अष्टमं मण्डलम् - सूक्तम् 34

18 ऋचः

ऋषिः: नीपातिथिः काण्वः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 8.34 - सम्पूर्णम्

1 / 18
ऋक्: 8.34.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
8.34.1
एन्द्र᳚ याहि॒ हरि᳚भि॒रुप॒ कण्व᳚स्य सुष्टु॒तिम् ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । इ॒न्द्र॒ । या॒हि॒ । हरि᳚॑भिः । उप᳚ । कण्व᳚स्य । सु॒॑स्तु॒तिम् ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र कण्वस्य सुष्टुतिं शोभनांस्तुतिं हरिभिरश्वैरुपायाहि आगच्छ दिवोद्युलोकं द्वितीयार्थेषष्ठी अमुष्यामुष्मिन्निन्द्रे शासतः शासति विभक्तिव्यत्य- यः तत्र वयं सुखमास्महे दिवावसो दीप्तहविष्केन्द्र दिवं स्वर्गं यय यूयं गच्छत बहुवचनं पूजार्थम् । यद्वा हे दिवावसो दिवोद्युनामकं अमुष्यामं लोकं शासतः शासनंकुर्वन्तोयूयं दिवं स्वर्गं यय गच्छत अत्रबहुवचनं पूजार्थमित्यर्थः ॥ १ ॥

8.34.2
आ त्वा॒ ग्रावा॒ वद᳚न्नि॒ह सो॒मी घोषे᳚ण यच्छतु ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । ग्रावा᳚ । वद᳚न् । इ॒ह । सो॒मी । घोषे᳚ण । य॒च्छ॒तु॒ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वामिहयज्ञे ग्रावा सोमाभिषवपाषाणः सोमी सोमवान् वदन् शब्दंकुर्वन् घोषेण ध्वनिनासह आयच्छतु । सिद्धमन्यत् ॥ २ ॥

8.34.3
अत्रा॒ वि ने॒मिरे᳚षा॒मुरां॒ न धू᳚नुते॒ वृकः᳚ ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
अत्र᳚ । वि । ने॒मिः । ए॒षा॒म् । उरा᳚म् । न । धू॒नु॒ते॒ । वृकः᳚ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रास्मिन्यज्ञे एषामभिषवग्राव्णां नेमिः सोमलता विधूनुते विशेषेण कम्पयति उरांमेषीं वृकोन वृकइव । सिद्धमन्यत् ॥ ३ ॥

8.34.4
आ त्वा॒ कण्वा᳚ इ॒हाव᳚से॒ हव᳚न्ते॒ वाज᳚सातये ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । कण्वाः᳚ । इ॒ह । अव᳚से । हव᳚न्ते । वाज᳚॑सातये ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वामिहयज्ञे कण्वाः अवसे रक्षणाय वाजसातये अन्नस्य प्राप्त्यर्थंच आहवन्ते आभिमुख्येन ह्वयन्ति सिद्धमन्यत् ॥ ४ ॥

8.34.5
दधा᳚मि ते सु॒तानां॒ वृष्णे॒ न पू᳚र्व॒पाय्य᳚म् ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
दधा᳚मि । ते॒ । सु॒ताना᳚म् । वृष्णे᳚ । न । पू॒र्व॒॑पाय्य᳚म् ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तुभ्यं सुतानां द्वितीयार्थेषष्ठी सुतान् सोमान् दधामि प्रयच्छामि । वृष्णो न यथा वायवे पूर्वपाय्यं यज्ञमुखे पेयं प्रयच्छन्ति तद्वदहं प्रय- च्छामीत्यर्थः । सिद्धमन्यत् ॥ ५ ॥

8.34.6
स्मत्पु᳚रंधिर्न॒ आ ग᳚हि वि॒श्वतो᳚धीर्न ऊ॒तये᳚ ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
स्मत्॑पु᳚रन्धिः । नः॒ । आ । ग॒हि॒ । वि॒श्वतः᳚॑धीः । नः॒ । ऊ॒तये᳚ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स्मत् पुरन्धिः स्वर्गकुटुंबी नः अस्मान् आगहि । तथा विश्वतः धीः सर्वतोजगतोधारकः त्वं नः अस्माकं ऊतये रक्षणाय आगहि आगच्छ ॥ ६ ॥

