श्रवणम्

8.48.2 समानपद
अ॒न्तश्च॒ प्रागा॒ अदि᳚तिर्भवास्यवया॒ता हर᳚सो॒ दैव्य᳚स्य ।
इन्द॒विन्द्र᳚स्य स॒ख्यं जु᳚षा॒णः श्रौष्टी᳚व॒ धुर॒मनु᳚ रा॒य ऋ᳚ध्याः ॥
▶ पदपाठः (Word-by-word)
अ॒न्तरिति᳚ । च॒ । प्र । अगाः᳚ । अदि᳚तिः । भ॒वा॒सि॒ । अ॒व॒॑या॒ता । हर᳚सः । दैव्य᳚स्य ।
इन्दो॒ इति᳚ । इन्द्र᳚स्य । स॒ख्यम् । जु॒षा॒णः । श्रौष्टी᳚॑इव । धुर᳚म् । अनु᳚ । रा॒ये । ऋ॒ध्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं अन्तश्च प्रागाः हृदयस्य यागागारस्य वान्तर्गच्छसि गत्वाचादितिः अदीनस्त्वं दैव्यस्य हरसः क्रोधस्यावयाता पृथक्कर्ता भवासि भवसि । हरइति क्रोधनाम हे इन्द्रो सोम त्वं इन्द्रस्य सख्यं जुषाणः सेवमानः श्रौष्टीश्रुष्टीति क्षिप्रनाम तत्संबन्धी श्रौष्टी क्षिप्रगाम्यश्वोधुरमिव रायेस्माकं धनलाभाय अनुऋध्याः अनुगच्छसि । अथवाश्वोयथा धुरं वृत्वाभिमतदेशं प्रापयति तद्वदस्मान्प्रापय अनुपूर्वोरुधिर्गत्यर्थः ॥ २ ॥ अपामसोममित्यादिके द्वे सोमपानोत्तरकालीनास्याभिमर्शने हृदयाभिमर्शनेच क्रमेणविनियुक्ते । तथाचसूत्रितम्-अपामसोमममृताअभूम शंनो- भवहृदाआपीतइन्द्रविति मुखहृदये अभिमृशेरन्निति ।