अष्टमं मण्डलम् - सूक्तम् 43

33 ऋचः

ऋषिः: विरूप आंगिरसः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 8.43 - सम्पूर्णम्

1 / 33
ऋक्: 8.43.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (33)
8.43.1
इ॒मे विप्र᳚स्य वे॒धसो॒॑ग्नेरस्तृ᳚तयज्वनः ।
गिर॒ः स्तोमा᳚स ईरते ॥
▶ पदपाठः (Word-by-word)
इ॒मे । विप्र᳚स्य । वे॒धसः᳚ । अ॒ग्नेः । अस्तृ᳚त॑यज्वनः ।
गिरः᳚ । स्तोमा᳚सः । ई॒र॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

षष्ठेनुवाके षट् सूक्तानि तत्रेमेविप्रस्येति त्रयस्त्रिंशदृचं प्रथमं सूक्तम् आंगिरसस्य विरूपस्यार्षं गायत्रमग्निदेवताकम् । तथाचानुक्रान्तम्-इमे त्रयस्त्रिंशद्विरूपआंगिरसआग्नेयंत्विति । प्रातरनवाकेआग्नेयेक्रतौ गायत्रेछन्दसि आश्विनशस्त्रे चैतदादिके द्वे सूक्ते । सूत्रितञ्च-इमेविप्रस्येति सूक्तेइति । कारीर्यावभृथेष्ट्याः प्रथमाज्यभागस्याप्स्वग्नइति अनुवाक्या । तथाचसूत्रितमअप्सुमन्तावाज्यभागावप्स्वग्नेसधिष्टवेति । आग्नीध्रस्य प्रातःसवने प्रस्थितयाज्या । श्रूयतेच-उक्षान्नायवशान्नायेत्याग्नीध्रोयजतीति । अग्निवतीष्टौ त्वंह्यग्नइत्येषा याज्या सूत्रितञ्च-त्वंह्यग्नेअग्निना अग्नेत्वमस्मद्युयोध्य- मीवाइति । अग्निमन्थनेप्येषा । सूत्रितञ्च-त्वंह्यग्नेअग्निना तंमर्जयन्तसुक्रतुमिति । अग्नयेकामायाष्टाकपालेष्टौ तुभ्यंताअंगिरस्तमेत्येपानुवाक्या । सूत्रितञ्च-तुभ्यंताअंगिरस्तमाश्यामतंकाममग्नेतवोतीति कामयेति । अन्वाहिताग्नेः प्रयाणे समारोपणपक्षे अनयैकाहुतिः कर्तव्या । तथाचसूत्रितम्- तुभ्यंताअंगिरस्तमेति वाज्याहुतिंहुत्वा समारोपयेदिति । वैद्युताग्निनाग्नीनां संसर्गे अग्नयेप्सुमतीष्टिः तत्र यदग्नेदिविजाइतियाज्या । सूत्रितंच-यदग्ने- दिविजाअस्यग्निर्होतान्यसीदद्यजीयानिति ।

इमेस्मदीयाः स्तोमासः स्तोतारोविप्रस्य मेधाविनः वेधसोविधातुरस्तृतयज्वनोहिंसितयजमानस्याग्नेर्गिरः स्तुतीरीरते प्रेरयन्ति ॥ १ ॥

8.43.2
अस्मै᳚ ते प्रति॒हर्य᳚ते॒ जात᳚वेदो॒ विच᳚र्षणे ।
अग्ने॒ जना᳚मि सुष्टु॒तिम् ॥
▶ पदपाठः (Word-by-word)
अस्मै᳚ । ते॒ । प्र॒ति॒॑हर्य᳚ते । जात᳚॑वेदः । वि॑च᳚र्षणे ।
अग्ने᳚ । जना᳚मि । सु॒॑स्तु॒तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदः जातधन विचर्षणे विद्रष्टरग्ने अस्मै प्रतिहर्यते प्रयच्छते ते तुभ्यं सुष्टुतिं शोभनां स्तुतिं जनामि अंगिरसोहं जनयामि ॥ २ ॥

