अष्टमं मण्डलम् - सूक्तम् 20

26 ऋचः

ऋषिः: सोभरिः काण्वः देवता: मरुतः छन्दः: ककुप्

सूक्तम् 8.20 - सम्पूर्णम्

1 / 26
ऋक्: 8.20.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (26)
8.20.1
आ ग᳚न्ता॒ मा रि᳚षण्यत॒ प्रस्था᳚वानो॒ माप᳚ स्थाता समन्यवः ।
स्थि॒रा चि᳚न्नमयिष्णवः ॥
▶ पदपाठः (Word-by-word)
आ । ग॒न्त॒ । मा । रि॒ष॒ण्य॒त॒ । प्र॑स्था᳚वानः । मा । अप᳚ । स्था॒त॒ । स॒॑म॒न्य॒वः॒ ।
स्थि॒रा । चि॒त् । न॒म॒यि॒ष्ण॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रस्थावानः प्रस्थातारः प्रगन्तारः मरुतः आगन्त अस्मानागच्छत मारिषण्यत अनागमनेनास्मान्माहिंस्त । हे समन्यवः समानतेजस्काः समान- क्रोधावा स्थिराचित् स्थिराणि दृढान्यपि पर्वतादीनि हे नमयिष्णवोनमनशीलाः कंपयितारः मापस्थात अस्मत्तोपेत्यान्यत्र मातिष्ठत अस्मास्वेव तिष्ठतेत्यर्थः ॥ १ ॥

8.20.2
वी॒ळु॒प॒विभि᳚र्मरुत ऋभुक्षण॒ आ रु᳚द्रासः सुदी॒तिभि᳚ः ।
इ॒षा नो᳚ अ॒द्या ग᳚ता पुरुस्पृहो य॒ज्ञमा सो᳚भरी॒यवः᳚ ॥
▶ पदपाठः (Word-by-word)
वी॒ळु॒प॒वि॑भिः᳚ । म॒रु॒तः॒ । ऋ॒भु॒क्ष॒णः॒ । आ । रु॒द्रा॒सः॒ । सु॒दी॒ति॑भिः᳚ ।
इ॒षा । नः॒ । अ॒द्य । आ । ग॒त॒ । पु॒रु॒॑स्पृ॒हः॒ । य॒ज्ञम् । आ । सो॒भ॒री॒॑यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभुक्षणः महान्तः उरुभासमाननिवासावा हे रुद्रासो रुद्राः रुद्रपुत्राः ईदृशाः हे मरुतः सुदीतिभिः शोभनदीप्तिकैः वीळुपविभिः रथनेमयः पवयः वीळु दृढाः पवयोयेषु तादृशैरथैरागत आगच्छत । एतदेव विवृणोति-हे पुरुस्पृहः बहुभिः स्पृहणीयाः ईप्सितव्याः सोभरीयवः सोभरिमृषिं मां का- मयमानाःसन्तः अद्य इदानीं यज्ञं अस्मदीयं यागं इषा अस्मभ्यं दातव्येन अन्नेन सह आगत आगच्छत शीघ्रं कालविलंबं माकुरुत ॥ २ ॥

8.20.3
वि॒द्मा हि रु॒द्रिया᳚णां॒ शुष्म᳚मु॒ग्रं म॒रुतां॒ शिमी᳚वताम् ।
विष्णो᳚रे॒षस्य᳚ मी॒ळ्हुषा᳚म् ॥
▶ पदपाठः (Word-by-word)
वि॒द्म । हि । रु॒द्रिया᳚णाम् । शुष्म᳚म् । उ॒ग्रम् । म॒रुता᳚म् । शिमी᳚॑वताम् ।
विष्णोः᳚ । ए॒षस्य᳚ । मी॒ळ्हुषा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रुद्रियाणां रुद्रपुत्राणां शिमीवतां कर्मवतां विष्णोर्व्याप्तस्य एषस्य एषणीयस्य वृष्टचुदकस्य मीह्ळुषां सेक्तृणां मरुतां उग्रमुद्गूर्णं शुष्मं बलं विझहि जानीमः खलु ॥ ३ ॥

