अष्टमं मण्डलम् - सूक्तम् 45

42 ऋचः

ऋषिः: त्रिशोकः काण्वः देवता: इंद्राग्नी छन्दः: गायत्री

सूक्तम् 8.45 - सम्पूर्णम्

1 / 42
ऋक्: 8.45.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (42)
8.45.1
आ घा॒ ये अ॒ग्निमि᳚न्ध॒ते स्तृ॒णन्ति᳚ ब॒र्हिरा᳚नु॒षक् ।
येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । घ॒ । ये । अ॒ग्निम् । इ॒न्ध॒ते । स्तृ॒णन्ति᳚ । ब॒र्हिः । आ॒नु॒षक् ।
येषा᳚म् । इन्द्रः᳚ । युवा᳚ । सखा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये ऋषयः आघ आभिमुख्येन खल्वग्निमिन्धते दीपयन्ति येषांच युवा नित्यतरुणइन्द्रः सखा भवति तेषां आनुषगानुपूर्व्येण बर्हिः स्तृणन्ति ॥ १ ॥

8.45.2
बृ॒हन्निदि॒ध्म ए᳚षां॒ भूरि᳚ श॒स्तं पृ॒थुः स्वरु᳚ः ।
येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ॥
▶ पदपाठः (Word-by-word)
बृ॒हन् । इत् । इ॒ध्मः । ए॒षा॒म् । भूरि᳚ । श॒स्तम् । पृ॒थु । स्वरुः᳚ ।
येषा᳚म् । इन्द्रः᳚ । युवा᳚ । सखा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषामृषीणां इध्मोबृहन्नित् महान् खलु । भूरि बहुच शस्तं स्तोत्रं स्वरुश्च पृथुर्महान् । सिद्धमन्यत् ॥ २ ॥

8.45.3
अयु᳚द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज᳚ति॒ सत्व᳚भिः ।
येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ॥
▶ पदपाठः (Word-by-word)
अयु᳚द्धः । इत् । यु॒धा । वृत᳚म् । शूरः᳚ । आ । अ॒ज॒ति॒ । सत्व᳚॑भिः ।
येषा᳚म् । इन्द्रः᳚ । युवा᳚ । सखा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेष्वन्तर्भूतः कश्चिदयुद्धइत्प्रागयोद्धैवसन् युधावृतं योद्धृभिर्भटैरावृतं शत्रुं सत्वभिरात्मीयैर्बलैः शूरः सन् आजति नमयति ॥ ३ ॥

8.45.4
आ बु॒न्दं वृ᳚त्र॒हा द᳚दे जा॒तः पृ᳚च्छ॒द्वि मा॒तर᳚म् ।
क उ॒ग्राः के ह᳚ शृण्विरे ॥
▶ पदपाठः (Word-by-word)
आ । बु॒न्दम् । वृ॒त्र॒॑हा । द॒दे॒ । जा॒तः । पृ॒च्छ॒त् । वि । मा॒तर᳚म् ।
के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातउत्पन्नोवृत्रहेन्द्रमिषुं तथाचयास्कः-बुन्दइषुर्भवतीति । आददे आदाय चेषुं उग्राः उद्गूर्णबलाः के केच श्रृण्विरे बीर्येण विश्रुताइति स्वमातरं विपृच्छत् अप्राक्षीत् ॥ ४ ॥

8.45.5
प्रति᳚ त्वा शव॒सी व᳚दद्गि॒रावप्सो॒ न यो᳚धिषत् ।
यस्ते᳚ शत्रु॒त्वमा᳚च॒के ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । त्वा॒ । श॒व॒सी । व॒द॒त् । गि॒रौ । अप्सः᳚ । न । यो॒धि॒ष॒त् ।
यः । ते॒ । श॒त्रु॒॑त्वम् । आ॒॑च॒के ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां शवसी बलवती माता प्रतिवदत्प्रत्यवोचत् । यः ते शत्रुत्वमाचके कामयते सगिरौ पर्वते अप्सोन दर्शनीयोगजइव योधिषत् योधयति ॥ ५ ॥

8.45.6
उ॒त त्वं म᳚घवञ्छृणु॒ यस्ते॒ वष्टि᳚ व॒वक्षि॒ तत् ।
यद्वी॒ळया᳚सि वी॒ळु तत् ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्वम् । म॒घ॒॑व॒न् । शृ॒णु॒ । यः । ते॒ । वष्टि᳚ । व॒वक्षि᳚ । तत् ।
यत् । वी॒ळया᳚सि । वी॒ळु । तत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे मघवन् त्वं श्रुणु अस्मदीयां स्तुतिम् । ते त्वत्तोयद्वष्टि कामयते स्तोता तद्ववक्षि तस्मै तद्वहसि । किञ्च त्वं यद्वीळयासि दृढीकरोषि तद्वीळु तत् दृढमेव सर्वत्र भवति ॥ ६ ॥

