श्रवणम्

8.48.15 समानपद
त्वं नः᳚ सोम वि॒श्वतो᳚ वयो॒धास्त्वं स्व॒र्विदा वि᳚शा नृ॒चक्षा᳚ः ।
त्वं न᳚ इन्द ऊ॒तिभि᳚ः स॒जोषा᳚ः पा॒हि प॒श्चाता᳚दु॒त वा᳚ पु॒रस्ता᳚त् ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः᳚ । व॒यः॒॑धाः । त्वम् । स्वः॒॑वित् । आ । वि॒श॒ । नृ॒॑चक्षाः᳚ ।
त्वम् । नः॒ । इ॒न्दो॒ इति᳚ । ऊ॒ति॑भिः᳚ । स॒॑जोषाः᳚ । पा॒हि । प॒श्चाता᳚त् । उ॒त । वा॒ । पु॒रस्ता᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नोस्माकं विश्वतः सर्वाभ्योदिग्भ्यो वयोधा अन्नदाता तथा त्वं स्वर्वित् स्वर्गलंभकः नृचक्षाः सर्वमनुष्यद्रष्टा त्वं आविश । हे इन्द्रो त्वं सजोषाः सहप्रीयमाणः सन् ऊतिभिः सह अथवोतयोगन्तारोमरुतः तैः सहितः सन्पश्चातात् पश्चात् उतवा पुरस्ताच्च पाहि ॥ १५ ॥

सप्तमेनुवाके दशसूक्तानि तत्राग्नआयाहीति विंशत्यृचं प्रथमं सूक्तं प्रगाथपुत्रस्य भर्गस्यार्षं आग्नेयं प्रथमातृतीयाद्ययुजोबृहत्यः द्वितीयाचतुर्थ्यादि युजः सतोबृहत्यः । तथाचानुक्रान्तम्अग्नआ विंशतिर्भर्गः प्रागाथआग्नेयं प्रागाथंत्विति । प्रातरनुवाके आग्नेयेक्रतौ बार्हतेछन्दसि आश्विनशस्त्रेचेदं सूक्तम् । तथाचसूत्रितम्-अयमग्निरग्नआयाहीति ।