श्रवणम्

8.7.20
क्व᳚ नू॒नं सु᳚दानवो॒ मद᳚था वृक्तबर्हिषः ।
ब्र॒ह्मा को वः᳚ सपर्यति ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । नू॒नम् । सु॒॑दा॒न॒वः॒ । मद᳚थ । वृ॒क्त॒॑ब॒र्हि॒षः॒ ।
ब्र॒ह्मा । कः । वः॒ । स॒प॒र्य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुदागमनस्य विलंबमसहमान ऋषिरनया वितर्कयति सुदानवः शोभनदानाः हे वृक्तबर्हिषः वृक्तं वृक्णं छिन्नं बर्हिर्येषां यागाय यद्वा बर्हिरिति यज्ञनाम वृक्तः प्रवृक्तोयज्ञोयेषां ते तथोक्तः ईदृशामरुतः क्व कुत्र देशे नूनमिदानीं मदथ माद्यथ मदीहर्षे व्यत्ययेन शप् । कश्च ब्रह्मा ब्राह्मणः स्तोता वोयुष्मान् सपर्यति परिचरति किंकारणं बहुशः स्तुतैरपि भवद्भिरिदानीं नागम्यत इति न जानीमः ॥ २० ॥