इ॒मानि॒ त्रीणि᳚ वि॒ष्टपा॒ तानी᳚न्द्र॒ वि रो᳚हय ।
शिर᳚स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे᳚ ॥
शिर᳚स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे᳚ ॥
पदपाठः (Word-by-word)
इ॒मानि᳚ । त्रीणि᳚ । वि॒ष्टपा᳚ । तानि᳚ । इ॒न्द्र॒ । वि । रो॒ह॒य॒ ।
शिरः᳚ । त॒तस्य᳚ । उ॒र्वरा᳚म् । आत् । इ॒दम् । मे॒ । उप᳚ । उ॒दरे᳚ ॥
शिरः᳚ । त॒तस्य᳚ । उ॒र्वरा᳚म् । आत् । इ॒दम् । मे॒ । उप᳚ । उ॒दरे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रेण किंकामयसे तद्दास्यामीत्युक्ता सा वरमनया प्रार्थयते । हे इन्द्र इमानि त्रीणि विष्टपा विष्टपानि स्थानानि सन्ति तानि त्रीणि स्थानानि विरोहय उत्पादय । कानि तानि ततस्य मम पितुः रोमवर्जितं शिरः खलतिमित्यर्थः तच्चापगमय रोमशंकुर्वित्यर्थः । उर्वरां तस्यऊपरं क्षेत्रं सर्वसस्याढ्यं कुरु । आदनन्तरं मे मम उपोदरे उप उदरस्य समीपे यदिदं स्थानं गुह्यमित्यर्थः तच्च त्वग्दोषेसत्यसंजातरोमकं तदपि त्वग्दोष- परिहारेण रोमयुक्तं कुरु । एतानि त्रिणि स्थानानि । एषोर्थः शाट्यायनके प्रपंचेनोक्तः-तामब्रवीदपाले किं कामयसीति साब्रवीदिमानित्रीणि विष्टपेति खलतिर्हास्यैपिता संतहाखलतिं चकारोर्वराहास्य नजज्ञे सोजज्ञ उपस्थेहास्यै रोमाणि नासुस्तान्युह जज्ञिरइत्यस्योत्तराभूयसे निर्वचनायासौचयानइति ॥ ५ ॥