8.43.3
आ॒रो॒का इ᳚व॒ घेदह᳚ ति॒ग्मा अ᳚ग्ने॒ तव॒ त्विषः᳚ ।
द॒द्भिर्वना᳚नि बप्सति ॥
▶ पदपाठः (Word-by-word)
आ॒रो॒काः॑इ᳚व । घ॒ । इत् । अह᳚ । ति॒ग्माः । अ॒ग्ने॒ । तव᳚ । त्विषः᳚ ।
द॒त्॑भिः । वना᳚नि । ब॒प्स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तव तिग्मास्तीक्ष्णास्त्विषोदीप्तयः आरोकाइव आरोचमानाः पशवइव दद्धिर्दन्तैर्वनान्यरण्यानि बप्सति भक्षयन्ति घेदहेति त्रयं पुरकम् ॥ ३ ॥

8.43.4
हर᳚यो धू॒मके᳚तवो॒ वात᳚जूता॒ उप॒ द्यवि᳚ ।
यत᳚न्ते॒ वृथ᳚ग॒ग्नयः᳚ ॥
▶ पदपाठः (Word-by-word)
हर᳚यः । धू॒म॑के᳚तवः । वात᳚॑जूताः । उप᳚ । द्यवि᳚ ।
यत᳚न्ते । वृथ᳚क् । अ॒ग्नयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरयोहरणशीला वातजूता वातप्रेरिता धूमकेतवो धूमध्वजा अग्नयः उपद्यव्यन्तरिक्षे वृथक् पृथग्यतन्ते गच्छन्ति । पृथगित्यनेन सममव्ययं वृथगि- ति । पृथगित्येव वाजसनेयिनः पठन्ति ॥ ४ ॥

8.43.5
ए॒ते त्ये वृथ᳚ग॒ग्नय᳚ इ॒द्धास॒ः सम᳚दृक्षत ।
उ॒षसा᳚मिव के॒तवः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒ते । त्ये । वृथ᳚क् । अ॒ग्नयः᳚ । इ॒द्धासः᳚ । सम् । अ॒दृ॒क्ष॒त॒ ।
उ॒षसा᳚म्॑इव । के॒तवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते त्ये एते अग्नयः वृथक् पृथगिद्धासोग्निहोत्रिभिः समिद्धाःसन्तः उषसामिच केतवः उषसां प्रज्ञापकाइव समदृक्षत सम्यक् दृश्यन्ते ॥ ५ ॥

8.43.6
कृ॒ष्णा रजां᳚सि पत्सु॒तः प्र॒याणे᳚ जा॒तवे᳚दसः ।
अ॒ग्निर्यद्रोध᳚ति॒ क्षमि᳚ ॥
▶ पदपाठः (Word-by-word)
कृ॒ष्णा । रजां᳚सि । प॒त्सु॒तः । प्र॒॑याने᳚ । जा॒त॑वे᳚दसः ।
अ॒ग्निः । यत् । रोध᳚ति । क्षमि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदसोग्नेः प्रयाणे पत्सुतः पत्तोरजांसि पांसवः कृष्णा कृष्णानि भवन्ति । कदेत्यतआहक्षमि क्षमाया यद्यदाग्निः रोधति शुष्कान्वनस्पतीन्निरुण- द्धि ॥ ६ ॥

8.43.7
धा॒सिं कृ᳚ण्वा॒न ओष᳚धी॒र्बप्स᳚द॒ग्निर्न वा᳚यति ।
पुन॒र्यन्तरु᳚णी॒रपि᳚ ॥
▶ पदपाठः (Word-by-word)
धा॒सिम् । कृ॒ण्वा॒नः । ओष᳚धीः । बप्स᳚त् । अ॒ग्निः । न । वा॒य॒ति॒ ।
पुनः᳚ । यन् । तरु᳚णीः । अपि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निरोषधीर्धासिमन्नम् । क्षु धासिरित्यन्ननामसुपाठात् । कृण्वानः कुर्वन् बप्सत् भक्षयन्न वायति नशाम्यति । पुनश्च तरुणीरोषधीरपि यन् गच्छन् भवति । भक्षयितुमिति शेषः ॥ ७ ॥