8.20.4
वि द्वी॒पानि॒ पाप᳚त॒न्तिष्ठ᳚द्दु॒च्छुनो॒भे यु᳚जन्त॒ रोद᳚सी ।
प्र धन्वा᳚न्यैरत शुभ्रखादयो॒ यदेज᳚थ स्वभानवः ॥
▶ पदपाठः (Word-by-word)
वि । द्वी॒पानि᳚ । पाप᳚तन् । तिष्ठ᳚त् । दु॒च्छुना᳚ । उ॒भे इति᳚ । यु॒ज॒न्त॒ । रोद᳚सी॒ इति᳚ ।
प्र । धन्वा᳚नि । ऐ॒र॒त॒ । शु॒भ्र॒॑खा॒द॒यः॒ । यत् । एज᳚थ । स्व॒॑भा॒न॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वीपानि द्वयोः पार्श्वयोः आपोयेषु तानि उदमध्यस्थलानि झंतरुपसर्गेभ्योपईदितीत्वम् ऋक्पूरित्यादिनाअकारः समासान्तः । तानिच विपापतम् अत्यर्थं मरुद्वेगेन विपतन्ति । तिष्ठत् स्थावरं चान्यदृक्षजातं दुच्छुना दुःखेन युज्यते उभे रोदसी द्यावापृथिव्यावपि युजंत ते मरुतः स्वागमनजनितेन कंपनेन योजयन्ति । परोर्धर्चः परोक्षकृतः धन्वानि गमनशीलान्युदकानिच प्रैरत प्रगच्छंति हे शुम्रखादयः शोभनायुधाः शोभनहविष्कावा हे स्व- भानवः स्वायत्तदीप्तयः युयं यद्यदा एजथ कंपयथ तदा एतत्पूर्वोक्तं सर्वं निष्पाद्यते इत्यर्थः ॥ ४ ॥

8.20.5
अच्यु᳚ता चिद्वो॒ अज्म॒न्ना नान᳚दति॒ पर्व᳚तासो॒ वन॒स्पति᳚ः ।
भूमि॒र्यामे᳚षु रेजते ॥
▶ पदपाठः (Word-by-word)
अच्यु᳚ता । चि॒त् । वः॒ । अज्म᳚न् । आ । नान᳚दति । पर्व᳚तासः । वन॒स्पतिः᳚ ।
भूमिः᳚ । यामे᳚षु । रे॒ज॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतोवोयुष्माकं अज्मन् अज्मनि संग्रामे गमनेसति अच्युताचित् च्यावयितुमशक्याअपि पर्वतासः पर्वतामेघा गिरयोवा वनस्पतिः जातावेक- वचनं वनस्पतयोवृक्षाश्च आनानदति अभितोभृशं शब्दायंते । अपिच यामेषु युष्मदीयेषु गमनेषु निमित्तेषु भूमिः पृथिवीच रेजते कंपते ॥ ५ ॥

8.20.6
अमा᳚य वो मरुतो॒ यात᳚वे॒ द्यौर्जिही᳚त॒ उत्त᳚रा बृ॒हत् ।
यत्रा॒ नरो॒ देदि᳚शते त॒नूष्वा त्वक्षां᳚सि बा॒ह्वो᳚जसः ॥
▶ पदपाठः (Word-by-word)
अमा᳚य । वः॒ । म॒रु॒तः॒ । यात᳚वे । द्यौः । जिही᳚ते । उत्॑त᳚रा । बृ॒हत् ।
यत्र᳚ । नरः᳚ । देदि᳚शते । त॒नूषु᳚ । आ । त्वक्षां᳚सि । ब॒हु॑ओ᳚जसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतोवोयुष्माकं अमाय बलाय यातवे यातुं द्यौर्द्युलोकः बृहदन्तरिक्षं विसृज्य उत्तरा उद्गततरा जिहीते गच्छति युष्मदागमनाद्धीतासती युष्म- दीयमांतरिक्षं स्थानं परित्यज्यऊर्ध्वं पलायतइत्यर्थः । यत्र यस्मिन्नन्तरिक्षे बाह्वोरोजोबलं येषां तादृशानरोनेतारोमरुतः त्वक्षांसि दीप्तान्याभर- णानि तनुष्वात्मीयेषु शरीरेषु आदेदिशते आदिष्टानि धृतानि कुर्वन्ति । यद्वा तनूषु विस्तृतासु मेघस्थास्वप्सु त्वक्षांसि तनूकृतानि तीक्ष्णीकृतान्या- युधानि मेघोद्धेदनाय आदेदिशते पुनःपुनरादिशन्ति तइहदंतरिक्षं जिहीतइत्यन्वयः ॥ ६ ॥