8.45.7
यदा॒जिं यात्या᳚जि॒कृदिन्द्र᳚ः स्वश्व॒युरुप᳚ ।
र॒थीत᳚मो र॒थीना᳚म् ॥
▶ पदपाठः (Word-by-word)
यत् । आ॒जिम् । याति᳚ । आ॒जि॒॑कृत् । इन्द्रः᳚ । स्व॒श्व॒॑युः । उप᳚ ।
र॒थि॑त᳚मः । र॒थिना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा आजिकृत् युद्धकृदिन्द्रः स्वश्वयुः कल्याणमश्वमिच्छन् आजिं युद्धमुपयाति तदा रथीतमोतिशयेनरथी भवति । रथीनां सर्वान्रथिनश्च जयती- तिशेषः ॥ ७ ॥

8.45.8
वि षु विश्वा᳚ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा᳚ वृह ।
भवा᳚ नः सु॒श्रव᳚स्तमः ॥
▶ पदपाठः (Word-by-word)
वि । सु । विश्वाः᳚ । अ॒भि॒॑युजः᳚ । वज्रि᳚न् । विष्व᳚क् । यथा᳚ । वृ॒ह॒ ।
भव᳚ । नः॒ । सु॒श्रवः᳚॑तमः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वज्रिन् त्वं विश्वाः सर्वाः अभियुजोभियोक्त्रीः प्रजाः यथा विष्वग्भवति तथा सु सुष्ठु विवृह नोस्माकं सुश्रवस्तमः शोभनान्नवत्तमश्च भव ॥ ८ ॥

8.45.9
अ॒स्माकं॒ सु रथं᳚ पु॒र इन्द्र᳚ः कृणोतु सा॒तये᳚ ।
न यं धूर्व᳚न्ति धू॒र्तयः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । सु । रथ᳚म् । पु॒रः । इन्द्रः᳚ । कृ॒णो॒तु॒ । सा॒तये᳚ ।
न । यम् । धूर्व᳚न्ति । धू॒र्तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमिन्द्रं धूर्तयोहिंसकाः न धूर्वन्ति न हिंसन्ति सइन्द्रोस्माकं सातयेभीष्टलाभाय सुरथं कल्याणं रथं पुरः कृणोतु पुरस्करोतु ॥ ९ ॥

8.45.10
वृ॒ज्याम᳚ ते॒ परि॒ द्विषो॑रं᳚ ते शक्र दा॒वने᳚ ।
ग॒मेमेदि᳚न्द्र॒ गोम᳚तः ॥
▶ पदपाठः (Word-by-word)
वृ॒ज्याम᳚ । ते॒ । परि᳚ । द्विषः᳚ । अर᳚म् । ते॒ । श॒क्र॒ । दा॒वने᳚ ।
ग॒मेम᳚ । इत् । इ॒न्द्र॒ । गो॑म᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शक्रेन्द्र याचमानावयं ते तव द्विषोद्वेष्टृन् परिवृज्याम नोपगच्छेम । किन्तु ते तव गोमतः पशुमतोदावनेभीष्टदानाय अरं पर्याप्तं गमेमेत् गच्छेमैव ॥ १० ॥

8.45.11
शनै᳚श्चि॒द्यन्तो᳚ अद्रि॒वो॑श्वा᳚वन्तः शत॒ग्विनः᳚ ।
वि॒वक्ष᳚णा अने॒हसः᳚ ॥
▶ पदपाठः (Word-by-word)
शनैः᳚ । चि॒त् । यन्तः᳚ । अ॒द्रि॒॑वः॒ । अश्व᳚॑वन्तः । श॒त॒॑ग्विनः᳚ ।
वि॒वक्ष᳚णाः । अ॒ने॒हसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवोवज्रिन् वयं शनैर्मन्दंमन्दं यन्तोगच्छन्तोश्वावन्तोश्ववन्तः शतग्विनोबहुधना विवक्षणाः वोढव्यं वहन्तोनेहसः उपद्रवरहिताश्च सन्तोगमेमे- दिति संबन्धः ॥ ११ ॥

