अष्टमं मण्डलम् - सूक्तम् 50

10 ऋचः

ऋषिः: पुष्टिगुः काण्वः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.50 - सम्पूर्णम्

1 / 10
ऋक्: 8.50.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
8.50.1 समानपद
प्र सु श्रु॒तं सु॒राध᳚स॒मर्चा᳚ श॒क्रम॒भिष्ट᳚ये ।
यः सु᳚न्व॒ते स्तु᳚व॒ते काम्यं॒ वसु᳚ स॒हस्रे᳚णेव॒ मंह᳚ते ॥
▶ पदपाठः (Word-by-word)
प्र । सु । श्रु॒तम् । सु॒॑राध᳚सम् । अर्च᳚ । श॒क्रम् । अ॒भिष्ट᳚ये ।
यः । सु॒न्व॒ते । स्तु॒व॒ते । काम्य᳚म् । वसु᳚ । स॒हस्रे᳚ण॑इव । मंह᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.50.2
श॒तानी᳚का हे॒तयो᳚ अस्य दु॒ष्टरा॒ इन्द्र᳚स्य स॒मिषो᳚ म॒हीः ।
गि॒रिर्न भु॒ज्मा म॒घव᳚त्सु पिन्वते॒ यदीं᳚ सु॒ता अम᳚न्दिषुः ॥
▶ पदपाठः (Word-by-word)
श॒त॑अ᳚नीकाः । हे॒तयः᳚ । अ॒स्य॒ । दु॒स्तराः᳚ । इन्द्र᳚स्य । स॒म्॑इषः᳚ । म॒हीः ।
गि॒रिः । न । भु॒ज्मा । म॒घव᳚त्॑सु । पि॒न्व॒ते॒ । यत् । ई॒म् । सु॒ताः । अम᳚न्दिषुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.50.3
यदीं᳚ सु॒तास॒ इन्द᳚वो॒॑भि प्रि॒यमम᳚न्दिषुः ।
आपो॒ न धा᳚यि॒ सव᳚नं म॒ आ व᳚सो॒ दुघा᳚ इ॒वोप᳚ दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । ई॒म् । सु॒तासः᳚ । इन्द᳚वः । अ॒भि । प्रि॒यम् । अम᳚न्दिषुः ।
आपः᳚ । न । धा॒यि॒ । सव᳚नम् । मे॒ । आ । व॒सो॒ इति᳚ । दुघाः᳚॑इव । उप᳚ । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.50.4
अ॒ने॒हसं᳚ वो॒ हव᳚मानमू॒तये॒ मध्व᳚ः क्षरन्ति धी॒तयः᳚ ।
आ त्वा᳚ वसो॒ हव᳚मानास॒ इन्द᳚व॒ उप᳚ स्तो॒त्रेषु᳚ दधिरे ॥
▶ पदपाठः (Word-by-word)
अ॒ने॒हस᳚म् । वः॒ । हव᳚मानम् । ऊ॒तये᳚ । मध्वः᳚ । क्ष॒र॒न्ति॒ । धी॒तयः᳚ ।
आ । त्वा॒ । व॒सो॒ इति᳚ । हव᳚मानासः । इन्द᳚वः । उप᳚ । स्तो॒त्रेषु᳚ । द॒धि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.50.5 समानपद
आ न॒ः सोमे᳚ स्वध्व॒र इ᳚या॒नो अत्यो॒ न तो᳚शते ।
यं ते᳚ स्वदाव॒न्त्स्वद᳚न्ति गू॒र्तयः᳚ पौ॒रे छ᳚न्दयसे॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । सोमे᳚ । सु॒॑अ॒ध्व॒रे । इ॒या॒नः । अत्यः᳚ । न । तो॒श॒ते॒ ।
यम् । ते॒ । स्व॒दा॒॑व॒न् । स्वद᳚न्ति । गू॒र्तयः᳚ । पौ॒रे । छ॒न्द॒य॒से॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.50.6
प्र वी॒रमु॒ग्रं विवि᳚चिं धन॒स्पृतं॒ विभू᳚तिं॒ राध᳚सो म॒हः ।
उ॒द्रीव᳚ वज्रिन्नव॒तो व᳚सुत्व॒ना सदा᳚ पीपेथ दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । वी॒रम् । उ॒ग्रम् । विवि᳚चिम् । ध॒न॒॑स्पृत᳚म् । वि॑भू᳚तिम् । राध᳚सः । म॒हः ।
उ॒द्री॑इ᳚व । व॒ज्रि॒न् । अ॒व॒तः । व॒सु॒॑त्व॒ना । सदा᳚ । पी॒पे॒थ॒ । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.50.7
यद्ध᳚ नू॒नं प᳚रा॒वति॒ यद्वा᳚ पृथि॒व्यां दि॒वि ।
यु॒जा॒न इ᳚न्द्र॒ हरि᳚भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग᳚हि ॥
▶ पदपाठः (Word-by-word)
यत् । ह॒ । नू॒नम् । प॒रा॒॑वति᳚ । यत् । वा॒ । पृ॒थि॒व्याम् । दि॒वि ।
यु॒जा॒नः । इ॒न्द्र॒ । हरि᳚॑भिः । म॒हे॒॑म॒ते॒ । ऋ॒ष्वः । ऋ॒ष्वेभिः᳚ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.50.8
र॒थि॒रासो॒ हर᳚यो॒ ये ते᳚ अ॒स्रिध॒ ओजो॒ वात᳚स्य॒ पिप्र᳚ति ।
येभि॒र्नि दस्युं॒ मनु᳚षो नि॒घोष᳚यो॒ येभि॒ः स्व᳚ः प॒रीय᳚से ॥
▶ पदपाठः (Word-by-word)
र॒थि॒रासः᳚ । हर᳚यः । ये । ते॒ । अ॒स्रिधः᳚ । ओजः᳚ । वात᳚स्य । पिप्र᳚ति ।
येभिः᳚ । नि । दस्यु᳚म् । मनु᳚षः । नि॒॑घोष᳚यः । येभिः᳚ । स्व१॒᳚रिति᳚ स्वः᳚ । प॒रि॒॑ईय᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.50.9
ए॒ताव᳚तस्ते वसो वि॒द्याम᳚ शूर॒ नव्य᳚सः ।
यथा॒ प्राव॒ एत᳚शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश᳚व्रजे ॥
▶ पदपाठः (Word-by-word)
ए॒ताव᳚तः । ते॒ । व॒सो॒ इति᳚ । वि॒द्याम᳚ । शू॒र॒ । नव्य᳚सः ।
यथा᳚ । प्र॒॑आवः᳚ । एत᳚शम् । कृत्व्ये᳚ । धने᳚ । यथा᳚ । वश᳚म् । दश᳚॑व्रजे ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.50.10
यथा॒ कण्वे᳚ मघव॒न्मेधे᳚ अध्व॒रे दी॒र्घनी᳚थे॒ दमू᳚नसि ।
यथा॒ गोश᳚र्ये॒ असि᳚षासो अद्रिवो॒ मयि᳚ गो॒त्रं ह᳚रि॒श्रिय᳚म् ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । कण्वे᳚ । म॒घ॒॑व॒न् । मेधे᳚ । अ॒ध्व॒रे । दी॒र्घ॑नी᳚थे । दमू᳚नसि ।
यथा᳚ । गो॑श᳚र्ये । असि᳚सासः । अ॒द्रि॒॑वः॒ । मयि᳚ । गो॒त्रम् । ह॒रि॒॑श्रिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty