अष्टमं मण्डलम् - सूक्तम् 21

18 ऋचः

ऋषिः: सोभरिः काण्वः देवता: इंद्रः छन्दः: ककुप्

सूक्तम् 8.21 - सम्पूर्णम्

1 / 18
ऋक्: 8.21.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
8.21.1
व॒यमु॒ त्वाम᳚पूर्व्य स्थू॒रं न कच्चि॒द्भर᳚न्तो॑व॒स्यवः᳚ ।
वाजे᳚ चि॒त्रं ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ऊं॒ इति᳚ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर᳚न्तः । अ॒व॒स्यवः᳚ ।
वाजे᳚ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य निःश्वसितं वेदा योवेदेभ्योखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

चतुर्थेनुवाके दशसूक्तानि तत्र वयमुत्वेत्यष्टादशर्चं प्रथमं सूक्तम् । अत्रानुक्रमणिका-वयमुझूनान्त्येद्वृचे चित्रस्यदानस्तुतिरिति । ऋषिश्चान्यस्मादिति परिभाषया काण्वः सौभरिऋषिः । काकुभं प्रागाथं हेत्युक्तत्वादस्यापि सूक्तस्यायुजः ककुभो युजः सतोबृहत्यः । अन्त्ये द्वृचे चित्रस्य दानं देवता शिष्टाऎंझः । सूक्तविनियोगोलैंगिकः । उक्थ्ये ब्राह्मणाच्छंसिशस्त्रे वयमुत्वेति प्रगाथः स्तोत्रियः । सूत्रितञ्ज-वयमुत्वामपूर्व्ययोनइदमिदंपुरेति प्रगा- थाविति । आभिप्लविकेषूक्थ्येष्वपितृतीयसवने ब्राह्मणाच्छंसिनोवैकल्पिकोयं स्तोत्रियः प्रगाथः । सूत्रमुक्तम्-अस्मिन्नेव शस्त्रे त्वंनइन्द्राभरेति प्रगा- थो यदा स्तोत्रियः तदा वयमुत्वेत्यनुरूपतृचस्याद्या । सूत्रितञ्ज-वयमुत्वामपूर्व्ययोनइदमिदंपुरायाहीमइन्द्रवइति समाहार्योनुरूपइति ।

हे अपूर्व्य त्रिषु सवनेषु प्रादुर्भूतत्वात् अभिनवेन्द्र भरन्तः सोमलक्षणैरन्नैस्त्वां पोषयन्तोवयं वाजे वाजन्ति गच्छन्ति योद्धारोत्रेति वाजयन्त्यायुधा- न्यत्रेति वा वाजः संग्रामः तस्मिन् चित्रं चायनीयं विविधरूपं त्वामु त्वामेव अवस्य गोरक्षणमात्मनइच्छन्तः सन्तः हवामहे त्वामाह्वयामः । तत्र- दृष्टान्तः-स्थूरंन यथा भरन्तः व्रीह्यादिभिः गृहं पूरयन्तोजनाः वाजे अन्नविषये स्थूरं स्थूलं गुणाधिकं कञ्जित् कंचित् मानवं यथाह्वयन्ति तद्वत् ॥ १ ॥

8.21.2
उप᳚ त्वा॒ कर्म᳚न्नू॒तये॒ स नो॒ युवो॒ग्रश्च᳚क्राम॒ यो धृ॒षत् ।
त्वामिद्ध्य᳚वि॒तारं᳚ ववृ॒महे॒ सखा᳚य इन्द्र सान॒सिम् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । त्वा॒ । कर्म᳚न् । ऊ॒तये᳚ । सः । नः॒ । युवा᳚ । उ॒ग्रः । च॒क्रा॒म॒ । यः । धृ॒षत् ।
त्वाम् । इत् । हि । अ॒वि॒तार᳚म् । व॒वृ॒महे᳚ । सखा᳚यः । इ॒न्द्र॒ । सा॒न॒सिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमपादः प्रत्यक्षकृतः । हे इन्द्र कर्मन् अग्निष्टोमादि कर्माणि ऊतये रक्षणाय त्वा त्वां उपगच्छामः । द्वितीयपादः परोक्षकृतः । यइन्द्रः धृषत् धृ- ष्णोति शत्रूनभिभवति त्रिधृषाप्रागल्भ्ये बहुलंछन्दसीति शप्प्रत्ययः । युवा तरुण् उग्रउद्रूर्णः सइन्द्रः नोस्मान् प्रतिचक्राम आगच्छतु । यद्वा चक्राम अस्मानुत्साहयुक्तान् करोतु क्रमतेः सर्गार्थे व्यत्ययेन प्रस्मैपदम् । परोर्धर्चः प्रत्यक्षकृतः । सखायः समानख्यानाः बंधुभूतावा वयं सानसिं वनषण संभक्तौ संभजनीयं अवितारं सर्वस्य रक्षितारं त्वामित् त्वामेव ववृमहे वृणीमहे संभजामहे । हिः प्रसिद्धौ हियोगादनिघातः ॥ २ ॥