8.45.12
ऊ॒र्ध्वा हि ते᳚ दि॒वेदि᳚वे स॒हस्रा᳚ सू॒नृता᳚ श॒ता ।
ज॒रि॒तृभ्यो᳚ वि॒मंह᳚ते ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वा । हि । ते॒ । दि॒वे॑दि᳚वे । स॒हस्रा᳚ । सू॒नृता᳚ । श॒ता ।
ज॒रि॒तृ॑भ्यः᳚ । वि॒॑मंह᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव जरितृभ्यः स्तोतृभ्यः सहस्रा सहस्राणि शता शतानि चोर्ध्वा ऊर्ध्वानि मुख्यानि सूनृता सूनृतानि साधनानि दिवेदिवेन्वहं विमंहते यजमानः प्रयच्छति । मंहतिर्दानकर्मा ॥ १२ ॥

8.45.13
वि॒द्मा हि त्वा᳚ धनंज॒यमिन्द्र᳚ दृ॒ळ्हा चि᳚दारु॒जम् ।
आ॒दा॒रिणं॒ यथा॒ गय᳚म् ॥
▶ पदपाठः (Word-by-word)
वि॒द्म । हि । त्वा॒ । ध॒न॒म्॑ज॒यम् । इन्द्र᳚ । दृ॒ळ्हा । चि॒त् । आ॒॑रु॒जम् ।
आ॒दा॒रिण᳚म् । यथा᳚ । गय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां धनञ्चयं धनानां जेतारं दृढाचित् दृढानामपि शत्रूणामारुजं आभिमुख्येन भंक्तारं आदारिणमादर्तारञ्च यथा गयं गृहमिवोपद्रवेभ्यो- रक्षकञ्च विद्म जानीम ॥ १३ ॥

8.45.14
क॒कु॒हं चि᳚त्त्वा कवे॒ मन्द᳚न्तु धृष्ण॒विन्द᳚वः ।
आ त्वा᳚ प॒णिं यदीम᳚हे ॥
▶ पदपाठः (Word-by-word)
क॒कु॒हम् । चि॒त् । त्वा॒ । क॒वे॒ । मन्द᳚न्तु । धृ॒ष्णो॒ इति᳚ । इन्द᳚वः ।
आ । त्वा॒ । प॒णिम् । यत् । ईम᳚हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कवे क्रान्तकर्मन् धृष्णो धर्षकेन्द्र यद्यदा पणिं पणमानं त्वा त्वां आ आभिमुख्येनेमहेभीष्टं याचामहे । तदा ककुहं उच्छ्रितं त्वा त्वामिन्द्रवश्चित् सोमाअपि मन्दन्तु मादयन्तु ॥ १४ ॥

8.45.15
यस्ते᳚ रे॒वा{4} अदा᳚शुरिः प्रम॒मर्ष᳚ म॒घत्त᳚ये ।
तस्य᳚ नो॒ वेद॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । रे॒वान् । अदा᳚शुरिः । प्र॒॑म॒मर्ष᳚ । म॒घत्त᳚ये ।
तस्य᳚ । नः॒ । वेदः᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मघत्तये धनदानाय ते तुभ्यं यः पुमान् रेवान् धनवान् सन् अदाशुरिरदानशीलः प्रममर्षाभ्यसूयति तस्य पुंसोवेदोधनं नोस्मभ्यमाभराहर ॥ १५ ॥

8.45.16
इ॒म उ᳚ त्वा॒ वि च᳚क्षते॒ सखा᳚य इन्द्र सो॒मिनः᳚ ।
पु॒ष्टाव᳚न्तो॒ यथा᳚ प॒शुम् ॥
▶ पदपाठः (Word-by-word)
इ॒मे । ऊं॒ इति᳚ । त्वा॒ । वि । च॒क्ष॒ते॒ । सखा᳚यः । इ॒न्द्र॒ । सो॒मिनः᳚ ।
पु॒ष्ट॑व᳚न्तः । यथा᳚ । प॒शुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां सोमिनोभिषुतसोमसखायः इमउ इमेएव खल्वस्मदीयाजनाः पुष्टावन्ताः संभृतघासाः यथा पशुं पशुमिव विचक्षते विपश्यन्ति ॥ १६ ॥

