अप॒ त्या अ᳚स्थु॒रनि᳚रा॒ अमी᳚वा॒ निर᳚त्रस॒न्तमि᳚षीची॒रभै᳚षुः ।
आ सोमो᳚ अ॒स्मा{4} अ᳚रुह॒द्विहा᳚या॒ अग᳚न्म॒ यत्र᳚ प्रति॒रन्त॒ आयु᳚ः ॥
आ सोमो᳚ अ॒स्मा{4} अ᳚रुह॒द्विहा᳚या॒ अग᳚न्म॒ यत्र᳚ प्रति॒रन्त॒ आयु᳚ः ॥
पदपाठः (Word-by-word)
अप᳚ । त्याः । अ॒स्थुः॒ । अनि᳚राः । अमी᳚वाः । निः । अ॒त्र॒स॒न् । तमि᳚षीचीः । अभै᳚षुः ।
आ । सोमः᳚ । अ॒स्मान् । अ॒रु॒ह॒त् । वि॑हा᳚याः । अग᳚न्म । यत्र᳚ । प्र॒॑ति॒रन्ते᳚ । आयुः᳚ ॥
आ । सोमः᳚ । अ॒स्मान् । अ॒रु॒ह॒त् । वि॑हा᳚याः । अग᳚न्म । यत्र᳚ । प्र॒॑ति॒रन्ते᳚ । आयुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
त्यास्ता अनिराः प्रेरयितुमशक्याः अमीवाः बलवत्यः पीडाः अपास्थुः अपगच्छन्तु यास्तमिषीचीर्बलवत्योस्मान् निः नितरामत्रसन् प्राप्नुवन् कंपयं- ति तथा अभैषुः । अपगमे कारणमाह-यस्मात्सोमोविहायामहान् सन् अस्माना अरुहत् आगमत् प्राप्तवान् अतोपास्थुरितिभावः । यत्र यस्मिन् सोमे पीते आयुरायुष्यं प्रतिरन्ते वर्धयन्ति मनुष्यास्तंसोममगन्मेति ॥ ११ ॥