श्रवणम्

8.48.3
अपा᳚म॒ सोम᳚म॒मृता᳚ अभू॒माग᳚न्म॒ ज्योति॒रवि᳚दाम दे॒वान् ।
किं नू॒नम॒स्मान्कृ᳚णव॒दरा᳚ति॒ः किमु᳚ धू॒र्तिर᳚मृत॒ मर्त्य᳚स्य ॥
▶ पदपाठः (Word-by-word)
अपा᳚म । सोम᳚म् । अ॒मृताः᳚ । अ॒भू॒म॒ । अग᳚न्म । ज्योतिः᳚ । अवि᳚दाम । दे॒वान् ।
किम् । नू॒नम् । अ॒स्मान् । कृ॒ण॒व॒त् । अरा᳚तिः । किम् । ऊं॒ इति᳚ । धू॒र्तिः । अ॒मृ॒त॒ । मर्त्य᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमृत अमरण सोम त्वामपाम पानं करवाम कुर्मः । ततः अमृताअभूम भवेम । यस्मात्त्वममृतः अतस्तवपानाद्वयमप्यमृताः स्याम । पश्चात् ज्योतिः द्योतमानं स्वर्गमगन्म अविदाम ज्ञातवन्तो देवान्वयम् । तथाभूतानस्मान्नुनमिदानीं अरातिः शत्रुः किं कृणवत् कुर्यात् किमु किंवा मर्त्य- स्येदानीं मनुष्यभूतस्य मम धूर्तिर्हिंसकः किं कृणवत् कुर्यात् ॥ ३ ॥