8.43.8
जि॒ह्वाभि॒रह॒ नन्न᳚मद॒र्चिषा᳚ जञ्जणा॒भव᳚न् ।
अ॒ग्निर्वने᳚षु रोचते ॥
▶ पदपाठः (Word-by-word)
जि॒ह्वाभिः᳚ । अह᳚ । नन्न᳚मत् । अ॒र्चिषा᳚ । ज॒ञ्ज॒णा॒॑भव᳚न् ।
अ॒ग्निः । वने᳚षु । रो॒च॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्जिह्वाभिरह ज्वालाभिरेव । नंनमत् अन्नवद्वनस्पतीनत्यन्तं भक्षयन् । अर्चिषा तेजसा जंजणाभवन् ज्वलन् जञ्जणाभवन् मल्मलाभन्निति ज्वलतिकर्मसुपाठात् वनेष्वरण्येषु रोचते प्रकाशते ॥ ८ ॥

8.43.9
अ॒प्स्व᳚ग्ने॒ सधि॒ष्टव॒ सौष᳚धी॒रनु᳚ रुध्यसे ।
गर्भे॒ सञ्जा᳚यसे॒ पुनः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒प्॑सु । अ॒ग्ने॒ । सधिः᳚ । तव᳚ । सः । ओष᳚धीः । अनु᳚ । रु॒ध्य॒से॒ ।
गर्भे᳚ । सन् । जा॒य॒से॒ । पुन॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यस्य तवाप्सु सधिः प्रवेशस्थानं सत्वमोषधीरनुरुध्यसे अनुरुणत्सि पुनश्च तासां भूमिष्ठानां गर्भेसन् भवन् जायसे प्रादुर्भवसि ॥ ९ ॥

8.43.10
उद᳚ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो᳚चत॒ आहु᳚तम् ।
निंसा᳚नं जु॒ह्वो॒३॒᳚ मुखे᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒ग्ने॒ । तव᳚ । तत् । घृ॒तात् । अ॒र्चिः । रो॒च॒ते॒ । आ॑हु᳚तम् ।
निंसा᳚नम् । जु॒ह्वः᳚ । मुखे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तव घृतादाहुतं घृतेनाहुतं जुह्वोहोमसाधनभूतायाः स्रुचोमुखे निंसानं लिहानं तदर्चिः उद्रोचते प्रकाशते ॥ १० ॥

8.43.11
उ॒क्षान्ना᳚य व॒शान्ना᳚य॒ सोम᳚पृष्ठाय वे॒धसे᳚ ।
स्तोमै᳚र्विधेमा॒ग्नये᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒क्ष॑अ᳚न्नाय । व॒शा॑अ᳚न्नाय । सोम᳚॑पृष्ठाय । वे॒धसे᳚ ।
स्तोमैः᳚ । वि॒धे॒म॒ । अ॒ग्नये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्षान्नाय उक्षा अन्नं अदनीयं हविर्यस्यासावुक्षान्नस्तस्मै वशान्नाय वशा अन्नं यस्यासौ वशान्नस्तस्मै सोमपृष्ठाय सोमघृतपृष्ठाय वेधसे विधात्रे कामानामग्नये स्तोमैर्विधेम परिचरेम ॥ ११ ॥

8.43.12
उ॒त त्वा॒ नम᳚सा व॒यं होत॒र्वरे᳚ण्यक्रतो ।
अग्ने᳚ स॒मिद्भि᳚रीमहे ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्वा॒ । नम᳚सा । व॒यम् । होतः᳚ । वरे᳚ण्यक्रतो॒ इति॒ वरे᳚ण्य॑क्रतो ।
अग्ने᳚ । स॒मित्॑भिः᳚ । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे होतर्देवानांह्वातर्वरेण्यक्रतो वरणीयप्रज्ञाग्ने त्वा त्वां वयमाङ्गिरसाः नमसान्नेन हविषा समिद्धिश्चेमहे याचामहे ॥ १२ ॥

8.43.13
उ॒त त्वा᳚ भृगु॒वच्छु᳚चे मनु॒ष्वद᳚ग्न आहुत ।
अ॒ङ्गि॒र॒स्वद्ध᳚वामहे ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्वा॒ । भृ॒गु॒॑वत् । शु॒चे॒ । म॒नु॒ष्वत् । अ॒ग्ने॒ । आ॒॑हु॒त॒ ।
अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शुचे स्वभावतः शुद्धाहुताग्ने त्वा त्वां भृगुवत् यथा भृगुस्तथा । मनुष्वत् यथा च मनुस्तथा अङ्गिरस्वदङ्गिरोवच्च हवामहे ॥ १३ ॥

