श्रवणम्

8.91.3
आ च॒न त्वा᳚ चिकित्सा॒मो॑धि᳚ च॒न त्वा॒ नेम᳚सि ।
शनै᳚रिव शन॒कैरि॒वेन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
आ । च॒न । त्वा॒ । चि॒कि॒त्सा॒मः॒ । अधि᳚ । च॒न । त्वा॒ । न । इ॒म॒सि॒ ।
शनैः᳚॑इव । श॒न॒कैः॑इ᳚व । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनरपि सः तमनादृत्याह –हे इन्द्र चनेति निपातसमुदायोवधारणार्थे त्वा त्वामाचिकित्सामोज्ञातुमिच्छामएव ममगृहमागच्छ तं त्वामिन्द्र- इति जानीमएव इहमार्गएवागतं त्वा त्वां नाधीमसि नाधिगच्छामः । अत्रापि चनेत्यवधारणे । इह त्वामिन्द्रइति नजानीमः । इत्यपाला तमिन्द्रमुत्त्का स्वास्येस्थितंसोमं प्रत्याह-हे इन्द्रो क्षरणशील सोम अस्माआगतायेन्द्राय तदर्थं पूर्वं शनैः मन्दंमन्दं ततः शनकैरिव कुत्सितार्थे अकच् कुत्सितं शनैः शनकैः क्षिप्रमित्यर्थः क्षिप्रमेव त्वं परिस्रव मदीयदंष्ट्राभिरभिषूयमाणःसन् परितः क्षरेति । तथा यज्ञेष्वपि ग्रावभिर- भिषूयमाणः सोमः प्रथमं शनैः परिस्रवति ततः शनकैः क्षिप्रमिति तदभिप्रायेणोक्तम् । ततइन्द्रः एतद्वाक्यं श्रुत्वा तदानीमेवमभिषुतं सोमं यज्ञस्थानीयादपालामुखादेवाधासीत् । उक्तार्थः शाट्यायनकब्राह्मणे स्पष्टमभ्यधायि-अनाद्रियमाणैव तमब्रवीदाचनत्वाचिकित्सामोधिचन- त्वानेमसीति पुरामां सर्वयर्चापालास्तौतीत्युपपर्यावतर्त शनैरिव शनकैरिवेन्द्रायेन्दोपरिस्रवेति हवाअस्यैमुखात्सोमं निरधयत्सोमपीथइहवा- अस्यभवति यएवंविद्वान् स्त्रीमुपजिघ्रतीति ॥ ३ ॥