अष्टमं मण्डलम् - सूक्तम् 81

9 ऋचः

ऋषिः: कुसीदी काण्वः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 8.81 - सम्पूर्णम्

1 / 9
ऋक्: 8.81.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
8.81.1
आ तू न᳚ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ᳚भाय ।
म॒हा॒ह॒स्ती दक्षि᳚णेन ॥
▶ पदपाठः (Word-by-word)
आ । तु । नः॒ । इ॒न्द्र॒ । क्षु॒॑मन्त᳚म् । चि॒त्रम् । ग्रा॒भम् । सम् । गृ॒भा॒य॒ ।
म॒हा॒॑ह॒स्ती । दक्षि᳚णेन ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र महाहस्ती महाहस्तवान् त्वं तु तदानीमेव अस्मभ्यं दातुं नोस्मदर्थं क्षुमन्तं शब्दवन्तं स्तुत्यमित्यर्थः । चित्रं चायनीयं ग्राभं ग्राहकं ग्रहणार्हं वाधनं दक्षिणेन हस्तेन नु क्षिप्रं आसंगृभाय आभिमुख्येन संगृहाण ॥ १ ॥

8.81.2
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम᳚घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥
▶ पदपाठः (Word-by-word)
वि॒द्म । हि । त्वा॒ । तु॒वि॒॑कू॒र्मिम् । तु॒वि॑दे᳚ष्णम् । तु॒वि॑म᳚घम् ।
तु॒वि॒॑मा॒त्रम् । अवः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां विद्म हि जानीमः खलु । कीदृशमिति तुविकूर्मिं बहुकर्माणं तुविदेष्णं बहुप्रदेयं तुविमघं बहुधनं तुविमात्रं बहुप्रमाणं अवोभिर्युक्तम् ॥ २ ॥

8.81.3
न॒हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् ।
भी॒मं न गां वा॒रय᳚न्ते ॥
▶ पदपाठः (Word-by-word)
न॒हि । त्वा॒ । शू॒र॒ । दे॒वाः । न । मर्ता᳚सः । दित्स᳚न्तम् ।
भी॒मम् । न । गाम् । वा॒रय᳚न्ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूरेन्द्र त्वा त्वां दित्सन्तं दातुमिच्छन्तं देवाः नहि वारयन्ते ननिवारयन्ति । तथा मर्तासो मर्त्या अपि नवारयन्ते । भीमंन गां भयजनकं वृषभं यवसे प्रवृत्तमिव तं यथा वारयितुं न शक्नुवन्ति तद्वत् ॥ ३ ॥ प्रथमेपर्यायेच्छावाकशस्त्रेएतोन्विन्द्रमितितृचः तथाचसूत्रितं-एतोन्विन्द्रंस्तवामेशानंमानोअस्मिन्मघवन्निति ।

8.81.4
एतो॒ न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्व᳚ः स्व॒राज᳚म् ।
न राध᳚सा मर्धिषन्नः ॥
▶ पदपाठः (Word-by-word)
आ । इ॒त॒ । ऊं॒ इति᳚ । नु । इन्द्र᳚म् । स्तवा᳚म । ईशा᳚नम् । वस्वः᳚ । स्व॒॑राज᳚म् ।
न । राध᳚सा । म॒र्धि॒ष॒त् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अस्मदीयाजनाः एतो आगच्छतैव नु क्षिप्रम् । किंकर्तुं स्तवामेन्द्रम् । कीदृशं तं वस्वोवसुनोधनस्य ईशानं स्वामिनं स्वराजं स्वयमेव राजमानं स्वर्गे राजमानं वा । नोस्मानिन्द्रेणानुगुहीतान् राधसा धनेन अन्योधनीनमर्धिषत् नबाधतां आढ्यानामस्मत्समानानामप्याढ्यत्वाय स्तवामेत्यर्थः ॥ ४ ॥

