श्रवणम्

8.20.14 समानपद
तान्व᳚न्दस्व म॒रुत॒स्ता{4} उप᳚ स्तुहि॒ तेषां॒ हि धुनी᳚नाम् ।
अ॒राणां॒ न च᳚र॒मस्तदे᳚षां दा॒ना म॒ह्ना तदे᳚षाम् ॥
▶ पदपाठः (Word-by-word)
तान् । व॒न्द॒स्व॒ । म॒रुतः᳚ । तान् । उप᳚ । स्तु॒हि॒ । तेषा᳚म् । हि । धुनी᳚नाम् ।
अ॒राणा᳚म् । न । च॒र॒मः । तत् । ए॒षा॒म् । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अन्तरात्मन् तान्पूर्वोक्तगुणान् मरुतः वन्दस्व प्रणतानेवोपेत्य स्तुहि । हि यस्मात् धुनीनां कंपयितृणां तेषां मरुतां वयं शेषभूताः स्म अराणां न अर्याणां स्वामिनां यथा चरमः हीनः सेवकः शेषभूतः तद्वत् । तत्तस्मादेषां मरुतां दाना दानानि मह्ना महत्त्वेन युक्तानि अस्माकं भवन्ति तदेषामितिद्विरुक्तिरादरार्था पदपूरणार्था वा ॥ १४ ॥