8.45.17
उ॒त त्वाब᳚धिरं व॒यं श्रुत्क᳚र्णं॒ सन्त᳚मू॒तये᳚ ।
दू॒रादि॒ह ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्वा॒ । अब᳚धिरम् । व॒यम् । श्रुत्॑क᳚र्णम् । सन्त᳚म् । ऊ॒तये᳚ ।
दू॒रात् । इ॒ह । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे इन्द्र अबधिरं अनुपहतश्रोत्रेन्द्रियं अतएव श्रुत्कर्णं श्रवणपरकर्णं सन्तं त्वा त्वां वयं त्रिशोकाइह यज्ञे ऊतये रक्षणाय दूराद्धवामहे ह्वयामः ॥ १७ ॥

8.45.18
यच्छु᳚श्रू॒या इ॒मं हवं᳚ दु॒र्मर्षं᳚ चक्रिया उ॒त ।
भवे᳚रा॒पिर्नो॒ अन्त᳚मः ॥
▶ पदपाठः (Word-by-word)
यत् । शु॒श्रु॒याः । इ॒मम् । हव᳚म् । दुः॒॑मर्ष᳚म् । च॒क्रि॒याः॒ । उ॒त ।
भवेः᳚ । आ॒पिः । नः॒ । अन्त᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यद्यदीममस्मदीयं हवमाह्वानं शुश्रुयाः शृणुयाः तर्हि दुर्मर्षं शत्रूणां दुःसाहं बलं चक्रियाः कुर्याः । उतापिच नोस्माकमन्तमः अन्तिकतम आपिर्बन्धुः भवेः ॥ १८ ॥

8.45.19
यच्चि॒द्धि ते॒ अपि॒ व्यथि᳚र्जग॒न्वांसो॒ अम᳚न्महि ।
गो॒दा इदि᳚न्द्र बोधि नः ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त् । हि । ते॒ । अपि᳚ । व्यथिः᳚ । ज॒ग॒न्वांसः᳚ । अम᳚न्महि ।
गो॒॑दाः । इत् । इ॒न्द्र॒ । बो॒धि॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपिचिदपिच हे इन्द्र ते तुभ्यं यद्यदाहि व्यथिर्दारिद्य्रेण व्यथिताः जगन्वांसोगन्तारोवयममन्महि विष्टुमः तदा नोस्माकं गोदाइत् गवांदातैव भ- वामीति बोधि बुध्यस्व ॥ १९ ॥

8.45.20
आ त्वा᳚ र॒म्भं न जिव्र᳚यो रर॒भ्मा श᳚वसस्पते ।
उ॒श्मसि᳚ त्वा स॒धस्थ॒ आ ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । र॒म्भम् । न । जिव्र᳚यः । र॒र॒भ्म । श॒व॒सः॒ । प॒ते॒ ।
उ॒श्मसि᳚ । त्वा॒ । स॒ध॑स्थे᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शवसस्पते बलस्यपते त्वा त्वां वयं जिव्रयः क्षीणावृद्धारम्भंन दंडमिव ररभ्म आरभामहे । तत्थाचयास्कः-आरभामहे त्वाजीर्णाइव दण्डमिति । अपिच त्वा त्वां सधस्थे यज्ञे उरमसि कामयामहे ॥ २० ॥

8.45.21
स्तो॒त्रमिन्द्रा᳚य गायत पुरुनृ॒म्णाय॒ सत्व᳚ने ।
नकि॒र्यं वृ᳚ण्व॒ते यु॒धि ॥
▶ पदपाठः (Word-by-word)
स्तो॒त्रम् । इन्द्रा᳚य । गा॒य॒त॒ । पु॒रु॒॑नृ॒म्णाय᳚ । सत्व᳚ने ।
नकिः᳚ । यम् । वृ॒ण्व॒ते । यु॒धि ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमिन्द्रं युधि युद्धे नकिर्वृण्वते केपिनवारयन्ति तस्मै सत्वने दानशीलाय पुरुनृम्णाय बहुधनायेन्द्राय स्तोत्रं गायत पठत ॥ २१ ॥

8.45.22
अ॒भि त्वा᳚ वृषभा सु॒ते सु॒तं सृ᳚जामि पी॒तये᳚ ।
तृ॒म्पा व्य᳚श्नुही॒ मद᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । वृ॒ष॒भ॒ । सु॒ते । सु॒तम् । सृ॒जा॒मि॒ । पी॒तये᳚ ।
तृ॒म्प । वि । अ॒श्नु॒हि॒ । मद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषभेन्द्र त्वा त्वां सुते सोमेभिषुतेसति सुतमभिषुतंसोमं पीतये पानायाभिसृजामि तृंप तृप्य मदं मदकरं सोमं व्यश्नुहिच ॥ २२ ॥