8.20.7
स्व॒धामनु॒ श्रियं॒ नरो॒ महि᳚ त्वे॒षा अम᳚वन्तो॒ वृष᳚प्सवः ।
वह᳚न्ते॒ अह्रु᳚तप्सवः ॥
▶ पदपाठः (Word-by-word)
स्व॒धाम् । अनु᳚ । श्रिय᳚म् । नरः᳚ । महि᳚ । त्वे॒षाः । अम᳚॑वन्तः । वृष᳚॑प्सवः ।
वह᳚न्ते । अह्रु᳚त॑प्सवः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरोनेतारोमरुतः स्वधामनु स्वधेत्यन्ननाम हविर्लक्षणमन्नमनुलक्ष्य श्रियं शोभां महि महत्प्रौढं वहन्ते धारयन्ति । कीदृशाः त्वेषाः दीप्ताः अमव- न्तोबलवन्तः वृषप्सवोवर्षणरूपाः अह्रुतप्सवः अकुटिलरूपाश्च ॥ ७ ॥

8.20.8
गोभि᳚र्वा॒णो अ᳚ज्यते॒ सोभ᳚रीणां॒ रथे॒ कोशे᳚ हिर॒ण्यये᳚ ।
गोब᳚न्धवः सुजा॒तास᳚ इ॒षे भु॒जे म॒हान्तो᳚ न॒ः स्पर᳚से॒ नु ॥
▶ पदपाठः (Word-by-word)
गोभिः᳚ । वा॒णः । अ॒ज्य॒ते॒ । सोभ᳚रीणाम् । रथे᳚ । कोशे᳚ । हि॒र॒ण्यये᳚ ।
गो॑ब᳚न्धवः । सु॒॑जा॒तासः᳚ । इ॒षे । भु॒जे । म॒हान्तः᳚ । नः॒ । स्पर᳚से । नु ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोभरीणामृषीणां गोभिः शब्दैः स्तुतिलक्षणैर्वाणः मरुद्वीणाअज्यते व्यज्यते प्रकटीक्रियते । कुत्र हिरण्यये रथे कोशे कोशवद्वेष्टिते मध्यदेशे । यद्वा गोभिर्गंतृभिर्गोमातृकैर्वा मरुद्धिः वाणः अज्यते व्यज्यते सोभरीणां ज्ञानाय ईदृशे रथे वाघतइत्यर्थः । अपिच गोबंधवोगोमातृकाः सुजातासः शोभ- नजन्मानः महांतोमहानुभावास्तेमरुतः नोस्माकं इषेन्नाय भुजे भोगाय स्परसे प्रीत्यैच वलनाय वा नु क्षिप्रं भवंत्विति शेषः ॥ ८ ॥

8.20.9
प्रति᳚ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा᳚य॒ मारु᳚ताय भरध्वम् ।
ह॒व्या वृष᳚प्रयाव्णे ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । वः॒ । वृ॒ष॒त्॑अ॒ञ्ज॒यः॒ । वृष्णे᳚ । शर्धा᳚य । मारु᳚ताय । भ॒र॒ध्व॒म् ।
ह॒व्या । वृष᳚॑प्रयाव्ने ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषदंजयः वृषता वर्षकेण सोमेन अञ्जन्तः सिञ्जन्तोध्वर्यवः वोयूयं वृष्णे वर्षित्रे मारुताय मरुत्संघरूपाय शर्धाय बलाय हव्या हव्यानि हवींषि प्रति भरध्वम् आहवनीयं प्रति हरत् । शर्धं विशेष्यते वृषप्रयाव्णे वृषाणः सेक्तारः प्रयावानः प्रकृष्टं गन्तारोमरुतोयस्मिन् तत्तथोक्तं तस्मै ॥ ९ ॥

