहरतोराजर्षेः शुष्मं परेषां शोषकं बलं मरुतः अन्वावन् साहाय्यार्थमन्वगच्छन् यद्वा अनुगुणमरक्षन् उतापिच क्रतुं तदीयं कर्म चारक्षन् अपिच वृत्रतूर्ये वृत्रवधार्थे सङ्ग्रामे इन्द्रं च अन्वावन् अरक्षन् ॥ २४ ॥

8.7.25
वि॒द्युद्ध᳚स्ता अ॒भिद्य᳚व॒ः शिप्रा᳚ः शी॒र्षन्हि᳚र॒ण्ययी᳚ः ।
शु॒भ्रा व्य᳚ञ्जत श्रि॒ये ॥
▶ पदपाठः (Word-by-word)
वि॒द्युत्॑ह᳚स्ताः । अ॒भि॑द्य᳚वः । शिप्राः᳚ । शी॒र्षन् । हि॒र॒ण्ययीः᳚ ।
शु॒भ्राः । वि । अ॒ञ्ज॒त॒ । श्रि॒ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

विद्युद्धस्ताः विद्योतमानायुधबाहवः अभिद्यवःअभिगतदीप्तयः शुभ्राः शोभमानामरुतः शीर्षन् शीर्ष्णि शिरसि आत्मीयेषु शिरःसु हिरण्ययीः हिरण्मयीः स्वर्णमयानि शिप्राः शिरस्त्राणानि श्रिये शोभनार्थं व्यंजत व्यंजयन्ति व्यक्तीकुर्वन्ति धारयन्तीत्यर्थः ॥ २५ ॥

8.7.26
उ॒शना॒ यत्प᳚रा॒वत᳚ उ॒क्ष्णो रन्ध्र॒मया᳚तन ।
द्यौर्न च᳚क्रदद्भि॒या ॥
▶ पदपाठः (Word-by-word)
उ॒शना᳚ । यत् । प॒रा॒॑वतः᳚ । उ॒क्ष्णः । रन्ध्र᳚म् । अया᳚तन ।
द्यौः । न । च॒क्र॒द॒त् । भि॒या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः उशनाः व्यत्ययेन प्रथमा उशनसा काव्येन ऋषिणा स्तूयमाना यूयम् यद्वा उशनस् शब्दात् सुपांसुलुगिति जसःसुः उशनसः स्तोतॄन् कामयमाना यूयं उक्ष्णः सेक्तुः कामानां वर्षितुः आत्मीयस्यरथस्य वृष्टिहेतोरन्तरिक्षस्यवा रन्ध्रं मध्यं परावतोदूरदेशात् यद्यदा अयातनागच्छत यातेर्लङि मध्यमबहुवचनस्य तप्तनप्तनथनाश्चेति तनबादेशः तदानीं द्यौर्न अत्र द्युशब्देन तत्रत्योजनसंघो- लक्ष्यते द्युलोके वर्तमानोजनसङ्घइव पार्थिवमपि सर्वं भूतजातं भिया युष्मद्वेगजनितया भीत्या चक्रदत् अशब्दयत् अकम्पत वा ॥ २६ ॥

8.7.27
आ नो᳚ म॒खस्य᳚ दा॒वने॑श्वै॒र्हिर᳚ण्यपाणिभिः ।
देवा᳚स॒ उप᳚ गन्तन ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । म॒खस्य᳚ । दा॒वने᳚ । अश्वैः᳚ । हिर᳚ण्यपाणि॑भिः ।
देवा᳚सः । उप᳚ । ग॒न्त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवासः दानादिगुणयुक्तामरुतः नोस्माकं मखस्य यज्ञस्य दावने दानाय ददातेरौणादिकोभावेवनिः हिरण्यपाणिभिः स्वर्णमयपादैः स्वर्णालंकृतैः हितरमणीयपादैर्वा अश्वैः आ उपगन्तन उपागच्छत प्राप्नुत गमेर्लोटि छान्दसः शपोलुक् तप्तनप्तनथनाश्चेतितनबादेशः अतएव ङित्वाभावादनुनासिकलोपोनक्रियते ॥ २७ ॥