8.81.5
प्र स्तो᳚ष॒दुप᳚ गासिष॒च्छ्रव॒त्साम᳚ गी॒यमा᳚नम् ।
अ॒भि राध᳚सा जुगुरत् ॥
▶ पदपाठः (Word-by-word)
प्र । स्तो॒ष॒त् । उप᳚ । गा॒सि॒ष॒त् । श्रव᳚त् । साम᳚ । गी॒यमा᳚नम् ।
अ॒भि । राध᳚सा । जु॒गु॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वमंत्रे स्तवामेत्युक्तं तदेव स्तोत्रमिन्द्रः प्रस्तोषत् प्रस्तुत्वा च उपगासिषत् उपगानं च करोतु । तदर्थं गीयमानं साम स्तोत्रं श्रवत् शृणोतु । राधसा धनेन च युक्तोस्मानभिजुगुरदभिगृणातु स्वीकुर्विति ॥ ५ ॥

8.81.6
आ नो᳚ भर॒ दक्षि᳚णेना॒भि स॒व्येन॒ प्र मृ᳚श ।
इन्द्र॒ मा नो॒ वसो॒र्निर्भा᳚क् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । भ॒र॒ । दक्षि᳚णेन । अ॒भि । स॒व्येन । प्र । मृ॒श॒ ।
इन्द्र᳚ । मा । नः॒ । वसोः᳚ । निः । भा॒क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोस्मभ्यं आभराहृत्य दक्षिणेन स्ख्येन च हस्तेन उभाभ्यां हस्ताभ्यां अभिप्रमृश प्रयच्छेत्यर्थः । नोस्मान्वसोर्धनात् मानिर्भाक् मानिर्भांक्षीः ॥ ६ ॥

8.81.7
उप᳚ क्रम॒स्वा भ᳚र धृष॒ता धृ᳚ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । क्र॒म॒स्व॒ । आ । भ॒र॒ । धृ॒ष॒ता । धृ॒ष्णो॒ इति᳚ । जना᳚नाम् ।
अदा᳚शूः॑तरस्य । वेदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वमुपक्रमस्व धनं प्रत्युपगच्छ प्रवृत्तो भव वा दातुम् । हे धृष्णो धर्षक शत्रूणां धृषता धृष्टेन चेतसा युक्तः सन् आभराहरच । कस्य धनमाहरेति उच्यते-जनानां मध्ये अदाशूष्टरस्य अत्यन्तमदातृतमस्य वेदोधनं ॥ ७ ॥

8.81.8
इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भि॒ः सनि᳚त्वः ।
अ॒स्माभि॒ः सु तं स᳚नुहि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । यः । ऊं॒ इति᳚ । नु । ते॒ । अस्ति᳚ । वाजः᳚ । विप्रे᳚भिः । सनि᳚त्वः ।
अ॒स्माभिः᳚ । सु । तम् । स॒नु॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र योवाजोन्नं विप्रेभिर्मेधाविभिः सनित्वः संभजनीयः ते तवास्ति तं वाजमस्माभिर्याचितः सन् अस्मभ्यं वा सु सुष्ठु सनुहि देहि ॥ ८ ॥

8.81.9
स॒द्यो॒जुव᳚स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚ वि॒श्वश्च᳚न्द्राः ।
वशै᳚श्च म॒क्षू ज᳚रन्ते ॥
▶ पदपाठः (Word-by-word)
स॒द्यः॒॑जुवः᳚ । ते॒ । वाजाः᳚ । अ॒स्मभ्य᳚म् । वि॒श्व॑च᳚न्द्राः ।
वशैः᳚ । च॒ । म॒क्षु । ज॒र॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव वाजाः अन्नानि अस्मभ्यं सद्योजुवः शीघ्रं गन्तारोभवन्तु । कीदृशास्ते विश्वचन्द्राः सर्वहिरण्योपेताः बहूनामाह्लादकावा अस्मदीया- श्च जनाः वशैः काभैरनेकैर्युक्ताः मक्षु शीघ्रं जरन्ते स्तुवन्ति ॥ ९ ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्चरः

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरविते माधवीये वेदार्थप्रकाशे ऋक्संहि- ताभाष्ये षष्ठाष्टके पंचमोध्यायः ॥ ५ ॥