अष्टमं मण्डलम् - सूक्तम् 89

7 ऋचः

ऋषिः: नृमेधपुरुमेधौ देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.89 - सम्पूर्णम्

1 / 7
ऋक्: 8.89.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
8.89.1
बृ॒हदिन्द्रा᳚य गायत॒ मरु᳚तो वृत्र॒हन्त᳚मम् ।
येन॒ ज्योति॒रज᳚नयन्नृता॒वृधो᳚ दे॒वं दे॒वाय॒ जागृ᳚वि ॥
▶ पदपाठः (Word-by-word)
बृ॒हत् । इन्द्रा᳚य । गा॒य॒त॒ । मरु᳚तः । वृ॒त्र॒हम्॑त᳚मम् ।
येन᳚ । ज्योतिः᳚ । अज᳚नयन् । ऋ॒त॒॑वृधः᳚ । दे॒वम् । दे॒वाय᳚ । जागृ᳚वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः । रुशब्दे मितं रुवंतीति मरुतः । हे मितभाषिणः स्तोतारः वृत्रहन्तमं अतिशयेन पापविनाशनं बृहत्साम इन्द्राय इन्द्रार्थं गायत अस्मदीययज्ञे गानं कुरुत । ऋतावृधः सत्यस्य यज्ञस्यवा वर्धका विश्वेदेवाः देवाय द्योतमानायेन्द्राय देवं देवनशीलं जागृवि सर्वेषां जा- गरणशीलं ज्योतिः सूर्यं येनसाम्ना अजनयन् इन्द्रार्थमुदपादयन् तत्सामगायतेति ॥ १ ॥

8.89.2
अपा᳚धमद॒भिश᳚स्तीरशस्ति॒हाथेन्द्रो᳚ द्यु॒म्न्याभ᳚वत् ।
दे॒वास्त᳚ इन्द्र स॒ख्याय᳚ येमिरे॒ बृह᳚द्भानो॒ मरु᳚द्गण ॥
▶ पदपाठः (Word-by-word)
अप᳚ । अ॒ध॒म॒त् । अ॒भि॑श᳚स्तीः । अ॒श॒स्ति॒॑हा । अथ᳚ । इन्द्रः᳚ । द्यु॒म्नी । आ । अ॒भ॒व॒त् ।
दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय᳚ । ये॒मि॒रे॒ । बृह᳚द्भानो॒ इति॒ बृह᳚त्॑भानो । मरु᳚त्॑गण ॥
▶ सायणभाष्यम् (Sayana Commentary)

अशस्तिहा स्तोत्रशंसनरहितानां शत्रूणां हन्तेन्द्रः अभिशस्तीः शसुहिंसायां अभितोहिंसा येषां ते तादृशान् यद्वा अभिशस्तीः शत्रुकृता हिंसाः अपाधमत् अपागमयत् अथ शत्रुहन नानन्तरं इन्द्रोद्युम्नी सर्वत्रद्योतमानयशोयुक्तः । यद्वा तेषां धनापहरणेन धनादिमान् आभवत् सर्वतः प्रसिद्धोभवत् । अथोत्तरार्धः प्रत्यक्षकृतः हे बृहद्भानो बृंहणशीलतेजस्क महादीप्तेवा मरुद्गण मरुतां सप्तगणायस्यसन्ति सतथोक्तः तादृश हे इन्द्र देवाः द्योतमानाः सर्वे देवाः सख्याय आत्मनः सखिभावाय ते त्वां येमिरे नियच्छन्ति ॥ २ ॥