8.7.28
यदे᳚षां॒ पृष᳚ती॒ रथे॒ प्रष्टि॒र्वह᳚ति॒ रोहि᳚तः ।
यान्ति᳚ शु॒भ्रा रि॒णन्न॒पः ॥
▶ पदपाठः (Word-by-word)
यत् । ए॒षा॒म् । पृष᳚तीः । रथे᳚ । प्रष्टिः᳚ । वह᳚ति । रोहि᳚तः ।
यान्ति᳚ । शु॒भ्राः । रि॒णन् । अ॒पः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां मरुतां रथे पृषतीः पृषद्भिः श्वेतबिन्दुभिर्युक्तामृग्योयद्यदा वहन्ति यदाच प्रष्टिः प्राशुः शीघ्रगामी यद्वा प्रमुखे युज्यमानः सन् रोहितः पृषतः पृषद्भिर्युक्तोमृगः वहति तदानीं शुभ्राः शोभमानामरुतो यान्ति गच्छ्न्ति तेषां गमनेच सति अपउदकानि वृष्टिलक्षणानि रिणन् अरिणन् अगच्छन् सर्वत्र प्रवहन्ति रीगतिरेषणयोः क्यादिकः प्वादीनांह्रस्वः छान्दसोडभावः समानवाक्ये निघातयुष्मदस्मदा- देशावक्तव्याइति वचनादत्रपूर्वपदस्य वाक्यान्तरगतत्वात्तिङ्ङतिङइति निघाताभावः ॥ २८ ॥

8.7.29
सु॒षोमे᳚ शर्य॒णाव᳚त्यार्जी॒के प॒स्त्या᳚वति ।
य॒युर्निच᳚क्रया॒ नरः᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒॑सोमे᳚ । श॒र्य॒णा॑व᳚ति । आ॒र्जी॒के । प॒स्त्य᳚॑वति ।
य॒युः । नि॑च᳚क्रया । नरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुषोमे शोभनसोमयुक्ते आर्जीके ऋजीकानामदेशाः तत्संबन्धि शर्यणावति कुरुक्षेत्रस्य जघनार्धे शर्यणावत्संज्ञे सरसि पस्त्यमिति गृहनाम यज्ञगृहोपेते सोमपानाय नरोनेतारो मरुतः निचक्रया नीचीनचक्रया अवाङ्मुखं प्रवर्तमानया रथकट्यया ययुर्यान्ति गच्छन्ति यातेश्छां- दसोलिट् यद्वा नरोनेतारऋत्विजः उक्तगुणविशिष्टे शर्यणावति मरुद्यागाय सोममाहर्तुं निचक्रया नीचीनचक्रया शकट्या ययुर्गच्छन्ति ॥ २९ ॥

8.7.30
क॒दा ग᳚च्छाथ मरुत इ॒त्था विप्रं॒ हव᳚मानम् ।
मा॒र्डी॒केभि॒र्नाध᳚मानम् ॥
▶ पदपाठः (Word-by-word)
क॒दा । ग॒च्छा॒थ॒ । म॒रु॒तः॒ । इ॒त्था । विप्र᳚म् । हव᳚मानम् ।
मा॒र्डी॒केभिः᳚ । नाध᳚मानम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः इत्था इत्थमनेन प्रकारेण हवमानं आह्वयन्तं स्तुवन्तं नाधमानं याचमानं विप्रं मेधाविनं स्तोतारं मां कदा कस्मिन्काले मार्डीकेभिः सुखहेतुभिर्धनैः सार्धं गच्छाथ गच्छथ विलम्बं माकृषत शीघ्रमागच्छतेति भावः ॥ ३० ॥

