श्रवणम्

8.21.12
जये᳚म का॒रे पु᳚रुहूत का॒रिणो॒॑भि ति᳚ष्ठेम दू॒ढ्य᳚ः ।
नृभि᳚र्वृ॒त्रं ह॒न्याम᳚ शूशु॒याम॒ चावे᳚रिन्द्र॒ प्र णो॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
जये᳚म । का॒रे । पु॒रु॒॑हू॒त॒ । का॒रिणः᳚ । अ॒भि । ति॒ष्ठे॒म॒ । दुः॒॑ध्यः᳚ ।
नृ॑भिः᳚ । वृ॒त्रम् । ह॒न्याम᳚ । शू॒शु॒याम᳚ । च॒ । अवेः᳚ । इ॒न्द्र॒ । प्र । नः॒ । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुहूत पुरुभिर्बहुभिराह्वातव्य हे इन्द्र अस्माकं विविधाः शत्रवः उपद्रवकारिणः बाधां मनसा स्मरंतश्चेति । तत्र कारिणः हिंसां कुर्वन्तः शत्रून् कारे कीर्यंते आयुधान्यत्रेति कारोयुद्धं तस्मिन् तान्वयं जयेम । दूढचः दुर्धियः पापबुद्धीनपि अभि तिष्ठेम अभितः स्थास्यामः । किंच वृत्रं गवामारवकं शत्रूं नृभिः आयुधनेतृभिर्मरुद्धिः सह हन्याम हिंस्याम हत्वा शूशुयामच शत्रुराहित्येन पुत्रपौत्रैरग्निष्टोमादिकर्मभिश्च वर्धयेमहि । यद्वा श्वयतिरत्रान्तर्णीतण्यर्थः शत्रुभ्योबाधाभावात् सोमलक्षणैरन्नैस्त्वां वर्धयेम ततस्त्वंनोस्माकं धियः कर्माणि प्रविः प्रकर्षेण रक्ष ॥ १२ ॥