मध्व᳚ः सु॒तस्य॒ स दि॒वि प्रि॒यो न᳚रा पा॒तं गौ॒रावि॒वेरि᳚णे ॥
पदपाठः (Word-by-word)
मध्वः᳚ । सु॒तस्य᳚ । सः । दि॒वि । प्रि॒यः । न॒रा॒ । पा॒तम् । गौ॒रौ॑इ᳚व । इरि᳚णे ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना अश्विनौ अयमनुक्षीणस्तोत्रो द्युम्नीक एतन्नामकऋषिः वां युवयोः स्तोमः स्तोताभवति युष्मत्स्तुतौ कृतायां स्तोत्राणि नाल्पीभवन्ति किंतु पुनर्वर्धन्तइत्यर्थः । तत्रदृष्टान्तः –क्रिविर्न क्रिविरिति कूपनाम कूपोयथा सेके उदकसेचने वृष्टौ भवन्त्यां नाल्पोदकोभवति तद्वत् । यद्वा वां युवयोः स्तोमः युष्मद्विषयास्तुतिः द्युम्नी अन्नवतीखलु स्तोत्रे कृते तस्माअन्नादिकं प्रयच्छ्त इत्यर्थः । तस्माद्युवामस्मदीयं यज्ञं प्रत्यागतं स्तोत्राणि श्रोतुमागच्छतम् । हे नरा नरौ नेतारौ अश्विनौ सोयं स्तोता दिवि द्योतमानेस्मिन्यज्ञे सुतस्याभिषुतस्य मध्वो मदकरस्य सोमस्य प्रियः स्तोत्रकारित्वेन प्रियतमोभवति । ततस्तेन सुतं सोमं पातं युवां शीघ्रमागत्य पिबतम् । तत्रदृष्टान्तः-गौराविव यथा तृषितौ गौरौ एतन्नामकौ मृगौ इरिणे तटाकादिषु उदकपानार्थं शीघ्रमागच्छतस्तद्वत् ॥ १ ॥