8.43.14
त्वं ह्य᳚ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे᳚ण॒ सन्त्स॒ता ।
सखा॒ सख्या᳚ समि॒ध्यसे᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । अ॒ग्ने॒ । अ॒ग्निना᳚ । विप्रः᳚ । विप्रे᳚ण । सन् । स॒ता ।
सखा᳚ । सख्या᳚ । स॒म्॑इ॒ध्यसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विप्रोमेधावी सन् विद्यमानः सखाच त्वं विप्रेण सता सख्या अग्निना समिध्यसे । तथाच ब्राह्मणम्-त्वंत्द्यग्नेअग्निना विप्रोविप्रेणसन्त्सतेति विप्रइतरोविप्रइतरः सन्नितरः सन्नितरः सखासख्यासमिध्यसइत्येषहवा अस्यस्वः सखेति ॥ १४ ॥

8.43.15
स त्वं विप्रा᳚य दा॒शुषे᳚ र॒यिं दे᳚हि सह॒स्रिण᳚म् ।
अग्ने᳚ वी॒रव᳚ती॒मिष᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । विप्रा᳚य । दा॒शुषे᳚ । र॒यिम् । दे॒हि॒ । स॒ह॒स्रिण᳚म् ।
अग्ने᳚ । वी॒र॑व᳚तीम् । इष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सः प्रसिद्धस्त्वं विप्राय मेधाविने दाशुषे हविषां प्रदात्रे यजमानाय सहस्रिणं सहस्रसंख्याकमपरिमितं रयिं धनं वीरवतीं पुत्रपौत्रादिसहित- मिषमन्नंच देहि ॥ १५ ॥

8.43.16
अग्ने॒ भ्रात॒ः सह᳚स्कृत॒ रोहि᳚दश्व॒ शुचि᳚व्रत ।
इ॒मं स्तोमं᳚ जुषस्व मे ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । भ्रात॒रिति᳚ । सहः᳚॑कृत । रोहि᳚त्॑अश्व । शुचि᳚॑व्रत ।
इ॒मम् । स्तोम᳚म् । जु॒ष॒स्व॒ । मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने भ्रातः भ्रातृवद्यजमानानां मित्रभूत सहस्कृत सहसा बलेनकृत रोहिदश्व लोहितवर्णाश्व शुचिव्रत शुद्धकर्मन्नग्ने आङ्गिरसस्ये मे मम इमं स्तोमं जुषस्व सेवस्व ॥ १६ ॥

8.43.17
उ॒त त्वा᳚ग्ने॒ मम॒ स्तुतो᳚ वा॒श्राय᳚ प्रति॒हर्य᳚ते ।
गो॒ष्ठं गाव᳚ इवाशत ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्वा॒ । अ॒ग्ने॒ । मम᳚ । स्तुतः᳚ । वा॒श्राय᳚ । प्र॒ति॒॑हर्य᳚ते ।
गो॒॑स्थम् । गावः᳚॑इव । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे अग्ने त्वा त्वां ममाङ्गिरसस्य स्तुतः स्तुतयः वाश्राय वाशनशीलाय वत्साय प्रतिहर्यते पयः कामयमानाय दोग्धुं गोष्ठं गावइव यथा गावः प्रविशन्ति तथा आशत प्राप्नुवन्ति ॥ १७ ॥

8.43.18
तुभ्यं॒ ता अ᳚ङ्गिरस्तम॒ विश्वा᳚ः सुक्षि॒तय॒ः पृथ᳚क् ।
अग्ने॒ कामा᳚य येमिरे ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । ताः । अ॒ङ्गि॒रः॒॑त॒म॒ । विश्वाः᳚ । सु॒॑क्षि॒तयः᳚ । पृथ᳚क् ।
अग्ने᳚ । कामा᳚य । ये॒मि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अङ्गिरस्तम अङ्गिरसां श्रेष्ठाग्ने तुभ्यं विश्वाः सर्वास्ताः प्रसिद्धाः सुक्षितयः प्रजाः कामायात्मनः कामसिद्ध्यर्थं पृथग्येमिरे नियच्छन्ति ॥ १८ ॥

