अष्टमं मण्डलम् - सूक्तम् 10

6 ऋचः

ऋषिः: प्रगाथः काण्वः देवता: अश्विनौ छन्दः: बृहती

सूक्तम् 8.10 - सम्पूर्णम्

1 / 6
ऋक्: 8.10.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
8.10.1
यत्स्थो दी॒र्घप्र᳚सद्मनि॒ यद्वा॒दो रो᳚च॒ने दि॒वः ।
यद्वा᳚ समु॒द्रे अध्याकृ᳚ते गृ॒हे॑त॒ आ या᳚तमश्विना ॥
▶ पदपाठः (Word-by-word)
यत् । स्थः । दी॒र्घ॑प्र᳚सद्मनि । यत् । वा॒ । अ॒दः । रो॒च॒ने । दि॒वः ।
यत् । वा॒ । स॒मु॒द्रे । अधि᳚ । आ॑कृ᳚ते । गृ॒हे । अतः᳚ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ दीर्घप्रसद्मनि प्रसीदन्त्येषु देवाइति प्रसद्मानोयज्ञगृहाः दीर्घाआयताः प्रसद्मानोयस्मिन् तस्मिन् लोके यत् यदिस्थोभवथो- वर्तेथे यद्वा यदिवा अदः अमुष्मिन् दिवोद्युलोकस्य संबन्धिनि रोचने रोचमाने स्थाने भवथः यद्वा यदिवा समुद्रे अन्तरिक्षे समुद्रवन्त्य- स्मादापइति समुद्रमन्तरिक्षंतस्मिन् आकृते निर्मिते गृहे अधिवसथः अतस्त्रितयादपिस्थानात् हे अश्विनावायातमागच्छतम् ॥ १ ॥

8.10.2
यद्वा᳚ य॒ज्ञं मन᳚वे सम्मिमि॒क्षथु᳚रे॒वेत्का॒ण्वस्य᳚ बोधतम् ।
बृह॒स्पतिं॒ विश्वा᳚न्दे॒वा{4} अ॒हं हु᳚व॒ इन्द्रा॒विष्णू᳚ अ॒श्विना᳚वाशु॒हेष᳚सा ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒ । य॒ज्ञम् । मन᳚वे । स॒म्॑मि॒मि॒क्षथुः᳚ । ए॒व । इत् । का॒ण्वस्य᳚ । बो॒ध॒त॒म् ।
बृह॒स्पति᳚म् । विश्वा᳚न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति᳚ । अ॒श्विनौ᳚ । आ॒शु॒॑हेष᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ यद्वा यथावा येन प्रकारेण मनवे प्रजापतये यजमानाय यज्ञं संमिमिक्षथुः संसिक्तवन्तौ युवां कृतवन्तौ एवेत् एवमेव काण्वस्य कण्वगोत्रस्य ममयज्ञं कर्तुं बोधतमवगच्छतम् । अपिच बृहस्पतिं बृहतां देवानां पतिं देवपुरोहितं विश्वान्सर्वान्मित्रादीन्दे- वांश्च इन्द्राविष्णू च आशुहेषसा शीघ्राश्वौ यद्वा हेषृशब्दे शीघ्रं सर्वत्र शब्द्यमानौ स्तूयमानावश्विनौ च अहं हुवे आह्वये ॥ २ ॥

8.10.3
त्या न्व१॒᳚श्विना᳚ हुवे सु॒दंस᳚सा गृ॒भे कृ॒ता ।
ययो॒रस्ति॒ प्र णः᳚ स॒ख्यं दे॒वेष्वध्याप्य᳚म् ॥
▶ पदपाठः (Word-by-word)
त्या । नु । अ॒श्विना᳚ । हु॒वे॒ । सु॒॑दंस᳚सा । गृ॒भे । कृ॒ता ।
ययोः᳚ । अस्ति᳚ । प्र । नः॒ । स॒ख्यम् । दे॒वेषु᳚ । अधि᳚ । आप्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्या त्यौ पूर्वोक्तगुणावश्विनौ नु क्षिप्रमहं हुवे आह्वयामि कीदृशौ सुदंससा शोभनकर्माणौ गृभे गृहे ग्रहणाय अस्माभिर्दत्तानां हविषां स्वीकरणाय अस्मभ्यं धनदानाय वा कृता कृतौ प्रादुर्भूतौ देवेषु मध्ये अधिः सप्तम्यर्थानुवादी ययोरश्विनोः आप्यमाप्तव्यं नोस्माकं सख्यं सखित्वं प्रास्ति प्रभवति उत्कर्षेण वर्तते तौ हुवइत्यन्वयः ॥ ३ ॥

