अ॒भि प्र भ᳚र धृष॒ता धृ᳚षन्मन॒ः श्रव᳚श्चित्ते असद्बृ॒हत् ।
अर्ष॒न्त्वापो॒ जव᳚सा॒ वि मा॒तरो॒ हनो᳚ वृ॒त्रं जया॒ स्व᳚ः ॥
अर्ष॒न्त्वापो॒ जव᳚सा॒ वि मा॒तरो॒ हनो᳚ वृ॒त्रं जया॒ स्व᳚ः ॥
पदपाठः (Word-by-word)
अ॒भि । प्र । भ॒र॒ । धृ॒ष॒ता । धृ॒ष॒त्॑म॒नः॒ । श्रवः᳚ । चि॒त् । ते॒ । अ॒स॒त् । बृ॒हत् ।
अर्ष᳚न्तु । आपः᳚ । जव᳚सा । वि । मा॒तरः᳚ । हनः᳚ । वृ॒त्रम् । जय᳚ । स्वः᳚ ॥
अर्ष᳚न्तु । आपः᳚ । जव᳚सा । वि । मा॒तरः᳚ । हनः᳚ । वृ॒त्रम् । जय᳚ । स्वः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे धृषन्मनः शत्रूणां धर्षणशीलमनस्केन्द्र तेचित् तवैव बृहन्महदतिप्रभूतं श्रवोन्नमसदस्ति । तदन्नं धृषता धृष्टेन मनसा युक्तः सन् अस्मभ्यम- भिप्रभर अभ्याभिमुख्येन प्रकर्षेण संपादय देहीत्यर्थः । हे इन्द्र आपो मातरः अस्माकमुत्पादनहेतुत्वान्मातृभूताः । कथमपां मातृत्वंअद्भ्यः पृथिवी । पृथिव्याओषधयइत्यादिश्रुतेः । तादृश्यआपः जवसा वेगेन व्यर्षंतु विविधं भूमिं प्रतिगच्छन्तु-कथमापोगच्छन्तीतिचेत् तदाह-वृत्रं अपामावरितारं शत्रुं मेघं हनोजहि ताडय । ततो मेघभेदनेनोदकानि विगच्छन्तु पुनरपि स्वः सर्वं भूतजातं जय ॥ ४ ॥ प्रथमे स्वरसाम्नि निष्केवल्ये यज्जायथाअपूर्व्येति स्तोत्रियः । तथाच सूत्र्यते-तेषां स्तोत्रिया यज्जायथाअपूर्व्येति स्तोत्रियः । तथाच सूत्र्यते- तेषां स्तोत्रिया यज्जायथाअपूर्व्येति ।