8.20.10
वृ॒ष॒ण॒श्वेन᳚ मरुतो॒ वृष᳚प्सुना॒ रथे᳚न॒ वृष᳚नाभिना ।
आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा᳚ नरो ह॒व्या नो᳚ वी॒तये᳚ गत ॥
▶ पदपाठः (Word-by-word)
वृ॒ष॒ण॒श्वेन᳚ । म॒रु॒तः॒ । वृष᳚॑प्सुना । रथे᳚न । वृष᳚॑नाभिना ।
आ । श्ये॒नासः᳚ । न । प॒क्षिणः᳚ । वृथा᳚ । न॒रः॒ । ह॒व्या । नः॒ । वी॒तये᳚ । ग॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरोनेतारोमरुतः वृषणश्वेन वृषभिः सेचनसमर्थैरश्वैरुपेतेन वृषप्सुना वर्षकरूपयुक्तेन वृषनाभिना नाभिश्चक्रछिद्रं वर्षकनाभियुक्तेन रथेन नो- स्माकं हव्या हव्यानि हवींषि आगत आगच्छत । वृथा अनायासेनैव वीतये भक्षणार्थम् । तत्रदृष्टान्तः-श्येनासोन पक्षिणः श्येनाः शंसनीयगतयः पक्षिणोयथा शीघ्रमागच्छंतितद्वदनायासेन सीघ्रमागच्छतेत्यर्थः ॥ १० ॥

8.20.11
स॒मा॒नम॒ञ्ज्ये᳚षां॒ वि भ्रा᳚जन्ते रु॒क्मासो॒ अधि᳚ बा॒हुषु᳚ ।
दवि᳚द्युतत्यृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । अ॒ञ्जि । ए॒षा॒म् । वि । भ्रा॒ज॒न्ते॒ । रु॒क्मासः᳚ । अधि᳚ । बा॒हुषु᳚ ।
दवि᳚द्युतति । ऋ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां मरुतां अञ्जि रूपाभिव्यंजकं आभरणं समानमेकविधमेव एतदेवाह रुक्मासोरुक्मादीप्यमानाः सुवर्णमयाहाराः विभ्राजंते वक्षःस्थलेषुविशे- षेण दीप्यंते तथा बाहुष्वधि अंसेषु ऋष्टयः शक्त्यादीन्यायुधानि दविद्युतति अत्यर्थं द्योतंते ॥ ११ ॥

8.20.12
त उ॒ग्रासो॒ वृष᳚ण उ॒ग्रबा᳚हवो॒ नकि᳚ष्ट॒नूषु᳚ येतिरे ।
स्थि॒रा धन्वा॒न्यायु᳚धा॒ रथे᳚षु॒ वो॑नी᳚के॒ष्वधि॒ श्रियः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । उ॒ग्रासः᳚ । वृष᳚णः । उ॒ग्र॑बा᳚हवः । नकिः᳚ । त॒नूषु᳚ । ये॒ति॒रे॒ ।
स्थि॒रा । धन्वा᳚नि । आयु᳚धा । रथे᳚षु । वः॒ । अनी᳚केषु । अधि᳚ । श्रियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उग्रासउद्रूर्णाः सर्वकार्येषूद्यताः वृषणोवर्षितारः उग्रबाहवः उद्रूर्णबाहुकास्ते मरुतः तनूष्वात्मीयेषु शरीरेषु नकिर्येतिरे रक्षणाय नप्रयतन्ते । नहि कश्चित्तेषां शरीराणि बाधितुं श्क्रोति येन यत्नः क्रियेत । परोर्धर्चः प्रत्यक्षकृतः हे मरुतः वोयुष्माकं रथेषु धन्वानि धनूंषि आयुधान्यायोधनानि बा- णादीनिच स्थिरा स्थिराणि दृढतराणि सन्ति अतएव कारणात् अनीकेष्वधि सेनामुखेषु श्रियः जयसंपदोयुष्माकं भवन्ति ॥ १२ ॥

8.20.13
येषा॒मर्णो॒ न स॒प्रथो॒ नाम᳚ त्वे॒षं शश्व᳚ता॒मेक॒मिद्भु॒जे ।
वयो॒ न पित्र्यं॒ सहः᳚ ॥
▶ पदपाठः (Word-by-word)
येषा᳚म् । अर्णः᳚ । न । स॒॑प्रथः᳚ । नाम᳚ । त्वे॒षम् । शश्व᳚ताम् । एक᳚म् । इत् । भु॒जे ।
वयः᳚ । न । पित्र्य᳚म् । सहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्णोन उदकमिव सप्रथः सर्वतः पृथु विस्तीर्णं त्वेषं दीप्तं शश्वतां बहूनां एषां मरुतामीदृशं नाम मरुतइतिनामधेयं एकंइत् एकं एवासहायमेव सत् भुजे स्तोतृणां भोगाय भवति । तत्र दृष्टान्तः-सहः प्रसहनशीलं पित्र्यं पितुरागतं वयोन अन्नमिव यथा तद्विस्रंभेण भोगाय भवति तथेत्यर्थः तानि- त्युत्तरत्रैकवाक्यता ॥ १३ ॥

