श्रवणम्

8.48.9
त्वं हि न᳚स्त॒न्व᳚ः सोम गो॒पा गात्रे᳚गात्रे निष॒सत्था᳚ नृ॒चक्षा᳚ः ।
यत्ते᳚ व॒यं प्र᳚मि॒नाम᳚ व्र॒तानि॒ स नो᳚ मृळ सुष॒खा दे᳚व॒ वस्य᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । नः॒ । त॒न्वः᳚ । सो॒म॒ । गो॒पाः । गात्रे᳚॑गात्रे । नि॒॑स॒सत्थ᳚ । नृ॒॑चक्षाः᳚ ।
यत् । ते॒ । व॒यम् । प्र॒॑मि॒नाम᳚ । व्र॒तानि᳚ । सः । नः॒ । मृ॒ळ॒ । सु॒॑स॒खा । दे॒व॒ । वस्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम देव त्वं नोस्माकं तन्वस्तनोरंगस्य गोपाहि रक्षिताखलु अतो गात्रेगात्रे सर्वेष्वंगेषु नृचक्षाः नृणां कर्मनेतॄणां द्रष्टा त्वं निषसत्थ निषीदसि । यद्यपि ते तव व्रतानि कर्माणि वयं प्रमिनाम हिंस्मः तथापि हे देव सत्वं वस्यः श्रेष्ठान्नोस्मान्सुषखा शोभनसखासन् मृळ सुखय ॥ ९ ॥