8.21.3
आ या᳚ही॒म इन्द॒वो॑श्व᳚पते॒ गोप᳚त॒ उर्व᳚रापते ।
सोमं᳚ सोमपते पिब ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । इ॒मे । इन्द᳚वः । अश्व᳚॑पते । गो॑प᳚ते । उर्व᳚रा॑पते ।
सोम᳚म् । सो॒म॒॑प॒ते॒ । पि॒ब॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वपते अश्वानां स्वामिन् गोपते गवां पालयितः उर्वरापते सर्वसस्याढचाभूमिरुर्वरा तस्याः पते हे इन्द्र इन्द्रवः सोमाः इमे भवदीयाः त्वदर्थमभि- षुताइत्यर्थः तस्मादायाहि आगच्छ आगत्य सोमपते हे इंद्र सोमं पिब ॥ ३ ॥

8.21.4
व॒यं हि त्वा॒ बन्धु᳚मन्तमब॒न्धवो॒ विप्रा᳚स इन्द्र येमि॒म ।
या ते॒ धामा᳚नि वृषभ॒ तेभि॒रा ग᳚हि॒ विश्वे᳚भि॒ः सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
व॒यम् । हि । त्वा॒ । बन्धु᳚॑मन्तम् । अ॒ब॒न्धवः᳚ । विप्रा᳚सः । इ॒न्द्र॒ । ये॒मि॒म ।
या । ते॒ । धामा᳚नि । वृ॒ष॒भ॒ । तेभिः᳚ । आ । ग॒हि॒ । विश्वे᳚भिः । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अबंधवः बन्धुरहिताः विप्रासः मेधाविनोवयं बन्धुमन्तं बन्धुभिर्देवैरंगिरोभिर्वा तद्वंतं त्वा त्वां हिरवधारणे त्वामेव येमिम बन्धुत्वेन निय- च्छाम यच्छतेर्लिटिरूपम् । तथा सति हे वृषभ कामानां वर्षितरिन्द्र ते तव या यानि धामानि शरीराणि वेजांसि वा विद्यन्ते तेभिस्तैर्विश्वेभिः स- र्वैर्धामभिः सह सोमपीतये सोमपानार्थमागहि आगच्छ ॥ ४ ॥

8.21.5
सीद᳚न्तस्ते॒ वयो᳚ यथा॒ गोश्री᳚ते॒ मधौ᳚ मदि॒रे वि॒वक्ष᳚णे ।
अ॒भि त्वामि᳚न्द्र नोनुमः ॥
▶ पदपाठः (Word-by-word)
सीद᳚न्तः । ते॒ । वयः᳚ । य॒था॒ । गो॑श्री᳚ते । मधौ᳚ । म॒दि॒रे । वि॒वक्ष᳚णे ।
अ॒भि । त्वाम् । इ॒न्द्र॒ । नो॒नु॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र गोश्रीते श्रीङ् पाके गोविकारे दधिपयसी गोशब्देनोच्येते दध्ना पयसाच श्रीतेन श्रयणद्रव्येण मिश्रिते मदिरे मदकरे विवक्षणे स्वर्गप्रापणशी- ले ते त्वदीये मधौ सोमे सीदन्तोनिवसन्तः । सदने दृष्टान्तः-वयोयथा पक्षिणोयथौकत्रसंघीभूय तिष्ठन्ति तद्वात् सीदंतोवयं स्वामभि आभिमुख्येन नोनुमः पुनःपुनर्भृशंवा स्तुमः ॥ ५ ॥