8.43.19
अ॒ग्निं धी॒भिर्म᳚नी॒षिणो॒ मेधि᳚रासो विप॒श्चितः᳚ ।
अ॒द्म॒सद्या᳚य हिन्विरे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । धी॒भिः । म॒नी॒षिणः᳚ । मेधि᳚रासः । वि॒पः॒॑चितः᳚ ।
अ॒द्म॒॑सद्या᳚य । हि॒न्वि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मनीषिणो मनसईश्वराः मेधिरासो मेधाविनो विपश्चितः प्राज्ञाः यजमाना धीभिः कर्मभिरद्मसद्यायान्नस्य भजनायाग्निं हिन्विरे प्रीणयन्ति ॥ १९ ॥

8.43.20
तं त्वामज्मे᳚षु वा॒जिनं᳚ तन्वा॒ना अ᳚ग्ने अध्व॒रम् ।
वह्निं॒ होता᳚रमीळते ॥
▶ पदपाठः (Word-by-word)
तम् । त्वाम् । अज्मे᳚षु । वा॒जिन᳚म् । त॒न्वा॒नाः । अ॒ग्ने॒ । अ॒ध्व॒रम् ।
वह्नि᳚म् । होता᳚रम् । ई॒ळ॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वाजिनं बलिनं वह्निं हविषांवोढारं होतारं देवानां ह्वातारं तं प्रसिद्धं त्वामज्मेषु गृहेषु अध्वरं यज्ञं तन्वानाविस्तरयन्तो यजमाना ईळते स्तुवन्ति ॥ २० ॥

8.43.21
पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु᳚ प्र॒भुः ।
स॒मत्सु᳚ त्वा हवामहे ॥
▶ पदपाठः (Word-by-word)
पु॒रु॒॑त्रा । हि । स॒॑दृङ् । असि᳚ । विशः᳚ । विश्वाः᳚ । अनु᳚ । प्र॒॑भुः ।
स॒मत्॑सु᳚ । त्वा॒ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं हि यतः प्रभु प्रभुः सुलोपश्छान्दसः पुरुत्रा बहुषु प्रदेशेषु विश्वाः सर्वाविशः प्रजाः अनु सदृङ् समानदर्श्यस्यतस्त्वा त्वां समत्सु संग्रामेषु हवामहे ह्वयामः ॥ २१ ॥

8.43.22
तमी᳚ळिष्व॒ य आहु᳚तो॒॑ग्निर्वि॒भ्राज᳚ते घृ॒तैः ।
इ॒मं नः᳚ शृणव॒द्धव᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒ळि॒ष्व॒ । यः । आ॑हु᳚तः । अ॒ग्निः । वि॒॑भ्राज᳚ते । घृ॒तैः ।
इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः घृतैः सहआहुतो विभ्राजते यश्च नोस्माकं इमं हवमाह्वानं शृणवच्छृणोति तमग्निमीळिष्व स्तुहि ॥ २२ ॥

8.43.23
तं त्वा᳚ व॒यं ह᳚वामहे शृ॒ण्वन्तं᳚ जा॒तवे᳚दसम् ।
अग्ने॒ घ्नन्त॒मप॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ । शृ॒ण्वन्त᳚म् । जा॒त॑वे᳚दसम् ।
अग्ने᳚ । घ्नन्त᳚म् । अप᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने जातवेदसं जातधनं जातप्रज्ञं वा द्विषः शत्रूनपघ्नन्तं हिंसन्तं शृण्वन्तमस्मदीयमाह्वानं शृण्वन्तंच त्वा त्वां वयमाङ्गिरसा हवामहे ॥ २३ ॥

8.43.24
वि॒शां राजा᳚न॒मद्भु᳚त॒मध्य᳚क्षं॒ धर्म᳚णामि॒मम् ।
अ॒ग्निमी᳚ळे॒ स उ᳚ श्रवत् ॥
▶ पदपाठः (Word-by-word)
वि॒शाम् । राजा᳚नम् । अद्भु᳚तम् । अधि᳚॑अक्षम् । धर्म᳚णाम् । इ॒मम् ।
अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति᳚ । श्र॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विशां प्रजानां राजानमीश्वरं अद्भुतं महान्तं धर्मणां कर्मणामध्यक्षमनुसंधातारं इममग्निं ईळे स्तौमि । सउ सएवाग्निः श्रवदस्मदीयां स्तुतिं शृणोतु ॥ २४ ॥

