श्रवणम्

8.48.6
अ॒ग्निं न मा᳚ मथि॒तं सं दि᳚दीप॒ः प्र च᳚क्षय कृणु॒हि वस्य᳚सो नः ।
अथा॒ हि ते॒ मद॒ आ सो᳚म॒ मन्ये᳚ रे॒वा{4} इ᳚व॒ प्र च᳚रा पु॒ष्टिमच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । न । मा॒ । म॒थि॒तम् । सम् । दि॒दी॒पः॒ । प्र । च॒क्ष॒य॒ । कृ॒णु॒हि । वस्य᳚सः । नः॒ ।
अथ᳚ । हि । ते॒ । मदे᳚ । आ । सो॒म॒ । मन्ये᳚ । रे॒वान्॑इ᳚व । प्र । च॒र॒ । पु॒ष्टिम् । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पीतस्त्वं मा मां मथितमग्निंन अग्निमिव सन्दिदीपः सन्दीपय प्रचक्षयच चक्षुषः सन्धुक्षणेन नोस्मान् वस्यसोतिशयेन वसुमतः कृणुहि कुरु । अथाधुनाहि खलु ते त्वां हे सोम मदे मदाय मन्ये स्तौमि । तथासति रेवानिव धनवान् । इहइवेति संप्रत्यर्थे । पुष्टिमस्मत्पोषमच्छ प्रचराभिगच्छ ॥ ६ ॥