8.21.6
अच्छा᳚ च त्वै॒ना नम᳚सा॒ वदा᳚मसि॒ किं मुहु᳚श्चि॒द्वि दी᳚धयः ।
सन्ति॒ कामा᳚सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति᳚ नो॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । च॒ । त्वा॒ । ए॒ना । नम᳚सा । वदा᳚मसि । किम् । मुहुः᳚ । चि॒त् । वि । दी॒ध॒यः॒ ।
सन्ति᳚ । कामा᳚सः । ह॒रि॒॑वः॒ । द॒दिः । त्वम् । स्मः । व॒यम् । सन्ति᳚ । नः॒ । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अच्छाच अपिच आभिमुख्येनवा एना एनेन नमसा स्तोत्रेण हविर्लक्षणेनान्नेनवा सह त्वा त्वां वदामसि अभिवदामः चवायोगे प्रथमेति न- निघातः । त्वंतु मुहुश्चित् मुहुर्मुहुः किं कस्माद्धेतोर्विदीधयः विपूर्वोदीधितिश्चिंतने विचिंतयसि दीधीङ् दीप्तिदेवनयोः व्यत्ययेन परस्मैपदम् लुगभा- वश्च । किमर्थं यूयं वदथेतिचेत् हरिवः हरिताश्ववन् हे इन्द्र अस्माकं कामासः पुत्रपश्वादिविषयाः कामाः सन्ति कामाः सन्तु । अहं नप्रयच्छामीति- चेत् त्वंतु ददिः धनादिदाता खलु तस्माद्वयं त्वत्सन्निधौ स्मोभवामः । किञ्ज नोस्माकं धियः कर्माभिच तवसमीपे सन्ति तिष्ठन्ति । ततोधनादिला- भार्थं त्वां वदामइत्यर्थः ॥ ६ ॥

8.21.7
नूत्ना॒ इदि᳚न्द्र ते व॒यमू॒ती अ᳚भूम न॒हि नू ते᳚ अद्रिवः ।
वि॒द्मा पु॒रा परी᳚णसः ॥
▶ पदपाठः (Word-by-word)
नूत्नाः᳚ । इत् । इ॒न्द्र॒ । ते॒ । व॒यम् । ऊ॒ती । अ॒भू॒म॒ । न॒हि । नु । ते॒ । अ॒द्रि॒॑वः॒ ।
वि॒द्म । पु॒रा । परी᳚णसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव उती उत्यै रक्षणे वयं नूत्नाइत् नूतनाएव अभूम भवामः । अद्रिवः वज्रिन् हे इन्द्र पुरा पूर्वं त्वां परीणसः सुबूव्यत्ययः परीणसं परितो- व्याप्तं महांतं वेति नहिविद्म नजानीमः । नु सम्प्रति ते त्वां महान्तमिति जानन्तोवयं भवता रक्ष्याइति ॥ ७ ॥

8.21.8
वि॒द्मा स᳚खि॒त्वमु॒त शू᳚र भो॒ज्य१॒᳚मा ते॒ ता व᳚ज्रिन्नीमहे ।
उ॒तो स᳚मस्मि॒न्ना शि᳚शीहि नो वसो॒ वाजे᳚ सुशिप्र॒ गोम᳚ति ॥
▶ पदपाठः (Word-by-word)
वि॒द्म । स॒खि॒॑त्वम् । उ॒त । शू॒र॒ । भो॒ज्य᳚म् । आ । ते॒ । ता । व॒ज्रि॒न् । ई॒म॒हे॒ ।
उ॒तो इति᳚ । स॒म॒स्मि॒न् । आ । शि॒शी॒हि॒ । नः॒ । व॒सो॒ इति᳚ । वाजे᳚ । सु॒॑शि॒प्र॒ । गो॑म᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

