अष्टमं मण्डलम् - सूक्तम् 56

5 ऋचः

ऋषिः: पृषध्रः काण्वः देवता: प्रस्कण्वस्य दानस्तुतिः (इंद्रो वा) छन्दः: गायत्री

सूक्तम् 8.56 - सम्पूर्णम्

1 / 5
ऋक्: 8.56.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
8.56.1
प्रति᳚ ते दस्यवे वृक॒ राधो᳚ अद॒र्श्यह्र᳚यम् ।
द्यौर्न प्र᳚थि॒ना शवः᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ । राधः᳚ । अ॒द॒र्शि॒ । अह्र᳚यम् ।
द्यौः । न । प्र॒थि॒ना । शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.56.2
दश॒ मह्यं᳚ पौतक्र॒तः स॒हस्रा॒ दस्य᳚वे॒ वृकः᳚ ।
नित्या᳚द्रा॒यो अ᳚मंहत ॥
▶ पदपाठः (Word-by-word)
दश᳚ । मह्य᳚म् । पौ॒त॒॑क्र॒तः । स॒हस्रा᳚ । दस्य᳚वे । वृकः᳚ ।
नित्या᳚त् । रा॒यः । अ॒मं॒ह॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.56.3
श॒तं मे᳚ गर्द॒भानां᳚ श॒तमूर्णा᳚वतीनाम् ।
श॒तं दा॒सा{4} अति॒ स्रजः᳚ ॥
▶ पदपाठः (Word-by-word)
श॒तम् । मे॒ । ग॒र्द॒भाना᳚म् । श॒तम् । ऊर्णा᳚॑वतीनाम् ।
श॒तम् । दा॒सान् । अति᳚ । स्रजः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.56.4
तत्रो॒ अपि॒ प्राणी᳚यत पू॒तक्र᳚तायै॒ व्य᳚क्ता ।
अश्वा᳚ना॒मिन्न यू॒थ्या᳚म् ॥
▶ पदपाठः (Word-by-word)
तत्रो॒ इति᳚ । अपि᳚ । प्र । अ॒नी॒य॒त॒ । पू॒त॑क्र᳚तायै । वि॑अ᳚क्ता ।
अश्वा᳚नाम् । इत् । न । यू॒थ्या᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.56.5
अचे᳚त्य॒ग्निश्चि᳚कि॒तुर्ह᳚व्य॒वाट् स सु॒मद्र᳚थः ।
अ॒ग्निः शु॒क्रेण᳚ शो॒चिषा᳚ बृ॒हत्सूरो᳚ अरोचत दि॒वि सूर्यो᳚ अरोचत ॥
▶ पदपाठः (Word-by-word)
अचे᳚ति । अ॒ग्निः । चि॒कि॒तुः । ह॒व्य॒॑वाट् । सः । सु॒मत्॑र᳚थः ।
अ॒ग्निः । शु॒क्रेण᳚ । शो॒चिषा᳚ । बृ॒हत् । सूरः᳚ । अ॒रो॒च॒त॒ । दि॒वि । सूर्यः᳚ । अ॒रो॒च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty