मा ते᳚ अमा॒जुरो᳚ यथा मू॒रास᳚ इन्द्र स॒ख्ये त्वाव᳚तः ।
नि ष᳚दाम॒ सचा᳚ सु॒ते ॥
नि ष᳚दाम॒ सचा᳚ सु॒ते ॥
पदपाठः (Word-by-word)
मा । ते॒ । अ॒मा॒॑जुरः᳚ । य॒था॒ । मू॒रासः᳚ । इ॒न्द्र॒ । स॒ख्ये । त्वा॑व᳚तः ।
नि । स॒दा॒म॒ । सचा᳚ । सु॒ते ॥
नि । स॒दा॒म॒ । सचा᳚ । सु॒ते ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र ते तव स्वभूतावयं तथा माभूम माभवाम । यथा त्वावतः त्वत्सदृशस्य देवस्य सख्ये मूरासोमूराः सोमप्रदानादिन्द्रेणसह सख्यं कुर्मइत्येतद- जानन्तोमूढाजनाः अमाजुरः सोमाभिषवमकुर्वन्तस्ते गृहैः पुत्रैः पौत्रैर्धनादिभिश्च सह जीर्णाभवन्ति । तथा वयममाजुरोनभवाम कथं सचा ऋत्वि- ग्भिः सह सुतेभिषुते सोमे वयंतु निषदाम निवसाम तस्मात्सोमदानेन त्वया सह सखिभावंकुर्मइत्यर्थः ॥ १५ ॥