8.20.14 समानपद
तान्व᳚न्दस्व म॒रुत॒स्ता{4} उप᳚ स्तुहि॒ तेषां॒ हि धुनी᳚नाम् ।
अ॒राणां॒ न च᳚र॒मस्तदे᳚षां दा॒ना म॒ह्ना तदे᳚षाम् ॥
▶ पदपाठः (Word-by-word)
तान् । व॒न्द॒स्व॒ । म॒रुतः᳚ । तान् । उप᳚ । स्तु॒हि॒ । तेषा᳚म् । हि । धुनी᳚नाम् ।
अ॒राणा᳚म् । न । च॒र॒मः । तत् । ए॒षा॒म् । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अन्तरात्मन् तान्पूर्वोक्तगुणान् मरुतः वन्दस्व प्रणतानेवोपेत्य स्तुहि । हि यस्मात् धुनीनां कंपयितृणां तेषां मरुतां वयं शेषभूताः स्म अराणां न अर्याणां स्वामिनां यथा चरमः हीनः सेवकः शेषभूतः तद्वत् । तत्तस्मादेषां मरुतां दाना दानानि मह्ना महत्त्वेन युक्तानि अस्माकं भवन्ति तदेषामितिद्विरुक्तिरादरार्था पदपूरणार्था वा ॥ १४ ॥

8.20.15
सु॒भग॒ः स व᳚ ऊ॒तिष्वास॒ पूर्वा᳚सु मरुतो॒ व्यु᳚ष्टिषु ।
यो वा᳚ नू॒नमु॒तास᳚ति ॥
▶ पदपाठः (Word-by-word)
सु॒॑भगः᳚ । सः । वः॒ । ऊ॒तिषु᳚ । आस᳚ । पूर्वा᳚सु । म॒रु॒तः॒ । वि॑उ᳚ष्टिषु ।
यः । वा॒ । नू॒नम् । उ॒त । अस᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्माकं ऊतिषु रक्षासु सतीषु सस्तोता सुभगआस शोभनधनोभवति अस्तेश्छान्दसोभूभावाभावः । यद्वा सुभगःआस दीप्यते । असग- तिदीप्त्यादानेषु । कदेति चेदुच्यते-पूर्वासुव्युष्टिषुपूर्वेषु अतीतेषु विवासितेषु दिवसेषु । यद्वा पूर्वासु आगामिनीषु व्युष्टिषु उषःसु उषःकालोपलक्षिते- षु दिवसेषु । उतापिच योमनुष्यः स्तोता यष्टावा नूनमवश्यं असति युष्माकं भवति अस्तेश्छान्दसःशपोलुगभावः ससुभगइत्यन्वयः ॥ १५ ॥

8.20.16
यस्य᳚ वा यू॒यं प्रति᳚ वा॒जिनो᳚ नर॒ आ ह॒व्या वी॒तये᳚ ग॒थ ।
अ॒भि ष द्यु॒म्नैरु॒त वाज᳚सातिभिः सु॒म्ना वो᳚ धूतयो नशत् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । वा॒ । यू॒यम् । प्रति᳚ । वा॒जिनः᳚ । न॒रः॒ । आ । ह॒व्या । वी॒तये᳚ । ग॒थ ।
अ॒भि । सः । द्यु॒म्नैः । उ॒त । वाज᳚साति॑भिः । सु॒म्ना । वः॒ । धू॒त॒यः॒ । न॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरोनेतारोमरुतोयूयं यस्यवा यस्यच वाजिनोहविष्मतोयजमानस्य हव्या हव्यानि हवींषि प्रतिवीतये भक्षणाय आगथ आगच्छथ । सयजमा- नः हे धूतयः कंपयितारोमरुतः द्युम्नैर्धोतमानैरन्नैर्यशोभिर्वा उतापिच वाजसातिभिः वाजानां संभजनैश्च वोयुष्माकं संबंधीनि सुम्ना सुम्नानि सुखा- नि अभिनशत् अभितोव्याप्नोति ॥ १६ ॥