शूर शत्रूणां शातयितर्बलवन् हे इन्द्र सखित्वं तव सखिभावं वयं विद्म जानीमः । उतापिच भोज्यमभ्यवहारार्थं धनंच विझ् । वज्रिन् हे इन्द्र ते त्व- दीये ता ते सख्यधने आ आभिमुख्येन ईमहे वयं याचामहे । उतो अपिच हे वसो सर्वस्यवासयितः सुशिप्र शोभनहनो यद्वा शोभनशिरस्त्राण हे इन्द्र गोमति गवादियुक्तेसमस्मिन् सर्वस्मिन् वाजे अन्ने नोस्मानाशिशीहि तीक्ष्णीकुरु । उपलक्षणं प्रदानेनास्मान्प्रसिद्धान्कुर्वित्यर्थः । शिञू निशाने इत्यस्यछान्दसः स्लुः ॥ ८ ॥

8.21.9
यो न᳚ इ॒दमि᳚दं पु॒रा प्र वस्य᳚ आनि॒नाय॒ तमु᳚ वः स्तुषे ।
सखा᳚य॒ इन्द्र᳚मू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । इ॒दम्॑इ᳚दम् । पु॒रा । प्र । वस्यः᳚ । आ॒॑नि॒नाय᳚ । तम् । ऊं॒ इति᳚ । वः॒ । स्तु॒षे॒ ।
सखा᳚यः । इन्द्र᳚म् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखायः समानख्याना हे ऋत्विग्यजमानाः यइन्द्रः पुरा पूर्वमिदमिदं दर्शनीयतया विद्यमानं वस्यः वसीयः वसोरीयसुनीकारलोपश्छान्द्रसः प्रशस्तं वसु नोस्मान् प्राणिनाय प्रकर्षेणानीतवान् । तमु तमेव धनानामानेतारमिन्द्रं वोयुष्माकं धनलाभार्थं ऊतये रक्षणायच स्तुषे सोभरिरहं स्तौमि ॥ ९ ॥

8.21.10
हर्य᳚श्वं॒ सत्प᳚तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम᳚न्दत ।
आ तु न॒ः स व᳚यति॒ गव्य॒मश्व्यं᳚ स्तो॒तृभ्यो᳚ म॒घवा᳚ श॒तम् ॥
▶ पदपाठः (Word-by-word)
हरि᳚॑अश्वम् । सत्॑प᳚तिम् । च॒र्ष॒णि॒॑सह᳚म् । सः । हि । स्म॒ । यः । अम᳚न्दत ।
आ । तु । नः॒ । सः । व॒य॒ति॒ । गव्य᳚म् । अश्व्य᳚म् । स्तो॒तृ॑भ्यः᳚ । म॒घ॑वा᳚ । श॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हर्यश्वं हरितवर्णाश्वोपेतं सत्पतिं स्वप्रकाशाधिक्येन सतां नक्षत्राणां पतिं सतां श्रेष्ठानां पतिंवा चर्षणीसहं चर्षणीनां शत्रुभूतानां मनुष्याणामभिभ- वितारं सहिष्म सखलु जनः स्तौति । योजनः अमन्दत ततोलब्धधनः सन् तृप्तोभवति सएनं तुष्टूषति । एवंसति मघवा धनवान् सइन्द्रः शतं गव्य- मश्व्यमनेकं गवाश्वसंघं स्तोतृभ्योनोस्मभ्यं तु क्षिप्रमावपति आप्रापयतु । वीगत्यांदिषु अस्माल्लेट्यडागमः ततोलब्धगवादिकावयं चैनं स्तुमइति ॥ १० ॥

8.21.11
त्वया᳚ ह स्विद्यु॒जा व॒यं प्रति᳚ श्व॒सन्तं᳚ वृषभ ब्रुवीमहि ।
सं॒स्थे जन᳚स्य॒ गोम᳚तः ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । प्रति᳚ । श्व॒सन्त᳚म् । वृ॒ष॒भ॒ । ब्रु॒वी॒म॒हि॒ ।
स॒म्॑स्थे । जन᳚स्य । गो॑म᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभ वर्षितः हे इन्द्र गोमतोगवादियुक्तस्य जनस्य संस्थे स्थाने युद्धे श्वसन्तं अस्मान् प्रति क्रोधातिशयेन श्वासकारिणं शत्रुं युजा सहायेन त्वया ह स्वित् त्वयैव खलु वयं प्रतिब्रुवीमहि प्रतिवचनं कुर्मः निराकरिष्यामैअत्यर्थः ॥ ११ ॥