8.45.23
मा त्वा᳚ मू॒रा अ᳚वि॒ष्यवो॒ मोप॒हस्वा᳚न॒ आ द᳚भन् ।
माकीं᳚ ब्रह्म॒द्विषो᳚ वनः ॥
▶ पदपाठः (Word-by-word)
मा । त्वा॒ । मू॒राः । अ॒वि॒ष्यवः᳚ । मा । उ॒प॒॑हस्वा᳚नः । आ । द॒भ॒न् ।
माकी᳚म् । ब्र॒ह्म॒॑द्विषः᳚ । व॒नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां मूराः मूरका मूढा मनुष्या अविष्यवः पालनकामा मादभन् माहिंसंतु । उपहस्वानः उपहसनपराश्च माभवन्तु । ब्रह्मद्विषो ब्राह्मणा- नां द्वेष्टृन् माकीं वनः मा भजेथाः ॥ २३ ॥

8.45.24
इ॒ह त्वा॒ गोप᳚रीणसा म॒हे म᳚न्दन्तु॒ राध᳚से ।
सरो᳚ गौ॒रो यथा᳚ पिब ॥
▶ पदपाठः (Word-by-word)
इ॒ह । त्वा॒ । गो॑प᳚रीणसा । म॒हे । म॒न्द॒न्तु॒ । राध᳚से ।
सरः᳚ । गौ॒रः । यथा᳚ । पि॒ब॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वामिहयज्ञे गोपरीणसा गव्येनपयसा संमिश्रितेन सोमेन महे महते राधसे धनाय मन्दन्तु मनुष्यामादयन्तु । त्वञ्च तं सोमं यथा गौरोमृगः सरः पिबति तथा पिब ॥ २४ ॥

8.45.25
या वृ᳚त्र॒हा प᳚रा॒वति॒ सना॒ नवा᳚ च चुच्यु॒वे ।
ता सं॒सत्सु॒ प्र वो᳚चत ॥
▶ पदपाठः (Word-by-word)
या । वृ॒त्र॒॑हा । प॒रा॒॑वति᳚ । सना᳚ । नवा᳚ । च॒ । चु॒च्यु॒वे ।
ता । सं॒सत्॑सु᳚ । प्र । वो॒च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहेन्द्रः परावति दूरे या यानि सना सनातनानि नवा नवानि नूतनानि च धनानि चुच्युवे प्रेरितवान् तानि धनानि संसत्सु यज्ञेषु सभासुवा प्रवोचत प्रब्रूते विद्वज्जनः ॥ २५ ॥

8.45.26
अपि᳚बत्क॒द्रुवः᳚ सु॒तमिन्द्र᳚ः स॒हस्र᳚बाह्वे ।
अत्रा᳚देदिष्ट॒ पौंस्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अपि᳚बत् । क॒द्रुवः᳚ । सु॒तम् । इन्द्रः᳚ । स॒हस्र᳚॑बाह्वे ।
अत्र᳚ । अ॒दे॒दि॒ष्ट॒ । पौंस्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः कद्रुवः कद्रुनामकस्यऋषेः संबंधिनं सुतमभिषुतं सोममपिबतु पीतवान् । सहस्रबाह्वे सहस्रबाहोः शत्रूंश्चाहन्नितिशेषः । अत्रास्मिन्नवसरे पौंस्यं इन्द्रस्य वीर्यमदेदिष्टादीप्यत ॥ २६ ॥

8.45.27
स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा᳚नो अह्नवा॒य्यम् ।
व्या᳚नट् तु॒र्वणे॒ शमि᳚ ॥
▶ पदपाठः (Word-by-word)
स॒त्यम् । तत् । तु॒र्वशे᳚ । यदौ᳚ । विदा᳚नः । अ॒ह्न॒वा॒य्यम् ।
वि । आ॒न॒ट् । तु॒र्वणे᳚ । शमि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुर्वशेराज्ञि यदौच यदुनामके च राज्ञि तत्प्रसिद्धं यागादिलक्षणं शमि कर्म । शची शमीति कर्मनामसुपाठात् । सत्यं परमार्थं विदानोजानन् तयोः प्रीत्यर्थमह्नवाय्यं अह्नवाय्यनामकं तयोः शत्रुं तुर्वणे संग्रामे व्यानट् व्याप्तवान् ॥ २७ ॥

