श्रवणम्

8.91.2
अ॒सौ य एषि᳚ वीर॒को गृ॒हंगृ᳚हं वि॒चाक᳚शद् ।
इ॒मं जम्भ᳚सुतं पिब धा॒नाव᳚न्तं कर॒म्भिण᳚मपू॒पव᳚न्तमु॒क्थिन᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒सौ । यः । एषि᳚ । वी॒र॒कः । गृ॒हम्॑गृ᳚हम् । वि॒॑चाक᳚शत् ।
इ॒मम् । जम्भ᳚॑सुतम् । पि॒ब॒ । धा॒ना॑व᳚न्तम् । क॒र॒म्भिण᳚म् । अ॒पू॒प॑व᳚न्तम् । उ॒क्थिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सा शक्रमब्रवीत्-हेइन्द्र वीरको वीरः समर्थस्त्वं योसौ त्वं विचाकशत् काशृदीप्तौ । यङ्लुकि शतरि रूपं धातोर्ह्रस्वश्छान्दसः । अत्यर्थं दीप्यमानः सन् गृहंगृहं यजमानगृहंप्रति सोमपानाय त्वमेषि गच्छसि । अतस्त्वमत्रापि जंभसुतं ममदन्तैरभिषुतमिमं सोमं पिब । कीदृशं धानावन्तं धाना- भृष्टयवास्तद्वन्तं करंभिणं सक्तुमन्तं अपूपवन्तं पुरोडाशादिसहितं उक्थिनं स्तोत्रादियुक्तमेतादृशं सोममत्रैव पिबेति । सा सोमेनसह धानादीनवे- दयत् स्तोत्रंचाकार्षिदित्यर्थः ॥ २ ॥