8.43.25
अ॒ग्निं वि॒श्वायु᳚वेपसं॒ मर्यं॒ न वा॒जिनं᳚ हि॒तम् ।
सप्तिं॒ न वा᳚जयामसि ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । वि॒श्वायु᳚॑वेपसम् । मर्य᳚म् । न । वा॒जिन᳚म् । हि॒तम् ।
सप्ति᳚म् । न । वा॒ज॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वायुवेपसं सर्वगतबलमग्निं वाजिनं बलिनं मर्यं न मनुष्यमिव । हितं सप्तिं न अश्वमिव वाजयामसि स्तुतिभिर्हविर्भिश्च बलिनं कुर्मः ॥ २५ ॥

8.43.26
घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां᳚सि वि॒श्वहा᳚ ।
अग्ने᳚ ति॒ग्मेन᳚ दीदिहि ॥
▶ पदपाठः (Word-by-word)
घ्नन् । मृ॒ध्राणि᳚ । अप᳚ । द्विषः᳚ । दह᳚न् । रक्षां᳚सि । वि॒श्वहा᳚ ।
अग्ने᳚ । ति॒ग्मेन᳚ । दी॒दि॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं मृध्राणि हिंसकान् द्विषोद्वेष्टृनपघ्नन् हिंसन् विश्वहा सर्वदा रक्षांसि च दहन् तिग्मेन तीक्ष्णेन तेजसा दीदिहि दीप्यस्व ॥ २६ ॥

8.43.27
यं त्वा॒ जना᳚स इन्ध॒ते म᳚नु॒ष्वद᳚ङ्गिरस्तम ।
अग्ने॒ स बो᳚धि मे॒ वचः᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । जना᳚सः । इ॒न्ध॒ते । म॒नु॒ष्वत् । अ॒ङ्गि॒रः॒॑त॒म॒ ।
अग्ने᳚ । सः । बो॒धि॒ । मे॒ । वचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अङ्गिरस्तमाग्ने यं त्वा त्वां जनासो जनाः मनुष्वत् यथामनुस्तथा इन्धते दीपयन्ति सत्वं मे मदीयं वचः स्तुतिं बोधि बुध्यस्व ॥ २७ ॥

8.43.28
यद᳚ग्ने दिवि॒जा अस्य᳚प्सु॒जा वा᳚ सहस्कृत ।
तं त्वा᳚ गी॒र्भिर्ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒ग्ने॒ । दि॒वि॒॑जाः । असि᳚ । अ॒प्सु॒॑जाः । वा॒ । स॒हः॒॑कृ॒त॒ ।
तम् । त्वा॒ । गीः॒॑भिः । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यद्यस्त्वं दिविजा दिविभवोसि भवसि अप्सुजा वान्तरिक्षजातश्च भवसि सहस्कृत सहसा बलेन कृतश्चासि तं त्वा त्वामग्निं गीर्भिः स्तुतिभि- र्हवामहे ह्वयामः ॥ २८ ॥

8.43.29
तुभ्यं॒ घेत्ते जना᳚ इ॒मे विश्वा᳚ः सुक्षि॒तय॒ः पृथ᳚क् ।
धा॒सिं हि᳚न्व॒न्त्यत्त᳚वे ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । घ॒ । इत् । ते । जनाः᳚ । इ॒मे । विश्वाः᳚ । सु॒॑क्षि॒तयः᳚ । पृथ᳚क् ।
धा॒सिम् । हि॒न्व॒न्ति॒ । अत्त᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तुभ्यं घ इत् त्वदर्थमेव ते इमे मया दृश्यमाना जना विश्वाः सर्वाः सुक्षितयः प्रजाश्च धासिमन्नं हविरत्तवे अदनाय पृथक् हिन्वन्ति प्रेरयन्ति ॥ २९ ॥