8.89.3
प्र व॒ इन्द्रा᳚य बृह॒ते मरु᳚तो॒ ब्रह्मा᳚र्चत ।
वृ॒त्रं ह᳚नति वृत्र॒हा श॒तक्र᳚तु॒र्वज्रे᳚ण श॒तप᳚र्वणा ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । इन्द्रा᳚य । बृ॒ह॒ते । मरु᳚तः । ब्रह्म᳚ । अ॒र्च॒त॒ ।
वृ॒त्रम् । ह॒न॒ति॒ । वृ॒त्र॒॑हा । श॒त॑क्र᳚तुः । वज्रे᳚ण । श॒त॑प᳚र्वणा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो मितराविणः स्तोतारः बृहते महते वः स्तुत्यस्तोतृत्वलक्षणेन संबन्धेन युष्मदीयायेन्द्राय ब्रह्मसामलक्षणं स्तोत्रं प्रार्चत प्रोच्चारयत । ततो वृत्रहा वृत्रस्य पापस्यवा हन्ता शतक्रतुः शतविधकर्मा बहुविधप्रज्ञोवा इन्द्रः शतपर्वणा शतसंख्याकधारेण वज्रेण एतन्नामकेनायुधेन वूत्रमपामाव- रकं वृत्राख्यमसुरं हनति युष्माभिरभिष्टुतः सन् हन्तु । हन्तेर्लेट्यडागमः ॥ ३ ॥

8.89.4
अ॒भि प्र भ᳚र धृष॒ता धृ᳚षन्मन॒ः श्रव᳚श्चित्ते असद्बृ॒हत् ।
अर्ष॒न्त्वापो॒ जव᳚सा॒ वि मा॒तरो॒ हनो᳚ वृ॒त्रं जया॒ स्व᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्र । भ॒र॒ । धृ॒ष॒ता । धृ॒ष॒त्॑म॒नः॒ । श्रवः᳚ । चि॒त् । ते॒ । अ॒स॒त् । बृ॒हत् ।
अर्ष᳚न्तु । आपः᳚ । जव᳚सा । वि । मा॒तरः᳚ । हनः᳚ । वृ॒त्रम् । जय᳚ । स्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धृषन्मनः शत्रूणां धर्षणशीलमनस्केन्द्र तेचित् तवैव बृहन्महदतिप्रभूतं श्रवोन्नमसदस्ति । तदन्नं धृषता धृष्टेन मनसा युक्तः सन् अस्मभ्यम- भिप्रभर अभ्याभिमुख्येन प्रकर्षेण संपादय देहीत्यर्थः । हे इन्द्र आपो मातरः अस्माकमुत्पादनहेतुत्वान्मातृभूताः । कथमपां मातृत्वंअद्भ्यः पृथिवी । पृथिव्याओषधयइत्यादिश्रुतेः । तादृश्यआपः जवसा वेगेन व्यर्षंतु विविधं भूमिं प्रतिगच्छन्तु-कथमापोगच्छन्तीतिचेत् तदाह-वृत्रं अपामावरितारं शत्रुं मेघं हनोजहि ताडय । ततो मेघभेदनेनोदकानि विगच्छन्तु पुनरपि स्वः सर्वं भूतजातं जय ॥ ४ ॥ प्रथमे स्वरसाम्नि निष्केवल्ये यज्जायथाअपूर्व्येति स्तोत्रियः । तथाच सूत्र्यते-तेषां स्तोत्रिया यज्जायथाअपूर्व्येति स्तोत्रियः । तथाच सूत्र्यते- तेषां स्तोत्रिया यज्जायथाअपूर्व्येति ।

8.89.5
यज्जाय᳚था अपूर्व्य॒ मघ᳚वन्वृत्र॒हत्या᳚य ।
तत्पृ᳚थि॒वीम᳚प्रथय॒स्तद᳚स्तभ्ना उ॒त द्याम् ॥
▶ पदपाठः (Word-by-word)
यत् । जाय᳚थः । अ॒पू॒र्व्य॒ । मघ᳚॑वन् । वृ॒त्र॒॑हत्या᳚य ।
तत् । पृ॒थि॒वीम् । अ॒प्र॒थ॒यः॒ । तत् । अ॒स्त॒भ्नाः॒ । उ॒त । द्याम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अपूर्व्य स्वतोव्यतिरिक्तेन पूर्व्येण वर्जित हे मघवन् मंहनीयधनवन्निन्द्र वृत्रहत्याय वृत्रासुरहननाय यद्यदा त्वं जायथाः उत्पन्नः प्रादुर्भूतोसि तत्त- दानीमेव पृथिवीं प्रथमानामप्रथयः प्रसिद्धां दृढामकरोः । उतापिच तत्तदानीमेव द्यां द्युलोकमन्तरिक्षेण अस्तभ्राः निरुद्धामकार्षीः । एतादृशं वीर्यं त्वदन्यस्य नसंभवतीत्यर्थं द्योतयितुमपूर्व्येतिपदम् ॥ ५ ॥