8.7.31
कद्ध᳚ नू॒नं क᳚धप्रियो॒ यदिन्द्र॒मज᳚हातन ।
को वः᳚ सखि॒त्व ओ᳚हते ॥
▶ पदपाठः (Word-by-word)
कत् । ह॒ । नू॒नम् । क॒ध॒॑प्रि॒यः॒ । यत् । इन्द्र᳚म् । अज᳚हातन ।
कः । वः॒ । स॒खि॒॑त्वे । ओ॒ह॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कधप्रियः कथया स्तुत्या प्रीयमाणाः कथवाक्यप्रबन्धने अस्माद्भावे चिन्तिपूजीत्यादिना अङ् ततष्टाप् उत्तरपदे ङ्यापोःसंज्ञाछन्दसो- रितिह्रस्वत्वम् धत्वंछान्दसं ईदृशा हे मरुतः वृत्रेणसह युध्यमानं इन्द्रं नूनं सत्यं अजहातन पर्यत्यजतेति यदेतत् तत् कद्ध कदाखलु कस्मिन्काले जातं नकदाचिदपीत्यर्थः । तथाच ब्राह्मणम्-मरुतोहैनंनाजहुरिति । वृत्रस्यत्वाश्वसथादीषमाणाइत्यादिनिगमान्तरम् । यतएवमतःकारणात् वोयुष्माकं सखित्वेव्यत्ययेन सप्तमी सखिभावं कःस्तोता ओहते याचते यद्वा वहते प्राप्नोति ईदृशमनपायं युष्मत्सखित्वं दुर्लभमित्यर्थः ॥ ३१ ॥

8.7.32
स॒हो षु णो॒ वज्र᳚हस्तै॒ः कण्वा᳚सो अ॒ग्निं म॒रुद्भि᳚ः ।
स्तु॒षे हिर᳚ण्यवाशीभिः ॥
▶ पदपाठः (Word-by-word)
स॒हो इति᳚ । सु । नः॒ । वज्र᳚॑हस्तैः । कण्वा᳚सः । अ॒ग्निम् । म॒रुत्॑भिः᳚ ।
स्तु॒षे । हिर᳚ण्य॑वाशीभिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वज्रहस्तैर्वज्रबाहुभिः हिरण्यवाशीभिः हिरण्मयी वाशी तक्षणसाधनमायुधं येषामस्ति तादृशैर्मरुद्भिः सहो सहैव वर्तमानमग्निं नोस्मदीयाः हे कण्वासः कण्वाः स्तोतारः कण्वगोत्रावा ऋषयः यूयं स्तुषे स्तुध्वम् यद्वा नइति प्रथमर्थेद्वितीया नोवयं कण्वगोत्राः अस्म- दोद्वयोश्चेत्येकस्मिन्बहुवचनम् सविशेषणस्यप्रतिषेधइतितु व्यत्ययेन प्रवर्तते स्तुषे स्तुवे स्तौतेरुत्तमैकवचने सिब्बहुलमितिसिप् ॥ ३२ ॥

8.7.33
ओ षु वृष्ण॒ः प्रय᳚ज्यू॒ना नव्य᳚से सुवि॒ताय᳚ ।
व॒वृ॒त्यां चि॒त्रवा᳚जान् ॥
▶ पदपाठः (Word-by-word)
ओ इति᳚ । सु । वृष्णः᳚ । प्र॑य᳚ज्यून् । आ । नव्य᳚से । सु॒वि॒ताय᳚ ।
व॒वृ॒त्याम् । चि॒त्र॑वा᳚जान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृष्णोवर्षितॄन् अभीष्टफलदान्प्रयज्यून् प्रकर्षेण यष्टव्यान् चित्रवाजान् विचित्रगमनान् विचित्रबलान्विचित्रधनान्वा एवंभूतान् मरुतः सु सुष्ठु ओ आ उ ववृत्यां आवर्तयामि अस्मदभिमुखं यथागच्छन्ति तथाकरोमि । अपिच नव्यसे नवीयसे नवतराय अत्यन्तं प्रशस्ताय सुविताय सुष्ठुप्राप्तव्याय धनायच तानाववृत्यां आवर्तयामि ॥ ३३ ॥