8.43.30
ते घेद᳚ग्ने स्वा॒ध्यो॑हा॒ विश्वा᳚ नृ॒चक्ष᳚सः ।
तर᳚न्तः स्याम दु॒र्गहा᳚ ॥
▶ पदपाठः (Word-by-word)
ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒॑आ॒ध्यः । अहा᳚ । विश्वा᳚ । नृ॒॑चक्ष᳚सः ।
तर᳚न्तः । स्या॒म॒ । दुः॒॑गहा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तेघेत् त्वदर्थमेव खलु वयं स्वाध्यः सुकर्माणः सन्तः विश्वा विश्वान्यहा अहानि नृचक्षसोद्रष्टारश्च दुर्गहा दुःखेन गाहयितव्यानि तरन्तः स्याम भवेम ॥ ३० ॥

8.43.31
अ॒ग्निं म॒न्द्रं पु᳚रुप्रि॒यं शी॒रं पा᳚व॒कशो᳚चिषम् ।
हृ॒द्भिर्म॒न्द्रेभि᳚रीमहे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । म॒न्द्रम् । पु॒रु॒॑प्रि॒यम् । शी॒रम् । पा॒व॒क॑शो᳚चिषम् ।
हृ॒त्॑भिः । म॒न्द्रेभिः᳚ । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्द्रं मादनं पुरुप्रियं बहुप्रियं शीरं यज्ञेषु शयनशीलं पावकशोचिषं पावकदीप्तिं अग्निं त्दृद्भिर्मनोहरैर्मन्द्रेभिर्मादनैः स्तोत्रैः ईमहे याचामहे ॥ ३१ ॥

8.43.32
स त्वम᳚ग्ने वि॒भाव᳚सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभि᳚ः ।
शर्ध॒न्तमां᳚सि जिघ्नसे ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । अ॒ग्ने॒ । वि॒भा॑व᳚सुः । सृ॒जन् । सूर्यः᳚ । न । र॒श्मि॑भिः᳚ ।
शर्ध᳚न् । तमां᳚सि । जि॒घ्न॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विभावसुर्दीप्तिरोचनः सः प्रसिद्धस्त्वं सृजन्नुद्यन् सूर्योन यथा सूर्यस्तथा रश्मिभिः शर्धन् बलं कुर्वन् तमांसि जिघ्नसे नाशयसि ॥ ३२ ॥

8.43.33
तत्ते᳚ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य᳚ति ।
त्वद᳚ग्ने॒ वार्यं॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
तत् । ते॒ । स॒ह॒स्वः॒ । ई॒म॒हे॒ । दा॒त्रम् । यत् । न । उ॒प॒॑दस्य᳚ति ।
त्वत् । अ॒ग्ने॒ । वार्य᳚म् । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहस्वोबलवन्नग्ने ते तव यद्वसु नोपदस्यति नोपक्षीयते तद्दात्रं दातव्यं वार्यं वरणीयंच वसु धनं त्वत् त्वत्तईमहे याचामहे ॥ ३३ ॥

समिधाग्निमिति त्रिंशदृचं द्वितीयं सूक्तं आङ्गिरसस्य विरूपस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमाग्नेयम् । तथाचानुक्रम्यते-समिधाग्निंत्रिंशदिति । प्रातरनुवाके गायत्रेछन्दस्याश्विनशस्त्रे चेदंविनियुक्तम् । महाव्रते समिधाग्निमित्याद्याश्चतस्रः सामिधेन्यः । तथाच पञ्चमारण्यकेसूत्रितम्समिधाग्नि- मिति चतस्रोवैश्वकर्मणऋषभइति । आतिथ्यायां समिधाग्निमित्येषा प्रथमाज्यभागस्यानुवाक्या । सूत्रितञ्च-समिधाग्निंदुवस्यताप्यायस्वसमेतुतइति । अमावास्यायां प्रथमाज्यभागस्यानुवाक्या । सुत्रितञ्च-वृधन्वन्तावमावास्यायामग्निःप्रत्नेनमन्मनेति । दर्शपूर्णमासयोराग्नेयस्यानुवाक्या अग्निर्मूर्धेत्ये- षा सूत्रितञ्च-अग्निर्मूर्धाभुवोयज्ञस्येति । मूर्धन्वद्गुगस्याग्नेरप्येषैवानुवाक्या सुत्रितञ्च-नित्येमूर्धन्वइति । पवमानेष्टिषु द्वितीयस्यामिष्टौ अग्नेःशुचेरनु- वाक्या अग्निःशुचिव्रततमइत्येषा । सूत्रितञ्च अग्निः शुचिव्रततमउदग्नेशुचयस्तवेति ।