श्रवणम्

8.48.1
स्वा॒दोर᳚भक्षि॒ वय᳚सः सुमे॒धाः स्वा॒ध्यो᳚ वरिवो॒वित्त᳚रस्य ।
विश्वे॒ यं दे॒वा उ॒त मर्त्या᳚सो॒ मधु᳚ ब्रु॒वन्तो᳚ अ॒भि सं॒चर᳚न्ति ॥
▶ पदपाठः (Word-by-word)
स्वा॒दोः । अ॒भ॒क्षि॒ । वय᳚सः । सु॒॑मे॒धाः । सु॒॑आ॒ध्यः᳚ । व॒रि॒वो॒वित्॑त᳚रस्य ।
विश्वे᳚ । यम् । दे॒वाः । उ॒त । मर्त्या᳚सः । मधु᳚ । ब्रु॒वन्तः᳚ । अ॒भि । स॒म्॑चर᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं प्रगाथः सुमेधाः शोभनप्रज्ञः स्वाध्यः स्वाध्ययनः सुकर्मा वरिवोवित्तरस्य अतिशयेन पूजां लभमानस्य स्वादोः सुष्ठु अदनीयस्य स्वादुभूतस्य वयसोन्नस्य एताः कर्मणिषष्ठ्यः उक्तलक्षणं वयोन्नं सोमाख्यं आभक्षि भक्षयेय । यं यदन्नं विश्वेदेवाः सर्वेपीन्द्रादयः उतापिच मर्त्यासोमर्त्या मनुष्या मधुब्रुवन्तः मनोहरमेतदिति शब्दायन्तोभिसञ्चरन्ति अभिसंगच्छन्ते प्राप्नुवन्ति तदन्नमभक्षीति ॥ १ ॥ अग्नीषोमप्रणयनेन्तश्चेत्येषा । तथाचसूत्रितम्-अन्तश्चप्रागाअदितिर्भवासि श्येनोनयोनिंसदनं धियाकृतमिति ।