प॒र्जन्य᳚ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र᳚म॒युता॒ दद᳚त् ॥
पदपाठः (Word-by-word)
प॒र्जन्यः᳚॑इव । त॒तन᳚त् । हि । वृ॒ष्ट्या । स॒हस्र᳚म् । अ॒युता᳚ । दद᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
अनया चित्रएव प्रादादिति निश्चयमकार्षीत् । सहस्रं सहस्रसंख्याकधनं अयुता अयुतानि च धनानिच ददत् प्रयच्छन् चित्रइत् चित्रनामैव राजाअ- न्यके यके अल्पइत्यर्थेकः अल्पायेन्येराजकाइत् राजानएव सरस्वतीमनु सरस्वत्यास्तीरे वर्तन्ते तान् सर्वान् याचमानानयमेव चित्रोराजा ततनत् धनैस्तनोति तनोतेर्लुङिचङिरूपम् चङचन्यतरस्यामितिस्वरः । तत्रदृष्टान्तःपर्जन्यइव यथापर्जन्यः पृथिवीं वृष्टचातनोति प्रीणयति तथायं चित्रः सर्वान्धनैः प्रीणयतीत्यर्थः ॥ १८ ॥
ओत्यमह्वइत्यष्टादशर्चं द्वितीयं सूक्तं काण्वस्य सोभरेरार्षं आद्यातृतीयापञ्चम्योबृहत्यः द्वितीयाचतुर्थीषष्ठचः सतोबृहत्यः सप्तमीबृहती अष्टम्यनु- ष्टुप् नवमीदशमी द्वे ज्योतिषी काकुभंप्रागाथं हेत्युक्तस्यानुवृक्तेः शिष्टाश्चत्वारः काकुभाःप्रगाथाः अश्विनौ देवता । तथाचानुक्रान्तम्-ओत्यमाश्विनं त्रिप्रगाथादि बृहत्यनुष्टुबेकादश्याद्येककुम्मध्ये ज्योतिषीइति । प्रातरनुवाके आश्विने क्रतौ बार्हतेछन्दस्याश्विनशस्त्रे चाद्याः सप्तर्चः सूत्रितंच-ओत्य- मह्वआरथमितिसप्तेति ।