8.21.12
जये᳚म का॒रे पु᳚रुहूत का॒रिणो॒॑भि ति᳚ष्ठेम दू॒ढ्य᳚ः ।
नृभि᳚र्वृ॒त्रं ह॒न्याम᳚ शूशु॒याम॒ चावे᳚रिन्द्र॒ प्र णो॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
जये᳚म । का॒रे । पु॒रु॒॑हू॒त॒ । का॒रिणः᳚ । अ॒भि । ति॒ष्ठे॒म॒ । दुः॒॑ध्यः᳚ ।
नृ॑भिः᳚ । वृ॒त्रम् । ह॒न्याम᳚ । शू॒शु॒याम᳚ । च॒ । अवेः᳚ । इ॒न्द्र॒ । प्र । नः॒ । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुहूत पुरुभिर्बहुभिराह्वातव्य हे इन्द्र अस्माकं विविधाः शत्रवः उपद्रवकारिणः बाधां मनसा स्मरंतश्चेति । तत्र कारिणः हिंसां कुर्वन्तः शत्रून् कारे कीर्यंते आयुधान्यत्रेति कारोयुद्धं तस्मिन् तान्वयं जयेम । दूढचः दुर्धियः पापबुद्धीनपि अभि तिष्ठेम अभितः स्थास्यामः । किंच वृत्रं गवामारवकं शत्रूं नृभिः आयुधनेतृभिर्मरुद्धिः सह हन्याम हिंस्याम हत्वा शूशुयामच शत्रुराहित्येन पुत्रपौत्रैरग्निष्टोमादिकर्मभिश्च वर्धयेमहि । यद्वा श्वयतिरत्रान्तर्णीतण्यर्थः शत्रुभ्योबाधाभावात् सोमलक्षणैरन्नैस्त्वां वर्धयेम ततस्त्वंनोस्माकं धियः कर्माणि प्रविः प्रकर्षेण रक्ष ॥ १२ ॥

8.21.13
अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना᳚पिरिन्द्र ज॒नुषा᳚ स॒नाद᳚सि ।
यु॒धेदा᳚पि॒त्वमि᳚च्छसे ॥
▶ पदपाठः (Word-by-word)
अ॒भ्रा॒तृ॒व्यः । अ॒ना । त्वम् । अना᳚पिः । इ॒न्द्र॒ । ज॒नुषा᳚ । स॒नात् । अ॒सि॒ ।
यु॒धा । इत् । आ॒पि॒॑त्वम् । इ॒च्छ॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं जनुषा जन्मनैव अभ्रातृव्यः । व्यन्त्सपत्नइति व्यन्प्रत्ययः । सपत्नरहितैः अना अनेतृकः ऋतश्छन्दसीतिकपः प्रतिषेधः अनियन्तृकइत्यर्थः अनापिः बन्धुवर्जितश्च सनादसि चिरादेव भ्रातृव्यादिवर्जितोसि यञ्व त्वं आपित्वं बान्धवमिच्छसे इच्छसि तत्र युधेत् युद्धेनैव युद्धं कुर्वन्नेव स्तोतृ- णां सखाभवसीति ॥ १३ ॥

