अस्तं॒ भर᳚न्त्यब्रवी॒दिन्द्रा᳚य सुनवै त्वा श॒क्राय᳚ सुनवै त्वा ॥
पदपाठः (Word-by-word)
अस्त᳚म् । भर᳚न्ती । अ॒ब्र॒वी॒त् । इन्द्रा᳚य । सु॒न॒वै॒ । त्वा॒ । श॒क्राय᳚ । सु॒न॒वै॒ । त्वा॒ ॥
सायणभाष्यम् (Sayana Commentary)
वाः उदकं प्रति अवायती स्नानार्थमभ्यवगच्छन्ती कन्या अपालानामस्त्री स्रुता स्रुतौ मार्गे सोममप्यविदत् । विद्ऌलाभे अलभत लङिरूपम् । तं सोमं अस्तं गृहंप्रति भरन्ती आहरन्ती सा सोममब्रवीत् । हे सोमत्वात्वामिन्द्राय सुनवै ममदन्तैरेवाभिषुणवै । पुनर्हे सोम त्वा त्वां शक्राय समर्थायेन्द्राय सुनवै इदानीमेवाभिषवं करवै । सोमभक्षणकाले दंतेदंतध्वनिं ग्रावध्वनिमिति मत्वेन्द्रः तामगमत् । एषोर्थः शाट्यायनब्राह्मणे स्पष्टमभिहितः-सातीर्थमभ्यवयन्ती सोमांशुमविन्द्रत्तंसमखादत्तस्यैहग्रावाणइव दन्ताऊदुः सइन्द्रः आद्रवत् ग्रावाणोवैवदन्तीति । सातमभिव्याज- हार कन्यावारवायतीसोममपिस्रुताविददित्यस्यैतइदं ग्रावाणइव दन्तावदन्तीति विदित्वेन्द्रः पराङावर्तत तमब्रवीदसौयएषिवीरक इत्यादिनेति ॥ १ ॥