श्रवणम्

8.21.4
व॒यं हि त्वा॒ बन्धु᳚मन्तमब॒न्धवो॒ विप्रा᳚स इन्द्र येमि॒म ।
या ते॒ धामा᳚नि वृषभ॒ तेभि॒रा ग᳚हि॒ विश्वे᳚भि॒ः सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
व॒यम् । हि । त्वा॒ । बन्धु᳚॑मन्तम् । अ॒ब॒न्धवः᳚ । विप्रा᳚सः । इ॒न्द्र॒ । ये॒मि॒म ।
या । ते॒ । धामा᳚नि । वृ॒ष॒भ॒ । तेभिः᳚ । आ । ग॒हि॒ । विश्वे᳚भिः । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अबंधवः बन्धुरहिताः विप्रासः मेधाविनोवयं बन्धुमन्तं बन्धुभिर्देवैरंगिरोभिर्वा तद्वंतं त्वा त्वां हिरवधारणे त्वामेव येमिम बन्धुत्वेन निय- च्छाम यच्छतेर्लिटिरूपम् । तथा सति हे वृषभ कामानां वर्षितरिन्द्र ते तव या यानि धामानि शरीराणि वेजांसि वा विद्यन्ते तेभिस्तैर्विश्वेभिः स- र्वैर्धामभिः सह सोमपीतये सोमपानार्थमागहि आगच्छ ॥ ४ ॥