श्रवणम्

8.48.7
इ॒षि॒रेण᳚ ते॒ मन᳚सा सु॒तस्य᳚ भक्षी॒महि॒ पित्र्य᳚स्येव रा॒यः ।
सोम᳚ राज॒न्प्र ण॒ आयूं᳚षि तारी॒रहा᳚नीव॒ सूर्यो᳚ वास॒राणि᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒षि॒रेण᳚ । ते॒ । मन᳚सा । सु॒तस्य᳚ । भ॒क्षी॒महि᳚ । पित्र्य᳚स्य॑इव । रा॒यः ।
सोम᳚ । रा॒ज॒न् । प्र । नः॒ । आयूं᳚षि । ता॒रीः॒ । अहा᳚नि॑इव । सूर्यः᳚ । वा॒स॒राणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इषिरेण इच्छावता मनसा सुतस्य सुतमभिषुतं ते त्वां भक्षीमहि पित्र्यस्य पितृसंबन्धिनो रायो धनस्येव धनमिव पित्र्यं धनं यथैषणेन मनसोपभु- च्चते तद्वत् भक्षीमहि । हे सोमराजन् स्वामिन् नोस्माकमायूंषि प्रतारीः प्रवर्धय वासराणि जगद्वासकानि अहानि सूर्यइव । अत्रै षणेन वैषणेन वार्ष- णेन वेत्यादिनिरुक्तं ज्ञातव्यं ॥ ७ ॥