8.20.17
यथा᳚ रु॒द्रस्य᳚ सू॒नवो᳚ दि॒वो वश॒न्त्यसु᳚रस्य वे॒धसः᳚ ।
युवा᳚न॒स्तथेद᳚सत् ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । रु॒द्रस्य᳚ । सू॒नवः᳚ । दि॒वः । वश᳚न्ति । असु᳚रस्य । वे॒धसः᳚ ।
युवा᳚नः । तथा᳚ । इत् । अ॒स॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रुद्रस्य दुःखद्रावयितुरीश्वरस्य सूनवः पुत्राः असुरस्य उदकानां क्षेप्तुर्मेघस्य वेधसोविधातारः यद्वा असवः प्राणाः तान् रातिददातीत्यसुरं वृष्टिजलं तस्य कर्तारः युवानोनित्यतरुणाईदृशामरुतः दिवोन्तरिक्षादागत्य यथा येनप्रकारेण वशन्ति अस्मान्कामयन्ते तथेत् तथैव तेन प्रकारेण असत् इदं स्तोत्रं भवतु । वष्टेः छान्दसः शपोलुगभावः ॥ १७ ॥

8.20.18
ये चार्ह᳚न्ति म॒रुतः᳚ सु॒दान᳚व॒ः स्मन्मी॒ळ्हुष॒श्चर᳚न्ति॒ ये ।
अत᳚श्चि॒दा न॒ उप॒ वस्य᳚सा हृ॒दा युवा᳚न॒ आ व᳚वृध्वम् ॥
▶ पदपाठः (Word-by-word)
ये । च॒ । अर्ह᳚न्ति । म॒रुतः᳚ । सु॒॑दान᳚वः । स्मत् । मी॒ळ्हुषः᳚ । चर᳚न्ति । ये ।
अतः᳚ । चि॒त् । आ । नः॒ । उप᳚ । वस्य᳚सा । हृ॒दा । युवा᳚नः । आ । व॒वृ॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुदानवः शोभनदानाः येच यजमानाः मरुतोदेवानर्हन्ति पूजयन्ति येच मीह्ळुषः सेक्तृन् मरुतः स्मत् प्रशस्तं चरंति हविर्भिः प्रचरन्ति यजन्ति । यतएवं अतश्चित् अतोपिकारणात्तानुभयविधान्नोस्मान् आ अभिलक्ष्य वस्यसा वसीयसा वसुमत्तमेन हृदा हृदयेन हे युवानोमरुतः उपाववृध्वम् उपेत्याभिसंभजत ॥ १८ ॥

8.20.19
यून᳚ ऊ॒ षु नवि᳚ष्ठया॒ वृष्ण᳚ः पाव॒का{4} अ॒भि सो᳚भरे गि॒रा ।
गाय॒ गा इ᳚व॒ चर्कृ᳚षत् ॥
▶ पदपाठः (Word-by-word)
यूनः᳚ । ऊं॒ इति᳚ । सु । नवि᳚ष्ठया । वृष्णः᳚ । पा॒व॒कान् । अ॒भि । सो॒भ॒रे॒ । गि॒रा ।
गाय᳚ । गाः॑इ᳚व । चर्कृ᳚षत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोभरे यूनोनित्यतरुणान् वृष्णोवर्षिष्ठान्पावकान् तान्मरुतः नविष्ठया अतिशयेनाभिनवया गिरा वाचा स्तुतिरूपया सु शोभनं अभिगाय अभि- ष्टुहि । चर्कृषत् पुनःपुनः कृषन् कृषीवलोगाइव सयथा युनः शक्ताननडुहः स्तौति तद्वत् ॥ १९ ॥

