अष्टमं मण्डलम् - सूक्तम् 68

19 ऋचः

ऋषिः: प्रियमेध देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 8.68 - सम्पूर्णम्

1 / 19
ऋक्: 8.68.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (19)
8.68.1
आ त्वा॒ रथं॒ यथो॒तये᳚ सु॒म्नाय᳚ वर्तयामसि ।
तु॒वि॒कू॒र्मिमृ᳚ती॒षह॒मिन्द्र॒ शवि᳚ष्ठ॒ सत्प᳚ते ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । रथ᳚म् । यथा᳚ । ऊ॒तये᳚ । सु॒म्नाय᳚ । व॒र्त॒या॒म॒सि॒ ।
तु॒वि॒॑कू॒र्मिम् । ऋ॒ति॒॑सह᳚म् । इन्द्र᳚ । शवि᳚ष्ठ । सत्॑प᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरं ॥ १ ॥

षष्ठेचतुर्थमध्यायं श्रीमायणसुतःसुधीः । व्याख्यायसायणाचार्यः पञ्चमंव्याकरोत्यथ ॥ २ ॥

तत्रात्वारथमित्येकोनविंशर्चं नवमंसूक्तम् । अत्रेयमनुक्रमणिका-आत्वैकोना प्रियमेध आदाबनुष्टुम्मुखास्तृचाश्चत्वारोन्त्याःषळृक्षाश्वमेधयोर्दानस्तु- तिरिति । आंगिरसःप्रियमेधऋषिः । प्रधमाचतुर्थीसप्तमीदशम्योनुष्टुभः शिष्टाःपरंगायत्रमितिपरिभाषया गायत्र्यः अन्ततःषट्स्वृक्षु ऋक्षाश्वमेधयो- र्दानंस्तूयते अतस्तास्तद्देवताकाः । शिष्टाअनुक्तपरिभाषयैन्द्मः । सूक्तविनियोगोलैङ्गिकः । आद्यस्तृचो मरुत्वतीयस्यप्रतिपत् । तथाचसूत्रितम्- आत्वारथंयथोतयइदंवसोसुतमन्धइतिमरुत्वतीयस्यप्रतिपदनुचराविति । महाव्रतादिष्वपि यत्रतृचान्तरंनविधीयते तत्र सर्वत्रायमेव प्रतिपद्भवति ।

हे इन्द्र त्वा त्वां आवर्तयामसि आवर्तयामः । किमर्थं ऊतयेस्माकं रक्षणाय सुम्राय सुखायच । किमिव रथं यथा ऊतये सुखाय चावर्तयन्ति तद्वत् । कीदृशं त्वां तुविकूर्मिं बहुकर्माणं ऋतीषहं हिंसकानामभिभवितारं हे इन्द्र शविष्ठातिशयेनबलवन् हे सत्पते सतां पालक त्वामिति समन्वयः ॥ १ ॥

8.68.2
तुवि᳚शुष्म॒ तुवि᳚क्रतो॒ शची᳚वो॒ विश्व᳚या मते ।
आ प᳚प्राथ महित्व॒ना ॥
▶ पदपाठः (Word-by-word)
तुवि᳚॑शुष्म । तुवि᳚क्रतो॒ इति॒ तुवि᳚॑क्रतो । शची᳚॑वः । विश्व᳚या । म॒ते॒ ।
आ । प॒प्रा॒थ॒ । म॒हि॒॑त्व॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तुविशुष्म प्रभूतबल हे तुविक्रतो बहुकर्मन् अथवा बहुप्रज्ञ कर्मणः पृथगभिधानात् हे शचीवः बहुकर्मोपेत हे मते पूजनीयेन्द्र विश्वया विश्वव्याप्तेन महित्वना महत्त्वेन आपप्राथ आपूरितवानसि । अविशेषाद्विश्वमित्यर्थः ॥ २ ॥

8.68.3
यस्य᳚ ते महि॒ना म॒हः परि᳚ ज्मा॒यन्त᳚मी॒यतु᳚ः ।
हस्ता॒ वज्रं᳚ हिर॒ण्यय᳚म् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । म॒हि॒ना । म॒हः । परि᳚ । ज्मा॒यन्त᳚म् । ई॒यतुः᳚ ।
हस्ता᳚ । वज्र᳚म् । हि॒र॒ण्यय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महोमहतो यस्य ते तव यच्छब्दः प्रकृतपरामर्शकः प्रकृतं तूक्तमृग् द्वयं तत्रत्यतुविकूर्मिमृतीषहमित्याद्युक्तलक्षणस्य तवेत्यर्थः । महिना महत्त्वेन तव हस्ता हस्तौ ज्मायन्तं पृथिव्यां सर्वतोव्याप्नुवन्तं हिरण्ययं हिरण्मयं वज्रं परि ईयतुः परिगृह्णीतः । सर्वदास्माकं भयनिवारणायेतिभावः ॥ ३ ॥ पृष्ठ्याभिप्लवषडहयोः द्वितीयेहनि विश्वानरस्येति प्रतिपत्तृचः सूत्रितञ्च-विश्वानरस्यवस्पतिमिन्द्रइत्सोमपाएकइति मरुत्वतीयस्य प्रतिपदनु- चराविति ।

