प्र व॒ इन्द्रा᳚य बृह॒ते मरु᳚तो॒ ब्रह्मा᳚र्चत ।
वृ॒त्रं ह᳚नति वृत्र॒हा श॒तक्र᳚तु॒र्वज्रे᳚ण श॒तप᳚र्वणा ॥
वृ॒त्रं ह᳚नति वृत्र॒हा श॒तक्र᳚तु॒र्वज्रे᳚ण श॒तप᳚र्वणा ॥
पदपाठः (Word-by-word)
प्र । वः॒ । इन्द्रा᳚य । बृ॒ह॒ते । मरु᳚तः । ब्रह्म᳚ । अ॒र्च॒त॒ ।
वृ॒त्रम् । ह॒न॒ति॒ । वृ॒त्र॒॑हा । श॒त॑क्र᳚तुः । वज्रे᳚ण । श॒त॑प᳚र्वणा ॥
वृ॒त्रम् । ह॒न॒ति॒ । वृ॒त्र॒॑हा । श॒त॑क्र᳚तुः । वज्रे᳚ण । श॒त॑प᳚र्वणा ॥
सायणभाष्यम् (Sayana Commentary)
हे मरुतो मितराविणः स्तोतारः बृहते महते वः स्तुत्यस्तोतृत्वलक्षणेन संबन्धेन युष्मदीयायेन्द्राय ब्रह्मसामलक्षणं स्तोत्रं प्रार्चत प्रोच्चारयत । ततो वृत्रहा वृत्रस्य पापस्यवा हन्ता शतक्रतुः शतविधकर्मा बहुविधप्रज्ञोवा इन्द्रः शतपर्वणा शतसंख्याकधारेण वज्रेण एतन्नामकेनायुधेन वूत्रमपामाव- रकं वृत्राख्यमसुरं हनति युष्माभिरभिष्टुतः सन् हन्तु । हन्तेर्लेट्यडागमः ॥ ३ ॥