8.20.20 समानपद
सा॒हा ये सन्ति᳚ मुष्टि॒हेव॒ हव्यो॒ विश्वा᳚सु पृ॒त्सु होतृ᳚षु ।
वृष्ण᳚श्च॒न्द्रान्न सु॒श्रव᳚स्तमान्गि॒रा वन्द᳚स्व म॒रुतो॒ अह᳚ ॥
▶ पदपाठः (Word-by-word)
स॒हाः । ये । सन्ति᳚ । मु॒ष्टि॒हा॑इ᳚व । हव्यः᳚ । विश्वा᳚सु । पृ॒त्॑सु । होतृ᳚षु ।
वृष्णः᳚ । च॒न्द्रान् । न । सु॒श्रवः᳚॑तमान् । गि॒रा । वन्द᳚स्व । म॒रुतः᳚ । अह᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वासु सर्वासु पृत्सु पृतनासु युद्धेषु होतृषु आह्वानशीलेषु योद्धृषु च ये मरुतः सहाः सन्ति अभिभवितारोभवन्ति हव्योह्वातव्योमुष्टिहेव मुष्टि- भिः एव हन्तीति मुष्टिहा मल्लः सइव नेतिसम्प्रत्यर्थे न सम्प्रति वृष्णोवर्षितृन् चन्द्रानाह्लादकान् सुश्रवस्तमान् अतिशयेन शोभनयशस्कान् ता- न्मरुतःअह मरुतएव गिरा वाचा वन्दस्व स्तुहि ॥ २० ॥

8.20.21
गाव᳚श्चिद्घा समन्यवः सजा॒त्ये᳚न मरुत॒ः सब᳚न्धवः ।
रि॒ह॒ते क॒कुभो᳚ मि॒थः ॥
▶ पदपाठः (Word-by-word)
गावः᳚ । चि॒त् । घ॒ । स॒॑म॒न्य॒वः॒ । स॒॑जा॒त्ये᳚न । म॒रु॒तः॒ । स॑ब᳚न्धवः ।
रि॒ह॒ते । क॒कुभः᳚ । मि॒थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे समन्यवः समानतेजस्काः समानक्रोधावा हे मरुतः गावश्चित् गावश्च युष्मन्मातृभूताः सांगत्येन समानजातित्वेन सबंधवः समानबंधुकाः सत्यः ककुभोदिशः प्राच्यादिदिग्भागान् प्राप्य मिथः परस्परं रिहते लिहन्ति घेतिपूरकः ॥ २१ ॥

8.20.22
मर्त᳚श्चिद्वो नृतवो रुक्मवक्षस॒ उप᳚ भ्रातृ॒त्वमाय᳚ति ।
अधि᳚ नो गात मरुत॒ः सदा॒ हि व᳚ आपि॒त्वमस्ति॒ निध्रु᳚वि ॥
▶ पदपाठः (Word-by-word)
मर्तः᳚ । चि॒त् । वः॒ । नृ॒त॒वः॒ । रु॒क्म॒॑व॒क्ष॒सः॒ । उप᳚ । भ्रा॒तृ॒॑त्वम् । आ । अ॒य॒ति॒ ।
अधि᳚ । नः॒ । गा॒त॒ । म॒रु॒तः॒ । सदा᳚ । हि । वः॒ । आ॒पि॒॑त्वम् । अस्ति᳚ । नि॑ध्रु᳚वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृतवोनृत्यंतः हे रुक्मवक्षसः रोचमानाभरणं रुक्मं वक्षसि येषां ते तथोक्ताः ईदृशा हे मरुतः मर्तश्चित् मनुष्योपि स्तोता वोयुष्माकं भ्रातृत्वं स- खित्वं आभिमुख्येन उपायत्युपगच्छति अतोनोस्मान् मनुष्यानूस्तोतृन् अधिगात अधिब्रूत अस्मत्पक्षपातवचनाभवत । हि यस्मात् वोयुष्माकंआपि- त्वं बन्धुत्वं निध्रुवि नितरां धारयितव्ये स्तोत्रे यज्ञेवा सदा सर्वदा अस्ति विद्यते तस्मादित्यर्थः ॥ २२ ॥

8.20.23
मरु᳚तो॒ मारु᳚तस्य न॒ आ भे᳚ष॒जस्य᳚ वहता सुदानवः ।
यू॒यं स᳚खायः सप्तयः ॥
▶ पदपाठः (Word-by-word)
मरु᳚तः । मारु᳚तस्य । नः॒ । आ । भे॒ष॒जस्य᳚ । व॒ह॒त॒ । सु॒॑दा॒न॒वः॒ ।
यू॒यम् । स॒खा॒यः॒ । स॒प्त॒यः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदानवः शोभनदानाः हे सखायः समानख्यानाः हे सप्तयः सर्पणशीलामरुतः नोस्माकं मारुतस्यभेषजस्य मरुत्संवंधि भेषजं औषधं यूयं आव- हत आनयत ॥ २३ ॥

