श्रवणम्

8.87.5
आ नू॒नं या᳚तमश्वि॒नाश्वे᳚भिः प्रुषि॒तप्सु᳚भिः ।
दस्रा॒ हिर᳚ण्यवर्तनी शुभस्पती पा॒तं सोम᳚मृतावृधा ॥
▶ पदपाठः (Word-by-word)
आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । अश्वे᳚भिः । प्रु॒षि॒तप्सु᳚॑भिः ।
दस्रा᳚ । हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्य॑वर्तनी । शु॒भः॒ । प॒ती॒ इति᳚ । पा॒तम् । सोम᳚म् । ऋ॒त॒॑वृ॒धा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ युवां प्रुषितप्सुभिः प्सुइति रूपनाम प्रुषप्लुष स्नेहनसेचनपूरणेषु । स्निग्धरूपैर्दीप्तरूपैरित्यर्थः । तादृशैः अश्वेभिः शीघ्रगामि- भिरश्वैः सह नूनमिदानीमायातं अस्मदीयं यज्ञं प्रत्यागच्छतम् । हे दस्रा दस्रौ दर्शनीयौ उपक्षयितारौ वा हे हिरण्यवर्तनी वर्तते अत्रेति वर्तनी रथः हिरण्मयरथौ हे शुभस्पती उदकस्य कल्याणस्यवा पालयितारौ हे ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारौ हे अश्विनौ युवां शीघ्रमागत्य सोमं पातं पिबतम् ॥ ५ ॥