श्रवणम्

8.21.5
सीद᳚न्तस्ते॒ वयो᳚ यथा॒ गोश्री᳚ते॒ मधौ᳚ मदि॒रे वि॒वक्ष᳚णे ।
अ॒भि त्वामि᳚न्द्र नोनुमः ॥
▶ पदपाठः (Word-by-word)
सीद᳚न्तः । ते॒ । वयः᳚ । य॒था॒ । गो॑श्री᳚ते । मधौ᳚ । म॒दि॒रे । वि॒वक्ष᳚णे ।
अ॒भि । त्वाम् । इ॒न्द्र॒ । नो॒नु॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र गोश्रीते श्रीङ् पाके गोविकारे दधिपयसी गोशब्देनोच्येते दध्ना पयसाच श्रीतेन श्रयणद्रव्येण मिश्रिते मदिरे मदकरे विवक्षणे स्वर्गप्रापणशी- ले ते त्वदीये मधौ सोमे सीदन्तोनिवसन्तः । सदने दृष्टान्तः-वयोयथा पक्षिणोयथौकत्रसंघीभूय तिष्ठन्ति तद्वात् सीदंतोवयं स्वामभि आभिमुख्येन नोनुमः पुनःपुनर्भृशंवा स्तुमः ॥ ५ ॥