8.21.14
नकी᳚ रे॒वन्तं᳚ स॒ख्याय᳚ विन्दसे॒ पीय᳚न्ति ते सुरा॒श्व᳚ः ।
य॒दा कृ॒णोषि᳚ नद॒नुं समू᳚ह॒स्यादित्पि॒तेव᳚ हूयसे ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । रे॒वन्त᳚म् । स॒ख्याय᳚ । वि॒न्द॒से॒ । पीय᳚न्ति । ते॒ । सु॒रा॒श्वः᳚ ।
य॒दा । कृ॒णोषि᳚ । न॒द॒नुम् । सम् । ऊ॒ह॒सि॒ । आत् । इत् । पि॒ता॑इ᳚व । हू॒य॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र रेवन्तं धनवन्तं केवलधनवन्तं दानादिरहितमयष्टारमाढचं मानवं सख्याय सखिभावाय नकिर्विंदसे नभजसे नाश्रयसीत्यर्थः । अयष्टारोज- नाः किं सन्तीत्यताअह- सूराश्वः टुओश्विगतिवृध्योः सुरया वृद्धाः तद्वत् प्रमत्ताः नास्तिकाः ते त्वां पीयंति पीयतिर्हिंसाकर्मा हिंसन्ति तान्नाश्रयसी- त्यर्थः । यदा त्वं नदनुं नदअव्यक्ते शब्दे यं स्तोतारं कृणोषि मदीयोयमिति यदा भावयसि तदानीं समूहयसि धनादिकं तस्मै वहसि । आदित् अन- न्तरमेव तेन लब्धधनेन स्तोत्रा पितेव पालयिता जनकइव हूयसे स्तुतिभिराहूयसे स्तूयसइत्यर्थः ॥ १४ ॥

8.21.15
मा ते᳚ अमा॒जुरो᳚ यथा मू॒रास᳚ इन्द्र स॒ख्ये त्वाव᳚तः ।
नि ष᳚दाम॒ सचा᳚ सु॒ते ॥
▶ पदपाठः (Word-by-word)
मा । ते॒ । अ॒मा॒॑जुरः᳚ । य॒था॒ । मू॒रासः᳚ । इ॒न्द्र॒ । स॒ख्ये । त्वा॑व᳚तः ।
नि । स॒दा॒म॒ । सचा᳚ । सु॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव स्वभूतावयं तथा माभूम माभवाम । यथा त्वावतः त्वत्सदृशस्य देवस्य सख्ये मूरासोमूराः सोमप्रदानादिन्द्रेणसह सख्यं कुर्मइत्येतद- जानन्तोमूढाजनाः अमाजुरः सोमाभिषवमकुर्वन्तस्ते गृहैः पुत्रैः पौत्रैर्धनादिभिश्च सह जीर्णाभवन्ति । तथा वयममाजुरोनभवाम कथं सचा ऋत्वि- ग्भिः सह सुतेभिषुते सोमे वयंतु निषदाम निवसाम तस्मात्सोमदानेन त्वया सह सखिभावंकुर्मइत्यर्थः ॥ १५ ॥

8.21.16
मा ते᳚ गोदत्र॒ निर᳚राम॒ राध᳚स॒ इन्द्र॒ मा ते᳚ गृहामहि ।
दृ॒ळ्हा चि᳚द॒र्यः प्र मृ᳚शा॒भ्या भ᳚र॒ न ते᳚ दा॒मान᳚ आ॒दभे᳚ ॥
▶ पदपाठः (Word-by-word)
मा । ते॒ । गो॒॑द॒त्र॒ । निः । अ॒रा॒म॒ । राध᳚सः । इन्द्र᳚ । मा । ते॒ । गृ॒हा॒म॒हि॒ ।
दृ॒ळ्हा । चि॒त् । अ॒र्यः । प्र । मृ॒श॒ । अ॒भि । आ । भ॒र॒ । न । ते॒ । दा॒मानः᳚ । आ॒॑दभे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गोदत्र स्तोतृणां गवादिदानशील हे इन्द्र ते तव स्व भूतावयं राधसोधनात् मानिरराम मानिर्गमाम अर्तेर्लुङि सर्तिशास्त्यर्तिभ्यश्चेत्यङादेशः ऋ- दृशोङीतिगुणः सर्वदा त्वत्तोधनाढचाभवाम । किञ्च ते तव स्वभूतावयं धनं प्रयच्छाम कस्माञ्चित् मागृहामहि तस्मादन्यंनगृह्णीमः । अपितु त्वत्त- एव धनंगृह्णीमइत्यर्थः । ग्रहेर्लुङि बहुलंछन्दसीतिशः ङित्वात्सम्प्रसारणम् । अर्यः स्वामी त्वं दृढाचित् दृढान्यपि अविनश्वराणि धनानि प्रमृश प्रकर्षे- णास्मासु स्थापय । किञ्च अभ्याभिमुख्येन आभर धनादिभिः समन्तादस्मान् पोषय ते तव दामानः तानिदानानि नादभे नकैश्चिदप्यादंभितुं शक्य- न्ते तस्माद्दानादियुक्तानस्मान् कुर्वित्यर्थः ॥ १६ ॥