8.45.28
त॒रणिं᳚ वो॒ जना᳚नां त्र॒दं वाज᳚स्य॒ गोम᳚तः ।
स॒मा॒नमु॒ प्र शं᳚सिषम् ॥
▶ पदपाठः (Word-by-word)
त॒रणि᳚म् । वः॒ । जना᳚नाम् । त्र॒दम् । वाज᳚स्य । गो॑म᳚तः ।
स॒मा॒नम् । ऊं॒ इति᳚ । प्र । शं॒सि॒ष॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अस्मदीयाः पुरुषा वोयुष्माकं जनानां पुत्रपौत्रादीनां तरणिं तारकं त्रदं शत्रूणां तर्दयितारं गोमतः पशुमतोवाजस्यान्नस्य दातारं चेन्द्रं समानमु साधारणमेव प्रशंसिषं स्तौमि ॥ २८ ॥

8.45.29
ऋ॒भु॒क्षणं॒ न वर्त᳚व उ॒क्थेषु᳚ तुग्र्या॒वृध᳚म् ।
इन्द्रं॒ सोमे॒ सचा᳚ सु॒ते ॥
▶ पदपाठः (Word-by-word)
ऋ॒भु॒क्षण᳚म् । न । वर्त᳚वे । उ॒क्थेषु᳚ । तु॒ग्र्य॒॑वृध᳚म् ।
इन्द्र᳚म् । सोमे᳚ । सचा᳚ । सु॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभुक्षणं महान्तं तुग्र्यावृधं उदकस्यवर्धयितारं तुग्र्या बर्बुरमित्युदकनामसुपाठात् इन्द्रं सोमे सचा स्तोत्रेणसह सुतेभिषुते सत्युक्थेषु शस्त्रेषु वर्तवे धनं वरितुं प्रशंसामीतिशेषः नेतिसम्प्रत्यर्थे ॥ २९ ॥

8.45.30
यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका᳚य गि॒रिं पृ॒थुम् ।
गोभ्यो᳚ गा॒तुं निरे᳚तवे ॥
▶ पदपाठः (Word-by-word)
यः । कृ॒न्तत् । इत् । वि । यो॒न्यम् । त्रि॒॑शोका᳚य । गि॒रिम् । पृ॒थुम् ।
गोभ्यः᳚ । गा॒तुम् । निः॑ए᳚तवे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइद्यएवेन्द्रोयोन्यमुदकनिर्गमनद्वारं पृथुं विस्तीर्णं गिरिंमेघं गिरिः व्रजइति मेघनामसु पाठात् त्रिशोकाय त्रिशोकनामऋष्यर्थं विकृन्तद्मच्छिनत् सगोभ्योगमनवद्भ्यउदकेभ्यो निरेतवे निर्गमनाय गातुं भूमिं भूमिः गातुरिति तन्नामसुपाठात् मार्गमित्यर्थः करोतीतिशेषः ॥ ३० ॥

8.45.31
यद्द᳚धि॒षे म᳚न॒स्यसि᳚ मन्दा॒नः प्रेदिय᳚क्षसि ।
मा तत्क᳚रिन्द्र मृ॒ळय᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । द॒धि॒षे । म॒न॒स्यसि᳚ । म॒न्दा॒नः । प्र । इत् । इय᳚क्षसि ।
मा । तत् । कः॒ । इ॒न्द्र॒ । मृ॒ळय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मन्दानोमोदमानस्त्वं यच्छुभं वस्तु दधिषे धारयसि यच्च मनस्यसि पूजयसि यदपि प्रेदियक्षसि प्रयच्छस्येव तत्सर्वं माकः किं नाकार्षीरस्मा- कं कृतवानेव । किञ्चास्मान्मृळय सुखय ॥ ३१ ॥

8.45.32
द॒भ्रं चि॒द्धि त्वाव᳚तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि᳚ ।
जिगा᳚त्विन्द्र ते॒ मनः᳚ ॥
▶ पदपाठः (Word-by-word)
द॒भ्रम् । चि॒त् । हि । त्वा॑व᳚तः । कृ॒तम् । शृ॒ण्वे । अधि᳚ । क्षमि᳚ ।
जिगा᳚तु । इ॒न्द्र॒ । ते॒ । मनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वावतः त्वत्सदृशस्य दभ्रंचिदल्पमपि कृतं कर्माधिक्षमि क्षमायां अधीति सप्तन्यर्थानुवादः शृण्वे विश्रुतं भवतिहि । तथासति ते तव मनो- जिगातु मयिगच्छतु ॥ ३२ ॥

