त्राता᳚रो देवा॒ अधि᳚ वोचता नो॒ मा नो᳚ नि॒द्रा ई᳚शत॒ मोत जल्पि᳚ः ।
व॒यं सोम᳚स्य वि॒श्वह᳚ प्रि॒यासः᳚ सु॒वीरा᳚सो वि॒दथ॒मा व᳚देम ॥
व॒यं सोम᳚स्य वि॒श्वह᳚ प्रि॒यासः᳚ सु॒वीरा᳚सो वि॒दथ॒मा व᳚देम ॥
पदपाठः (Word-by-word)
त्राता᳚रः । दे॒वाः॒ । अधि᳚ । वो॒च॒त॒ । नः॒ । मा । नः॒ । नि॒॑द्रा । ई॒श॒त॒ । मा । उ॒त । जल्पिः᳚ ।
व॒यम् । सोम᳚स्य । वि॒श्वह᳚ । प्रि॒यासः᳚ । सु॒॑वीरा᳚सः । वि॒दथ᳚म् । आ । व॒दे॒म॒ ॥
व॒यम् । सोम᳚स्य । वि॒श्वह᳚ । प्रि॒यासः᳚ । सु॒॑वीरा᳚सः । वि॒दथ᳚म् । आ । व॒दे॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे त्रातारो रक्षितारो हे देवाः नोस्मानधिवोचत अधिवचनं कुरुत । किञ्च नोस्मान्निद्रा स्वप्नाः मेशत ईश्वरामाभूवन् बाधितुम् । उतापिच जल्पिः निन्दकोस्मान्मानिन्दतु । वयं सोमस्य प्रियासः प्रियाः स्याम । विश्वह सर्वेष्वहःसु सर्वदेत्यर्थः सुवीरासः शोभनपुत्राः सन्तोविदथं स्तोत्रमावदेम आभिमुख्येन वदेम । अथवा सुपुत्राविदथं गृहमावदेम । आवदनं पुत्रपौत्राणां धनेनोपच्छन्दनम् ॥ १४ ॥ त्वंनःसोमविश्वतइति सौम्येपशौ हविषोनुवाक्या । सूत्रितञ्च-त्वंनःसोमविश्वतोवयोधायातेधामानिदिवियापृथिव्यामिति ।