8.68.4
वि॒श्वान᳚रस्य व॒स्पति॒मना᳚नतस्य॒ शव᳚सः ।
एवै᳚श्च चर्षणी॒नामू॒ती हु᳚वे॒ रथा᳚नाम् ॥
▶ पदपाठः (Word-by-word)
वि॒श्वान᳚रस्य । वः॒ । पति᳚म् । अना᳚नतस्य । शव᳚सः ।
एवैः᳚ । च॒ । च॒र्ष॒णी॒नाम् । ऊ॒ती । हु॒वे॒ । रथा᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वानरस्य विश्वान् शत्रून् प्रत्यृतस्य अनानतस्य शत्रूणामप्रह्वस्य शवसो बलस्य पतिं स्वामिनमिन्द्रं वा अत्रेन्द्रसंबन्धिनो मरुतोपि संकीर्त्यन्ते हे मरुतो वो युष्माकमित्यर्थः । यद्यपि मरुत् संशब्दनंनास्ति तथापि वइति सामर्थ्याल्लभ्यते । युष्माकं चर्षणीनां सैनिकानां एवैर्गमनैः सह । यद्वा चर्षणीनां इन्द्रस्य सेनारूपाणां वोयुष्माकं गमनैरिति सामानाधिकरण्यं युष्माकं रथानांच ऊती ऊतिभिर्गमनैश्चसह हुवे आह्वयामि । गन्तृभी रथैर्गन्तृभिर्मरुद्भिश्च सहेन्द्रं हुवइत्यर्थः । यद्वा हे यजमाना युष्मदीयाः सैनिकाः सरथा यदा प्रविशन्ति युद्धाय संग्रामं तदानीं तेषां साहाय्या- येन्द्रं हुवे इत्यर्थः ॥ ४ ॥

8.68.5
अ॒भिष्ट᳚ये स॒दावृ᳚धं॒ स्व᳚र्मीळ्हेषु॒ यं नरः᳚ ।
नाना॒ हव᳚न्त ऊ॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भिष्ट᳚ये । स॒दा॑वृ᳚धम् । स्वः॒॑मीळ्हेषु । यम् । नरः᳚ ।
नाना᳚ । हव᳚न्ते । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यजमाना युष्माकं अभिष्टये साहाय्यार्थं अभिगमनाय अभिष्टये वा सदावृधं सर्वदा वर्धयन्तं सेवकान् स्वयं सर्वदा वर्धमानं वा हुवइतिशेषः । यं स्वर्मीह्ळेषु संग्रामेषु नरोनेतारो मनुष्याः नाना बहुप्रकारं हवन्ते आह्वयन्ति ऊतये रक्षार्थं तं हुवइतिशेषः ॥ ५ ॥

8.68.6
प॒रोमा᳚त्र॒मृची᳚षम॒मिन्द्र᳚मु॒ग्रं सु॒राध᳚सम् ।
ईशा᳚नं चि॒द्वसू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
प॒रः॑मा᳚त्रम् । ऋची᳚षमम् । इन्द्र᳚म् । उ॒ग्रम् । सु॒॑राध᳚सम् ।
ईशा᳚नम् । चि॒त् । वसू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

परोमात्रं परामात्रा यस्य तादृशं अथवा मीयतइति मात्रं दूरदेशः ततः परस्ताद्वर्तमानं अपरिमितस्वरूपं तथापि ऋचीषमं ऋचा स्तुत्या समं यद्यप्यपरिच्छिन्नस्तथाप्;इ स्तुतिर्यावन्मात्रं विषयीकरोति तत्समइत्यर्थः । तदेवाह इन्द्रं परमैश्वर्ययोगत्वादिच्छानुकूलस्वरूपं उग्रमुद्रूर्णबलं सुराधसं राधइति धननाम शोभनधनं शोभनान्नं वा ईशानं चित् ईश्वरं च । केषां वसूनां अस्मभ्यं प्रदेयानां गवादिधनानां एवं महानुभावमिन्द्रं हुवइतिशेषः ॥ ६ ॥

