श्रवणम्

8.89.2
अपा᳚धमद॒भिश᳚स्तीरशस्ति॒हाथेन्द्रो᳚ द्यु॒म्न्याभ᳚वत् ।
दे॒वास्त᳚ इन्द्र स॒ख्याय᳚ येमिरे॒ बृह᳚द्भानो॒ मरु᳚द्गण ॥
▶ पदपाठः (Word-by-word)
अप᳚ । अ॒ध॒म॒त् । अ॒भि॑श᳚स्तीः । अ॒श॒स्ति॒॑हा । अथ᳚ । इन्द्रः᳚ । द्यु॒म्नी । आ । अ॒भ॒व॒त् ।
दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय᳚ । ये॒मि॒रे॒ । बृह᳚द्भानो॒ इति॒ बृह᳚त्॑भानो । मरु᳚त्॑गण ॥
▶ सायणभाष्यम् (Sayana Commentary)

अशस्तिहा स्तोत्रशंसनरहितानां शत्रूणां हन्तेन्द्रः अभिशस्तीः शसुहिंसायां अभितोहिंसा येषां ते तादृशान् यद्वा अभिशस्तीः शत्रुकृता हिंसाः अपाधमत् अपागमयत् अथ शत्रुहन नानन्तरं इन्द्रोद्युम्नी सर्वत्रद्योतमानयशोयुक्तः । यद्वा तेषां धनापहरणेन धनादिमान् आभवत् सर्वतः प्रसिद्धोभवत् । अथोत्तरार्धः प्रत्यक्षकृतः हे बृहद्भानो बृंहणशीलतेजस्क महादीप्तेवा मरुद्गण मरुतां सप्तगणायस्यसन्ति सतथोक्तः तादृश हे इन्द्र देवाः द्योतमानाः सर्वे देवाः सख्याय आत्मनः सखिभावाय ते त्वां येमिरे नियच्छन्ति ॥ २ ॥