त्वं सो᳚म पि॒तृभि᳚ः संविदा॒नो॑नु॒ द्यावा᳚पृथि॒वी आ त᳚तन्थ ।
तस्मै᳚ त इन्दो ह॒विषा᳚ विधेम व॒यं स्या᳚म॒ पत᳚यो रयी॒णाम् ॥
तस्मै᳚ त इन्दो ह॒विषा᳚ विधेम व॒यं स्या᳚म॒ पत᳚यो रयी॒णाम् ॥
पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । पि॒तृ॑भिः᳚ । स॒म्॑वि॒दा॒नः । अनु᳚ । द्यावा᳚पृथि॒वी इति᳚ । आ । त॒त॒न्थ॒ ।
तस्मै᳚ । ते॒ । इ॒न्दो॒ इति᳚ । ह॒विषा᳚ । वि॒धे॒म॒ । व॒यम् । स्या॒म॒ । पत᳚यः । र॒यी॒णाम् ॥
तस्मै᳚ । ते॒ । इ॒न्दो॒ इति᳚ । ह॒विषा᳚ । वि॒धे॒म॒ । व॒यम् । स्या॒म॒ । पत᳚यः । र॒यी॒णाम् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वं पितृभिः सह संविदानः संगच्छमानो द्यावापृथिवी द्यावापृथिव्यौ अन्वाततन्थ क्रमेण विस्तारयसि । हे इन्द्रो सोम तस्मै ते तुभ्यं हवि- षा विधेम परिचरेम वयं रयीणां धनानां पतयः स्याम भवेम ॥ १३ ॥