8.21.17
इन्द्रो᳚ वा॒ घेदिय᳚न्म॒घं सर᳚स्वती वा सु॒भगा᳚ द॒दिर्वसु᳚ ।
त्वं वा᳚ चित्र दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । वा॒ । घ॒ । इत् । इय᳚त् । म॒घम् । सर᳚स्वती । वा॒ । सु॒॑भगा᳚ । द॒दिः । वसु᳚ ।
त्वम् । वा॒ । चि॒त्र॒ । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र चित्रस्य दानं स्तौति चित्रोनामराजा सरस्वतीतीरे इन्द्रार्थं यागमकृत तत्र मन्त्रद्रष्टाऋषिः बहुधनलाभान्मत्द्यमेतावद्धनं कोवाप्रायच्छदिति विकल्पयते । दाशुषे इन्द्राय हवींषिदत्तवते मत्द्यं इन्द्रोवाघेत् इन्द्रएव किंखल्वेतावन्मघं मंहनीयं धनं ददिः प्रायच्छत् यद्वा सुभगा शोभनधना सर- स्वती नदी वसु धनं ददिः किं प्रायच्छत् । अथवा चित्रएतन्नामक हे राजन् त्वं वा एतावद्धनं मत्द्यं प्रादाइति ॥ १७ ॥

8.21.18
चित्र॒ इद्राजा᳚ राज॒का इद᳚न्य॒के य॒के सर᳚स्वती॒मनु᳚ ।
प॒र्जन्य᳚ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र᳚म॒युता॒ दद᳚त् ॥
▶ पदपाठः (Word-by-word)
चित्रः᳚ । इत् । राजा᳚ । रा॒ज॒काः । इत् । अ॒न्य॒के । य॒के । सर᳚स्वतीम् । अनु᳚ ।
प॒र्जन्यः᳚॑इव । त॒तन᳚त् । हि । वृ॒ष्ट्या । स॒हस्र᳚म् । अ॒युता᳚ । दद᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया चित्रएव प्रादादिति निश्चयमकार्षीत् । सहस्रं सहस्रसंख्याकधनं अयुता अयुतानि च धनानिच ददत् प्रयच्छन् चित्रइत् चित्रनामैव राजाअ- न्यके यके अल्पइत्यर्थेकः अल्पायेन्येराजकाइत् राजानएव सरस्वतीमनु सरस्वत्यास्तीरे वर्तन्ते तान् सर्वान् याचमानानयमेव चित्रोराजा ततनत् धनैस्तनोति तनोतेर्लुङिचङिरूपम् चङचन्यतरस्यामितिस्वरः । तत्रदृष्टान्तःपर्जन्यइव यथापर्जन्यः पृथिवीं वृष्टचातनोति प्रीणयति तथायं चित्रः सर्वान्धनैः प्रीणयतीत्यर्थः ॥ १८ ॥

ओत्यमह्वइत्यष्टादशर्चं द्वितीयं सूक्तं काण्वस्य सोभरेरार्षं आद्यातृतीयापञ्चम्योबृहत्यः द्वितीयाचतुर्थीषष्ठचः सतोबृहत्यः सप्तमीबृहती अष्टम्यनु- ष्टुप् नवमीदशमी द्वे ज्योतिषी काकुभंप्रागाथं हेत्युक्तस्यानुवृक्तेः शिष्टाश्चत्वारः काकुभाःप्रगाथाः अश्विनौ देवता । तथाचानुक्रान्तम्-ओत्यमाश्विनं त्रिप्रगाथादि बृहत्यनुष्टुबेकादश्याद्येककुम्मध्ये ज्योतिषीइति । प्रातरनुवाके आश्विने क्रतौ बार्हतेछन्दस्याश्विनशस्त्रे चाद्याः सप्तर्चः सूत्रितंच-ओत्य- मह्वआरथमितिसप्तेति ।