8.20.24
याभि॒ः सिन्धु॒मव᳚थ॒ याभि॒स्तूर्व᳚थ॒ याभि᳚र्दश॒स्यथा॒ क्रिवि᳚म् ।
मयो᳚ नो भूतो॒तिभि᳚र्मयोभुवः शि॒वाभि᳚रसचद्विषः ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । सिन्धु᳚म् । अव᳚थ । याभिः᳚ । तूर्व᳚थ । याभिः᳚ । द॒श॒स्यथ᳚ । क्रिवि᳚म् ।
मयः᳚ । नः॒ । भू॒त॒ । ऊ॒ति॑भिः᳚ । म॒यः॒॑भु॒वः॒ । शि॒वाभिः᳚ । अ॒स॒च॒॑द्वि॒षः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः याभिरूतिभिः सिन्धुं समुद्रमवथ रक्षथ याभिश्च तूर्वथ स्तोतृणां शत्रून् हिंस्थ तुर्वी हिंसार्थः याभिश्च क्रिविं कूपं तृष्णजे गोतमाय दश- स्यथ प्रयच्छथ हे मयोभुवः मयसःसुखस्य भावयितारः असचद्विषः अशक्तशत्रवः शत्रुरहिताः शिवाभिःकल्याणीभिः स्तोत्राभिः सर्वाभिरूतिभीर- क्षाभिः नोस्माकं मयः सुखं भूत भावयत उत्पादयत । यद्वा भ् प्राप्तौ प्रापयत ॥ २४ ॥

8.20.25
यत्सिन्धौ॒ यदसि᳚क्न्यां॒ यत्स᳚मु॒द्रेषु᳚ मरुतः सुबर्हिषः ।
यत्पर्व᳚तेषु भेष॒जम् ॥
▶ पदपाठः (Word-by-word)
यत् । सिन्धौ᳚ । यत् । असि᳚क्न्याम् । यत् । स॒मु॒द्रेषु᳚ । म॒रु॒तः॒ । सु॒॑ब॒र्हि॒षः॒ ।
यत् । पर्व᳚तेषु । भे॒ष॒जम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुबर्हिषः शोभनयज्ञामरुतः सिंधौ एतत्संज्ञे स्पंदनशीले नदे यद्धेषजं अस्ति यञ्जासिक्न्यां यञ्ज पर्वतेषु भेषजं विद्यते तत्सर्वं भेषजं पश्यन्तइति उत्तरयैकवाक्यता ॥ २५ ॥

8.20.26
विश्वं॒ पश्य᳚न्तो बिभृथा त॒नूष्वा तेना᳚ नो॒ अधि᳚ वोचत ।
क्ष॒मा रपो᳚ मरुत॒ आतु᳚रस्य न॒ इष्क᳚र्ता॒ विह्रु᳚तं॒ पुनः᳚ ॥
▶ पदपाठः (Word-by-word)
विश्व᳚म् । पश्य᳚न्तः । बि॒भृ॒थ । त॒नूषु᳚ । आ । तेन᳚ । नः॒ । अधि᳚ । वो॒च॒त॒ ।
क्ष॒मा । रपः᳚ । म॒रु॒तः॒ । आतु᳚रस्य । नः॒ । इष्क᳚र्त । वि॑ह्रु᳚तम् । पुन॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वं सर्वं पूर्वोक्तं भेषजं पश्यंतोजानन्तोयूयं तनूष्टु अस्मदीयेषु विषयेषु आबिभृथ आहरथ आहृतेनच नोस्मानधिवोचत अधिब्रूत चिकित्सतेत्य- र्थः । अपिच हे मरुतः नोस्माकं मध्ये आतुरस्य रोगिणः रपः पापनामैतत् रपसः पापफलस्य रोगस्य क्षमा क्षान्तिर्यथा भवति तथा विह्रुतं विबा- धितं अंगं पुनरिष्कर्त निःशेषेण संपूर्णं कुरुत । निसोनलोपश्छान्दसः । करोतेर्लोटि छान्दसोविकरणस्यलुक् तप्तनप्तनथनाश्चेति तशब्दस्य तबादेशः अतएव उपसर्गसमुदायोनावगृत्द्यते ॥ २६ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येणविरचिते माधवीये वेदार्थप्रकाशे ऋक्सं- हिताभाष्ये षष्ठाष्टके प्रथमोध्यायः समाप्तः ॥ १ ॥