8.45.33
तवेदु॒ ताः सु᳚की॒र्तयो॑स᳚न्नु॒त प्रश᳚स्तयः ।
यदि᳚न्द्र मृ॒ळया᳚सि नः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । इत् । ऊं॒ इति᳚ । ताः । सु॒॑की॒र्तयः᳚ । अस᳚न् । उ॒त । प्र॑श᳚स्तयः ।
यत् । इ॒न्द्र॒ । मृ॒ळया᳚सि । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नोस्मान् यद्याभिर्मृळयासि सुखयसि ताः सुकीर्तयः शोभनाख्यातयः तवेत्तवैवासन् भवेयुः । उतापिच ताः प्रशस्तयः स्तुतयश्च तवैव भवेयुः ॥ ३३ ॥

8.45.34
मा न॒ एक᳚स्मि॒न्नाग᳚सि॒ मा द्वयो᳚रु॒त त्रि॒षु ।
वधी॒र्मा शू᳚र॒ भूरि᳚षु ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । एक᳚स्मिन् । आग᳚सि । मा । द्वयोः᳚ । उ॒त । त्रि॒षु ।
वधीः᳚ । मा । शू॒र॒ । भूरि᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूरेन्द्र नोस्मानेकस्मिन्नागस्यपराधे मावधीर्माहिंसीः द्वयोरागसोरपि मावघीरुतापिच त्रिष्वागः स्वपि माहिंसीर्भूरिष्वप्यसंख्यातेष्वप्यागःसु माच वधीः ॥ ३४ ॥

8.45.35
बि॒भया॒ हि त्वाव᳚त उ॒ग्राद᳚भिप्रभ॒ङ्गिणः᳚ ।
द॒स्माद॒हमृ᳚ती॒षहः᳚ ॥
▶ पदपाठः (Word-by-word)
बि॒भय᳚ । हि । त्वा॑व᳚तः । उ॒ग्रात् । अ॒भि॒॑प्र॒भ॒ङ्गिनः᳚ ।
द॒स्मात् । अ॒हम् । ऋ॒ति॒॑सहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वावतः त्वत्सदृशादुग्रादुद्रूर्णादभिप्रभंगिणः शत्रूणामभिप्रहर्तुर्दस्मात्पापानामुपक्षपयितुः ऋतीषहः शत्रुकृतां हिंसां सहतः अहं त्रिशोकः बिभयहि बिभेमि खलु ॥ ३५ ॥

8.45.36
मा सख्यु॒ः शून॒मा वि᳚दे॒ मा पु॒त्रस्य᳚ प्रभूवसो ।
आ॒वृत्व᳚द्भूतु ते॒ मनः᳚ ॥
▶ पदपाठः (Word-by-word)
मा । सख्युः᳚ । शून᳚म् । आ । वि॒दे॒ । मा । पु॒त्रस्य᳚ । प्र॒भु॒व॒सो॒ इति᳚ प्रभु॑वसो ।
आ॒॑वृत्व᳚त् । भू॒तु॒ । ते॒ । मनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रभूवसो प्रभूतधनेन्द्र ते तव सख्युः शूनं वृद्धं माविदे मावेदयामि पुत्रस्यापि शूनं माविदे तव मनः अस्मासु आवृत्वदावर्तनवद्भूतु भवतु पुनःपुनः सुखं करोत्वित्यर्थः ॥ ३६ ॥

8.45.37
को नु म᳚र्या॒ अमि᳚थित॒ः सखा॒ सखा᳚यमब्रवीत् ।
ज॒हा को अ॒स्मदी᳚षते ॥
▶ पदपाठः (Word-by-word)
कः । नु । म॒र्याः॒ । अमि᳚थितः । सखा᳚ । सखा᳚यम् । अ॒ब्र॒वी॒त् ।
ज॒हा । कः । अ॒स्मत् । ई॒ष॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कोनु कःखलु हे मर्याः मनुष्या अमिथितो मेथतिराक्रोशकर्मा अनाक्रुष्टः इन्द्रादन्यः सखा सखायं प्रति जहा अहं कं जघान कः कोवास्मदस्मत्तोभीतः ईषते पलायतइत्यब्रवीद्वदति इन्द्रएवैतादृशस्य वचनस्य वक्तेत्यभिप्रायः । तथाचयास्कः-मेथतिराक्रोशकर्मा पापकं जघानकमहं जातु कोस्मद्भीतः पलायतइति । मानएकस्मिन्नागसीत्यादिकयाश्रुत्या नूनमृषिमिन्द्रआजहारेत्यत्रऋषिर्विस्मयतइति ॥ ३७ ॥