8.10.4
ययो॒रधि॒ प्र य॒ज्ञा अ᳚सू॒रे सन्ति᳚ सू॒रयः᳚ ।
ता य॒ज्ञस्या᳚ध्व॒रस्य॒ प्रचे᳚तसा स्व॒धाभि॒र्या पिब᳚तः सो॒म्यं मधु᳚ ॥
▶ पदपाठः (Word-by-word)
ययोः᳚ । अधि᳚ । प्र । य॒ज्ञाः । अ॒सू॒रे । सन्ति᳚ । सू॒रयः᳚ ।
ता । य॒ज्ञस्य᳚ । अ॒ध्व॒रस्य᳚ । प्र॑चे᳚तसा । स्व॒धाभिः᳚ । या । पिब᳚तः । सो॒म्यम् । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ययोरश्विनोरध्युपरि यज्ञाः ज्योतिष्टोमादयः सर्वेयागाः प्रसन्ति प्रभवन्ति छिन्नस्य यज्ञशिरसोश्विभ्यांसन्धानात् । तथाच-यज्ञशिरसोछि- द्यते इत्युपक्रम्य तैत्तिरीयकम्-तावेतद्यज्ञशिरःप्रत्यधत्ताम् यदाश्विनोगृत्द्यते यज्ञस्यनिष्कृत्याइति । असूरे स्तोतृरहितेपि देशे ययोश्च सूरयः स्तोतारः सन्ति तावश्विनौ अध्वरस्य हिंसाप्रत्यवायरहितस्य यज्ञस्य ज्योतिष्टोमादेः प्रचेतसा प्रकृष्टज्ञातारौ स्वधाभिः बलहेतुभिः स्तुतिभिः आह्वयामीतिशेषः या यावश्विनौ सोम्यं सोममयं मधु मधुरं सोमरसं पिबतः ॥ ४ ॥

8.10.5
यद॒द्याश्वि᳚ना॒वपा॒ग्यत्प्राक्स्थो वा᳚जिनीवसू ।
यद्द्रु॒ह्यव्यन᳚वि तु॒र्वशे॒ यदौ᳚ हु॒वे वा॒मथ॒ मा ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । अ॒श्वि॒नौ॒ । अपा᳚क् । यत् । प्राक् । स्थः । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू ।
यत् । द्रु॒ह्यवि᳚ । अन᳚वि । तु॒र्वशे᳚ । यदौ᳚ । हु॒वे । वा॒म् । अथ᳚ । मा॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ अद्येदानीं यद्यदि अपाक् प्रतीच्यां दिशि स्थोभवथोवर्तेथे हे वाजिनीवसू अन्नवद्धनौ यद्यदि पाक् प्राच्यां दिशि स्थोभवथः यत् यदिवा द्रुह्यवि अनवि तुर्वशे यदौ द्रुह्युप्रभृतिषु चतुर्षु स्तोतृषु संनिहितौ भवथः एवं सर्वत्र संनिहितौ वां युवां हुवे अहमाह्वयामि अथानन्तरमेव मा मां आगतम् आगच्छतम् ॥ ५ ॥

8.10.6
यद॒न्तरि᳚क्षे॒ पत᳚थः पुरुभुजा॒ यद्वे॒मे रोद᳚सी॒ अनु᳚ ।
यद्वा᳚ स्व॒धाभि᳚रधि॒तिष्ठ᳚थो॒ रथ॒मत॒ आ या᳚तमश्विना ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒न्तरि᳚क्षे । पत᳚थः । पु॒रु॒॑भु॒जा॒ । यत् । वा॒ । इ॒मे इति᳚ । रोद᳚सी॒ इति᳚ । अनु᳚ ।
यत् । वा॒ । स्व॒धाभिः᳚ । अ॒धि॒॑तिष्ठ᳚थः । रथ᳚म् । अतः᳚ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपुरुभुजा बहूनां पालयितारौ बहुलहविषोभोक्तारौ वा यद्यदि अन्तरिक्षे पतथोगच्छथः यद्वा यदिवा इमे रोदसी द्यावापृथिव्यावन् अनुलक्ष्य गच्छ्थः यद्वा यदिवा स्वधाभिः आत्मीयैस्तेजोभिर्बलैर्वा सार्धं रथं अधितिष्ठथः रथेउपविशथः अधिशीङ्स्थासामिति आधारस्य कर्मसंज्ञा । अतः सर्वस्मात्स्थानात् हे अश्विनौ आयातमागच्छतम् ॥ ६ ॥

त्वमग्नेइति दशर्चं षष्ठं सूक्तं कण्वगोत्रस्य वत्सस्यार्षं आग्नेयम् आद्या प्रतिष्ठागायत्री अष्टकसप्तकषट्कोपेतत्वात् द्वितीयावर्धमाना षट्कसप्तकाष्टकोपेतत्वात् । तथाचोक्तं-षट्कसप्तकाष्टकैर्वर्धमाना विपरीताप्रतिष्ठेति । दशमीत्रिष्टुप् शिष्टागायत्र्यः । तथाचानुक्रान्तम्- त्वमग्नेदशवत्सआग्नेयेगायत्रे अन्त्यात्रिष्टुप् आद्याप्रतिष्ठोपाद्यावर्धमानेति । प्रातरनुवाकस्याग्नेयेक्रतौ गायत्रेछन्दस्याश्विनशस्त्रे च उत्तमाव- र्जमेतत्सूक्तं सूत्र्यतेहि-त्वमग्नेव्रतपाइत्युत्तमामुद्धरेदिति । व्रातपत्यां त्वमग्नेव्रतपाइति आद्यानुवाक्या । सूत्रितञ्च-त्वमग्ने व्रतपाअसि यद्वोवयंप्रमिनामव्रतानीति ।