8.34.7
आ नो᳚ याहि महेमते॒ सह᳚स्रोते॒ शता᳚मघ ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । या॒हि॒ । म॒हे॒॑म॒ते॒ । सह᳚स्र॑ऊते । शत᳚॑मघ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महेमते महाबुद्धे सहस्रोते सहस्ररक्षण शतामघ बहुधनेन्द्र त्वं नोस्मानायात्द्यागच्छ । सिद्धमन्यत् ॥ ७ ॥

8.34.8
आ त्वा॒ होता॒ मनु᳚र्हितो देव॒त्रा व᳚क्ष॒दीड्य᳚ः ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । होता᳚ । मनुः᳚॑हितः । दे॒व॒॑त्रा । व॒क्ष॒त् । ईड्यः᳚ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां देवत्रा देवानांम्ध्ये ईड्यः स्तुत्योहोता देवानामाह्वाताग्निर्मनुर्हितोमनुष्यैर्गृहेषु निहितआवक्षत् वहत् । सिद्धमन्यत् ॥ ८ ॥

8.34.9
आ त्वा᳚ मद॒च्युता॒ हरी᳚ श्ये॒नं प॒क्षेव᳚ वक्षतः ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । म॒द॒॑च्युता᳚ । हरी॒ इति᳚ । श्ये॒नम् । प॒क्षा॑इ᳚व । व॒क्ष॒तः॒ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां मदच्युता मदच्युतौ शत्रूणां मदस्य च्यावयितारौ हरी अश्वौ श्येनं श्येनाख्यं पक्षिणं पक्षेव आत्मीयपक्षाविव आवक्षतः आवह- ताम् । सिद्धमन्यत् ॥ ९ ॥

8.34.10
आ या᳚ह्य॒र्य आ परि॒ स्वाहा॒ सोम᳚स्य पी॒तये᳚ ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । अ॒र्यः । आ । परि᳚ । स्वाहा᳚ । सोम᳚स्य । पी॒तये᳚ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अर्येश्वर त्वं आ परि सर्वतः आयाह्यागच्छ पीतये तवपानार्थं सोमस्य सोमं स्वाहा स्वाहाकरोमि । सिद्धमन्यत् ॥ १० ॥

8.34.11
आ नो᳚ या॒ह्युप᳚श्रुत्यु॒क्थेषु᳚ रणया इ॒ह ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । या॒हि॒ । उप᳚॑श्रुति । उ॒क्थेषु᳚ । र॒ण॒य॒ । इ॒ह ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नोस्माकमिहयज्ञे उक्थेषु शस्त्रेषु पठ्यमानेषु उपश्रुति उपश्रुतौ समीपमायात्द्यागच्छ अस्मान् रणयच । सिद्धमन्यत् ॥ ११ ॥

8.34.12
सरू᳚पै॒रा सु नो᳚ गहि॒ सम्भृ᳚तै॒ः सम्भृ᳚ताश्वः ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
स॑रू᳚पैः । आ । सु । नः॒ । ग॒हि॒ । सम्॑भृ᳚तैः । सम्भृ᳚त॑अश्वः ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र संभृताश्वः पुष्टाश्वस्त्वं सुसंभृतैः सरूपैः समानरूपैरश्वैः नोस्मानागह्यागच्छ । सिद्धमन्यत् ॥ १२ ॥

8.34.13
आ या᳚हि॒ पर्व᳚तेभ्यः समु॒द्रस्याधि᳚ वि॒ष्टपः᳚ ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । पर्व᳚तेभ्यः । स॒मु॒द्रस्य । अधि᳚ । वि॒ष्टपः᳚ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं पर्वतेभ्यः आयाह्यागच्छ समुद्रस्यान्तरिक्षस्य विष्टपोविष्टपाच्चाध्यायाहीत्यर्थः । सिद्धमन्यत् ॥ १३ ॥

8.34.14
आ नो॒ गव्या॒न्यश्व्या᳚ स॒हस्रा᳚ शूर दर्दृहि ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । गव्या᳚नि । अश्व्या᳚ । स॒हस्रा᳚ । शू॒र॒ । द॒र्दृ॒हि॒ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूरेन्द्र त्वं नोस्मभ्यं सहस्रा सहस्राणि सहस्रसंख्यानि गव्यानि गोहितानि गोरूपाणि वा अश्व्या अश्व्यान्यश्वहितानि अश्वात्मकानिवा दर्दृह्यावि- वृणु । सिद्धमन्यत् ॥ १४ ॥