8.45.38
ए॒वारे᳚ वृषभा सु॒ते॑सि᳚न्व॒न्भूर्या᳚वयः ।
श्व॒घ्नीव᳚ नि॒वता॒ चर᳚न् ॥
▶ पदपाठः (Word-by-word)
ए॒वारे᳚ । वृ॒ष॒भ॒ । सु॒ते । असि᳚न्वन् । भूरि᳚ । आ॒व॒यः॒ ।
श्व॒घ्नी॑इ᳚व । नि॒॑वता᳚ । चर᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषभ कामानांवर्षकेन्द्र एवारे एवारोनामकश्चित्तस्मिन् सुतेभिषुतेसोमेसति भूरि बहूनि धनान्यसिन्वन् नबध्नन् श्वघ्नीव श्वघ्नी कितवः । तथाच- यास्कः-श्वघ्नीकितवोभवतिस्वंहन्ति स्वंपुनराश्रितंभवतीति । सइवससोमः त्वामेवप्राप्तः आवयः दृश्यमानाः सर्वेदेवाः निवताअधोमुखाः सन्तः आचरन् निर्गताः ॥ ३८ ॥

8.45.39
आ त᳚ ए॒ता व᳚चो॒युजा॒ हरी᳚ गृभ्णे सु॒मद्र᳚था ।
यदीं᳚ ब्र॒ह्मभ्य॒ इद्ददः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । ए॒ता । व॒चः॒॑युजा᳚ । हरी॒ इति᳚ । गृ॒भ्णे॒ । सु॒मत्॑र᳚था ।
यत् । ई॒म् । ब्र॒ह्म॑भ्यः᳚ । इत् । ददः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव सुमद्रथा कल्याणरथौ वचोयुजा मन्त्रेणयुज्यमानौ एता एतौ हरी अश्वौ आगृभ्णे अस्मदभिमुखं यातुं हस्ताभ्यां आकर्षामीत्यर्थः । यद्यस्मात्त्वं ब्रह्मभ्यइद्ब्राह्मणेभ्यएव ईमिदं धनं ददः ददासि ॥ ३९ ॥

8.45.40
भि॒न्धि विश्वा॒ अप॒ द्विष॒ः परि॒ बाधो᳚ ज॒ही मृधः᳚ ।
वसु᳚ स्पा॒र्हं तदा भ᳚र ॥
▶ पदपाठः (Word-by-word)
भि॒न्धि । विश्वाः᳚ । अप᳚ । द्विषः᳚ । परि᳚ । बाधः᳚ । ज॒हि । मृधः᳚ ।
वसु᳚ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं विश्वाः सर्वाद्विषोद्वेष्ट्रीः शत्रुसेनाः अपभिन्धि विदारय । बाधोहिंसित्रीः मृधः संग्रामान् स्पृधः मृधः इति संग्रामनामसुपाठात् परिजहि हिंसच । तासां स्पार्हं स्पृहणीयं तत्प्रसिद्धं वस्वाभरास्मभ्यमाहर ॥ ४० ॥

8.45.41
यद्वी॒ळावि᳚न्द्र॒ यत्स्थि॒रे यत्पर्शा᳚ने॒ परा᳚भृतम् ।
वसु᳚ स्पा॒र्हं तदा भ᳚र ॥
▶ पदपाठः (Word-by-word)
यत् । वी॒ळौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा᳚ने । परा᳚॑भृतम् ।
वसु᳚ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वयाव वीळौ दृढे परैःकम्पयितुमशक्ये यद्धनं पराभृतं विन्यस्तं यच्च स्थिरे स्वयमचले पराभृतं यच्चापि पर्शाने विमर्शनक्षमे पराभृतं तत्स्पा- र्हं वस्वाभर ॥ ४१ ॥

8.45.42
यस्य᳚ ते वि॒श्वमा᳚नुषो॒ भूरे᳚र्द॒त्तस्य॒ वेद᳚ति ।
वसु᳚ स्पा॒र्हं तदा भ᳚र ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । वि॒श्व॑मा᳚नुषः । भूरेः᳚ । द॒त्तस्य᳚ । वेद᳚ति ।
वसु᳚ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वया विभक्तिव्यत्ययः दत्तस्य दत्तं भूरेर्बहु यस्य यद्धनं कर्मणिषष्ठी विश्वमानुषः सर्वोमनुष्योवेदति जानाति तत्स्पार्हं स्पृहणीयं वस्वाभर ॥ ४२ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिता- भाष्ये षष्ठाष्टके तृतीयोध्यायः ॥ ३ ॥