8.89.6
तत्ते᳚ य॒ज्ञो अ᳚जायत॒ तद॒र्क उ॒त हस्कृ᳚तिः ।
तद्विश्व᳚मभि॒भूर᳚सि॒ यज्जा॒तं यच्च॒ जन्त्व᳚म् ॥
▶ पदपाठः (Word-by-word)
तत् । ते॒ । य॒ज्ञः । अ॒जा॒य॒त॒ । तत् । अ॒र्कः । उ॒त । हस्कृ᳚तिः ।
तत् । विश्व᳚म् । अ॒भि॒॑भूः । अ॒सि॒ । यत् । जा॒तम् । यत् । च॒ । जन्त्व᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यद्यदा त्वमजायथाः तत्तदानीं ते त्वदर्थो यज्ञोग्निष्टोमादिरजायत सोमपानार्थमभूत् । उतापिच तदानीं हस्कृतिः । हसे हसने । हासकारी प्रीत्यर्थं क्रियमाणो हर्षस्य सूचकः अर्कः अर्चनीयो मन्त्रोपि अजायत । किंच तदा यज्जातं भूतजातं यच्च जन्त्वं कृत्यार्थेत्वन्प्रत्ययः जनितव्यं

8.89.7
आ॒मासु᳚ प॒क्वमैर᳚य॒ आ सूर्यं᳚ रोहयो दि॒वि ।
घ॒र्मं न साम᳚न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व᳚णसे बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
आ॒मासु᳚ । प॒क्वम् । ऐर᳚यः । आ । सूर्य᳚म् । रो॒ह॒यः॒ । दि॒वि ।
घ॒र्मम् । न । साम᳚न् । त॒प॒त॒ । सु॒वृ॒क्ति॑भिः᳚ । जुष्ट᳚म् । गिर्व᳚णसे । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र आमासु अपक्वासु गोषु पक्वं पय ऎरयः प्रैरयश्च । तथामंत्रः-आमासुचिद्दधिषेपद्वमन्तरिति । किंच दिवि द्युलोके सूर्यमारोहयश्च पूर्वं पणयोनामासुराः अंगिरसां गाअपहृत्यांधकारावृते कस्मिंश्चित्पर्वते ताः स्थापितवन्तः ततोगिरसइन्द्रं स्तुत्वा गाः पुनरस्मभ्यमाहरेति तैरुक्तइन्द्रो गवां स्थानं तमसावृतं दृष्ट्वा तत्र गोदर्शनाय द्युलोके सर्वप्रकाशकं सूर्यमारोहितवान् स्थापितवानसि । चादिलोपेविभाषेति पूर्वस्य ऎरयइत्यस्य ननिवातः । अथ परोक्षकृतोर्धर्चः हे स्तोतारः सुवृक्तिभिः शोभनाभिः स्तुतिभिः तपत इन्द्रं तीक्ष्णीकुरुत इन्द्रं स्तुतिभिः तपत इन्द्रं तीक्ष्णीकुरुत इन्द्रं स्तुतिभिः प्रवर्धयतेत्यर्थः । तत्रदृष्टान्तः-वर्मंन यथा घर्मं दीपनशीलं प्रवर्ग्यं सामन् सुपांसुलुगिति तृतीयायालुक् सामभिर्यथा तपन्ति तद्वत् । ततो गिर्वणसे गीर्भिर्वननीयायेन्द्राय जुष्टं प्रीतिकरं पर्याप्तं वा बृहत्साम गायत ॥ ७ ॥

आनोबिश्वास्विति षळृचं दशमं सूक्तं नृमेधपुरुमेधावृषी विषमसंख्याकाबृहत्यः समसंख्याकाः सतोबृहत्यः इन्द्रोदेवता तथाचानुक्रान्तं- आनोविश्वासु षळिति । महाव्रते निष्केवल्ये बार्हततृचाशीतौ एतत्सूक्तं सूत्र्यतेहि पंचमारण्यके-आनोविश्वासुहव्यो याइन्द्रभुजआभरेति ।