श्रवणम्

8.48.12
यो न॒ इन्दु᳚ः पितरो हृ॒त्सु पी॒तो॑म᳚र्त्यो॒ मर्त्या{4}᳚ आवि॒वेश᳚ ।
तस्मै॒ सोमा᳚य ह॒विषा᳚ विधेम मृळी॒के अ᳚स्य सुम॒तौ स्या᳚म ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । इन्दुः᳚ । पि॒त॒रः॒ । हृ॒त्॑सु । पी॒तः । अम᳚र्त्यः । मर्त्या᳚न् । आ॒॑वि॒वेश᳚ ।
तस्मै᳚ । सोमा᳚य । ह॒विषा᳚ । वि॒धे॒म॒ । मृ॒ळी॒के । अ॒स्य॒ । सु॒॑म॒तौ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पितरो यइन्दुः हृत्सुपीतःसन् अमर्त्योमृतिरहितः सन्नाविवेश मर्त्यान्नोस्मान् तस्मै सोमाय हविषाविधेम परिचरेम । अस्य सोमस्य मृळीके सुखे सुमतौ चानुग्रहबुद्धौच स्याम भवेम ॥ १२ ॥ महापितृयज्ञे सोमायपितृमतेपुरोडाशमित्यत्र त्वंसोममितियाज्या सूत्रितञ्च-त्वंसोमपितृभिःसंविदानो बर्हिषदःपितरऊत्यर्वागिति । तृतीयसवने सौम्यस्यचरोरपीयमेवयाज्या । त्वंसोमपितृभिः संविदानइतिसौम्यस्येतिहिसूत्रितम् ।