विश्वे॒ यं दे॒वा उ॒त मर्त्या᳚सो॒ मधु᳚ ब्रु॒वन्तो᳚ अ॒भि सं॒चर᳚न्ति ॥
पदपाठः (Word-by-word)
विश्वे᳚ । यम् । दे॒वाः । उ॒त । मर्त्या᳚सः । मधु᳚ । ब्रु॒वन्तः᳚ । अ॒भि । स॒म्॑चर᳚न्ति ॥
सायणभाष्यम् (Sayana Commentary)
अहं प्रगाथः सुमेधाः शोभनप्रज्ञः स्वाध्यः स्वाध्ययनः सुकर्मा वरिवोवित्तरस्य अतिशयेन पूजां लभमानस्य स्वादोः सुष्ठु अदनीयस्य स्वादुभूतस्य वयसोन्नस्य एताः कर्मणिषष्ठ्यः उक्तलक्षणं वयोन्नं सोमाख्यं आभक्षि भक्षयेय । यं यदन्नं विश्वेदेवाः सर्वेपीन्द्रादयः उतापिच मर्त्यासोमर्त्या मनुष्या मधुब्रुवन्तः मनोहरमेतदिति शब्दायन्तोभिसञ्चरन्ति अभिसंगच्छन्ते प्राप्नुवन्ति तदन्नमभक्षीति ॥ १ ॥ अग्नीषोमप्रणयनेन्तश्चेत्येषा । तथाचसूत्रितम्-अन्तश्चप्रागाअदितिर्भवासि श्येनोनयोनिंसदनं धियाकृतमिति ।