श्रवणम्

8.87.6
व॒यं हि वां॒ हवा᳚महे विप॒न्यवो॒ विप्रा᳚सो॒ वाज᳚सातये ।
ता व॒ल्गू द॒स्रा पु᳚रु॒दंस᳚सा धि॒याश्वि᳚ना श्रु॒ष्ट्या ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
व॒यम् । हि । वा॒म् । हवा᳚महे । वि॒प॒न्यवः᳚ । विप्रा᳚सः । वाज᳚॑सातये ।
ता । व॒ल्गू इति᳚ । द॒स्रा । पु॒रु॒॑दंस᳚सा । धि॒या । अश्वि᳚ना । श्रु॒ष्टी । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ विपन्यवः स्तोतारः अतएव विप्रासो मेधाविनो वयं वाजसातये अन्नलाभाय वां हिरवधारणे युवामेव हवामहे स्तुतिभिराह्वयामः । ता तौ वल्गू वल्गनं कुश्लगमनं कुशलगमनशीलौ दस्रा दर्शनीयौ पुरुदंससा बहुकर्माणौ तौ युवां धिया अस्मदीयया स्तुत्या आहूतौ सन्तौ श्रुष्टी श्रुष्टीति क्षिप्रनाम क्षिप्रमस्मभ्यं धनादिदानायागतमागच्छतम् ॥ ६ ॥

तंवोदस्ममिति षळृचमष्टमंसूक्तं गौतमस्य नोधसआर्षम् । तथाचानुक्रम्यते-तंवोदस्मं नोधाइति । प्रागाथं हेत्युक्तत्वादेतदादिसूक्तत्रयं प्रागाथम् । इन्द्रोदेवता महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तथाच पंचमारण्यके सूत्रितं-तं वोदस्ममृतीषहमानोविश्वासुहव्यइति । अग्निष्टोमे माध्यन्दिनसवने अच्छावाकशस्त्रे तंवोदस्ममिति प्रगाथःस्तोत्रियः । सूत्रितंच-तंवोदस्ममृतीषहं तत्त्वायामिसुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपा- विति । चातुर्विंशिकेहनि माध्मन्दिनसवने ब्राह्मणाच्छंसिनो वैकल्पिकः स्तोत्रियोयमेवप्रगाथः विषुवत्यपिमाध्यन्दिनसवने ब्राह्मणाच्छंसिशस्त्रे तंवोदस्ममृतीषहमिति नौधसस्य योनिः शंसनीया तंवोदस्ममृतीषहमभिप्रवः सुराधसमिति ।