8.7.34
गि॒रय᳚श्चि॒न्नि जि᳚हते॒ पर्शा᳚नासो॒ मन्य᳚मानाः ।
पर्व᳚ताश्चि॒न्नि ये᳚मिरे ॥
▶ पदपाठः (Word-by-word)
गि॒रयः᳚ । चि॒त् । नि । जि॒ह॒ते॒ । पर्शा᳚नासः । मन्य᳚मानाः ।
पर्व᳚ताः । चि॒त् । नि । ये॒मि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुत्स्वागच्छत्सु गिरयश्चित् गिरयोपि शिलोच्चयाअपि पर्शानासः पीड्यमानाः यद्वा मरुद्भिः स्पृश्यमानाः अतएव मन्यमानाः अभि- मन्यमानाः वा बध्यमाना सन्तः निजिहते नितरां गच्छन्ति मरुद्वेगेन स्थानात्प्रच्यवन्ते । तथा पर्वताश्चित् पर्ववन्तोमेघाअपि तदीयेन गमनेन नियेमिरे नियम्यन्ते यद्वा गिरयः क्षुद्राः शिलोच्चयाः । महान्तः पर्वताः ॥ ३४ ॥

8.7.35
आक्ष्ण॒यावा᳚नो वहन्त्य॒न्तरि᳚क्षेण॒ पत᳚तः ।
धाता᳚रः स्तुव॒ते वयः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । अ॒क्ष्ण॒॑यावा᳚नः । व॒ह॒न्ति॒ । अ॒न्तरि᳚क्षेण । पत᳚तः ।
धाता᳚रः । स्तु॒व॒ते । वयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अक्ष्णयावानः अक्ष्णं व्याप्तं गच्छन्तः यद्वा अक्षणः चक्षुषोपि शीघ्रं यान्तीत्यक्ष्णयावानः यातेरातोमनिन्निति वनिप् ईदृशाअश्वाः अन्तरि- क्षेण आकाशमार्गेण पततः गच्छतोमरुतः आवहन्ति आनयन्ति यद्वा पततइत्यश्वानां विशेषणम् अन्तरिक्षे नभसि पततोगच्छन्तः छान्द- सोनुभावः किंकुर्वन्तः स्तुवते स्तोत्रं कुर्वते जनाय वयोन्नं धातारोविधातारः कुर्वाणाः ॥ ३५ ॥

8.7.36
अ॒ग्निर्हि जानि᳚ पू॒र्व्यश्छन्दो॒ न सूरो᳚ अ॒र्चिषा᳚ ।
ते भा॒नुभि॒र्वि त᳚स्थिरे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । हि । जनि᳚ । पू॒र्व्यः । छन्दः᳚ । न । सूरः᳚ । अ॒र्चिषा᳚ ।
ते॒ । भा॒नु॑भिः᳚ । वि । त॒स्थि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्हि अग्निःखलु अर्चिषा तेजसा पूर्व्यः सर्वेषु देवेषु मुख्योजनि अजायत दीपजनेत्यादिना कर्तरिलुङि च्लेश्चिणादेशः । तत्रदृष्टान्तः- छन्दः उपच्छन्दनीयः सूरोन सूर्यइव तदनंतरं ते पूर्वोक्तगुणामरुतः भानुभिर्दीप्तिभिर्वितस्थिरे विविधमवतिष्ठन्ते आग्निमारुतेहि अग्निः पूर्वं स्तूयते पश्चान्मरुतः तदपेक्षया च पूर्वोत्तरयोरर्धर्चयोः क्रमेण अग्निर्मरुतश्च स्तूयन्ते ॥ ३६ ॥

आनोविश्वाभिरिति त्रयोविंशत्यृचं तृतीयं सूक्तं सध्वंसाख्यस्य काण्वस्यार्षं आनुष्टुभं एतदादीनि त्रीणि सूक्तानि अश्विदेवत्यानि तथाचानुक्रान्तम्-आनस्त्र्यधिका सध्वंसआश्विनंत्द्यानुष्टुभमिति । प्रातरनुवाके आश्विने क्रतौ आनुष्टुभेछन्दसि आश्विनशस्त्रे चैतत्सूक्तम् सूत्र्यतेहि-आनोविश्वाभिस्त्यञ्चिदत्रिमित्यानुष्टुभमिति । अप्तोर्यामेप्रशास्तुरतिरिक्तोक्थेप्येतत् सूत्रितञ्च-आनोविश्वाभिः प्रातर्यावाणेति । चतुर्थेहनि प्रउगशस्त्रे आनोविश्वाभिरित्याश्विनस्तृचः सूत्रितंच-आनोविश्वाभिरुतिभिस्त्यमुवोअप्रहणमिति ।