8.34.15
आ नः᳚ सहस्र॒शो भ᳚रा॒युता᳚नि श॒तानि᳚ च ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । स॒ह॒स्र॒॑शः । भ॒र॒ । अ॒युता᳚नि । श॒तानि᳚ । च॒ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोस्मभ्यं सहस्रशः सहस्रधा अयुतानि शतानिच अभीष्टानि वस्तून्याभराहर । सिद्धमन्यत् ॥ १५ ॥

8.34.16
आ यदिन्द्र᳚श्च॒ दद्व᳚हे स॒हस्रं॒ वसु᳚रोचिषः ।
ओजि᳚ष्ठ॒मश्व्यं᳚ प॒शुम् ॥
▶ पदपाठः (Word-by-word)
आ । यत् । इन्द्रः᳚ । च॒ । दद्व᳚हे॒ इति᳚ । स॒हस्र᳚म् । वसु᳚॑रोचिषः ।
ओजि᳚ष्ठम् । अश्व्य᳚म् । प॒शुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसुरोचिषो वसुदीप्तयो वयं सहस्रं सहस्रसंख्याकानामस्माकं नेता इन्द्रश्च ओजिष्ठं बलवत्तरमश्व्यमश्वात्मकं पशुंच यद्यदा आदद्वहे पारावतादादद्महे उत्तरत्रसंबन्धः ॥ १६ ॥

8.34.17
य ऋ॒ज्रा वात᳚रंहसो॑रु॒षासो᳚ रघु॒ष्यदः᳚ ।
भ्राज᳚न्ते॒ सूर्या᳚ इव ॥
▶ पदपाठः (Word-by-word)
ये । ऋ॒ज्राः । वात᳚॑रंहसः । अ॒रु॒षासः᳚ । र॒घु॒॑स्यदः᳚ ।
भ्राज᳚न्ते । सूर्याः᳚॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

तदा यऋज्रा ऋजुगामिनो वातरंहसो वायुसदृशवेगा अरूषासः आरोचमाना रघुष्यदो लघुस्यन्दमानाअश्वाःसूर्याइव-यथा सूर्यस्तथा भ्रजन्ते ॥ १७ ॥

8.34.18 समानपद
पारा᳚वतस्य रा॒तिषु᳚ द्र॒वच्च᳚क्रेष्वा॒शुषु᳚ ।
तिष्ठं॒ वन᳚स्य॒ मध्य॒ आ ॥
▶ पदपाठः (Word-by-word)
पारा᳚वतस्य । रा॒तिषु᳚ । द्र॒वत्॑च᳚क्रेषु । आ॒शुषु᳚ ।
तिष्ठ᳚म् । वन᳚स्य । मध्ये᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेष्वश्वेषु पारावतस्य रातिषु देयेषु द्रवच्चक्रेषु द्रवद्रथचक्रेष्वाशुष्वश्वेषु । तार्क्ष्यआशुरित्यश्वनामसुपाठात् । प्रतिगृहीतेषु सत्सु वनस्यमध्ये आति- ष्ठमिति वसुरोचिषाम् सहस्रंवदन्ति ॥ १८ ॥

अग्निनेन्द्रेणेति चतुर्विंशत्यृचं पञ्चमंसूक्तं श्यावाश्वस्यात्रेयस्यार्षम् । अत्रानुक्रमणिकाअग्निनाचतुर्विंशतिः श्यावाश्वआश्विनमुपरिष्टाज्ज्योतिषं पंक्तिमहाबृहती पंक्त्यन्तमिति । उपरिष्टात् ज्योतिश्छन्दः । चतुर्थपादस्याष्टाक्षरत्वात् यतोष्टकस्ततोज्योतिरिति तल्लक्षणम् । द्वाविंशीपंक्तिः त्रयोविंशीमहाबृहती चत्वारोष्टकाजागतश्च महाबृहतीत्युक्तलक्षणोपेतत्वात् । चतुर्विशीपक्तिः । अश्विनौदेवता अश्विनोर्यामे होतुरतिरिक्तोक्थ्ये अग्निनेन्द्रेणेत्येतत्सूक्तम् सूत्रितञ्च-अग्निनेन्द्रेणाभात्यग्निरिति ।