8.68.7
तंत॒मिद्राध᳚से म॒ह इन्द्रं᳚ चोदामि पी॒तये᳚ ।
यः पू॒र्व्यामनु᳚ष्टुति॒मीशे᳚ कृष्टी॒नां नृ॒तुः ॥
▶ पदपाठः (Word-by-word)
तम्॑त᳚म् । इत् । राध᳚से । म॒हे । इन्द्र᳚म् । चो॒दा॒मि॒ । पी॒तये᳚ ।
यः । पू॒र्व्याम् । अनु᳚॑स्तुतिम् । ईशे᳚ । कृ॒ष्टी॒नाम् । नृ॒तुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तन्तमित्तमेवेन्द्रं सर्वेष्वपि यागकालेषु तमेवेन्द्रमित्यर्थः । तं प्रतिचोदामि प्रेरयामि स्तुतिं पीतये सोमपानाय । ततः कोलाभइति उच्यते-महे महते राधसे धनाय प्रभुतधनलाभार्थं योनृतुः फलस्यनेता देवः पूर्व्यां पूर्वेभवां यज्ञमुखस्थां अनुष्टुतिं अनुक्रमेण क्रियमाणां स्तुतिं कृष्टीनां मनुष्याणां ऋ- त्विजां संबधिनीं ईशे ईष्टे श्रोतुम् । तं चोदामीति संबन्धः ॥ ७ ॥

8.68.8
न यस्य᳚ ते शवसान स॒ख्यमा॒नंश॒ मर्त्य᳚ः ।
नकि॒ः शवां᳚सि ते नशत् ॥
▶ पदपाठः (Word-by-word)
न । यस्य᳚ । ते॒ । श॒व॒सा॒न॒ । स॒ख्यम् । आ॒नंश᳚ । मर्त्यः᳚ ।
नकिः᳚ । शवां᳚सि । ते॒ । न॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशवसान बलवन् इन्द्र यस्य ते तव सख्यं मर्त्यो मरणधर्मा मनुष्योनानंश नव्याप्नोति ते शवांसि बलान्यपि नकिर्नैवनशत् न व्याप्नोति ॥ ८ ॥

8.68.9
त्वोता᳚स॒स्त्वा यु॒जाप्सु सूर्ये᳚ म॒हद्धन᳚म् ।
जये᳚म पृ॒त्सु व᳚ज्रिवः ॥
▶ पदपाठः (Word-by-word)
त्वा॑ऊ᳚तासः । त्वा । यु॒जा । अ॒प्॑सु । सूर्ये᳚ । म॒हत् । धन᳚म् ।
जये᳚म । पृ॒त्॑सु । व॒ज्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वोतासस्त्वया रक्षिताः त्वा त्वया युजा सहायेनाप्सु स्नातुं सूर्यं द्रष्टुंच स्नानादिव्यवहारं कर्तुं सूर्ये उदिते सति गमनादि व्यवहारं कर्तुमित्यर्थः तदर्थं पृत्सु संग्रामेषु हे वज्रिवोवज्रवन्निन्द्र महद्धनं जयेम । शत्रून् संग्रामेजित्वा तेषां धनं लभेमेत्यर्थः ॥ ९ ॥ चतुर्थेहनि मरुत्वतीये तंत्वायज्ञेभिरितितृचः प्रतिपत् । सूत्रितञ्च-तंत्वायज्ञेभिरीमहइदंवसोसुतमन्धइति मरुत्वतीयप्रतिपदनुचराविति ।

8.68.10
तं त्वा᳚ य॒ज्ञेभि᳚रीमहे॒ तं गी॒र्भिर्गि᳚र्वणस्तम ।
इन्द्र॒ यथा᳚ चि॒दावि᳚थ॒ वाजे᳚षु पुरु॒माय्य᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । य॒ज्ञेभिः᳚ । ई॒म॒हे॒ । तम् । गीः॒॑भिः । गि॒र्व॒णः॒॑त॒म॒ ।
इन्द्र᳚ । यथा᳚ । चि॒त् । आवि᳚थ । वाजे᳚षु । पु॒रु॒॑माय्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं स्तुत्यत्वेन प्रसिद्धं त्वा त्वां यज्ञेभिर्यागसाधनैः सोमादिभिरीमहे याचामहे तमेवेन्द्रं गीर्भिः स्तुतिभिरीमहे । हे गिर्वणस्तम गीर्भिः स्तुतिभिर्व- ननीयतमेन्द्र तंत्वामिति समन्वयः । हे इन्द्र त्वं यथाचिदाविथ येनप्रकारेण ररक्षिथ मां चिदितिपूरणः । कुत्रेति उच्यते-वाजेषु संग्रामेषु कीदृशं मां पुरुमाय्यं बहुप्रज्ञं बहुस्तुतिमित्यर्थः ॥ १० ॥

8.68.11
यस्य᳚ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी᳚तिरद्रिवः ।
य॒ज्ञो वि᳚तन्त॒साय्य᳚ः ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । स्वा॒दु । स॒ख्यम् । स्वा॒द्वी । प्र॑नी᳚तिः । अ॒द्रि॒॑वः॒ ।
य॒ज्ञः । वि॒त॒न्त॒साय्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवो वज्रन्निन्द्र यस्य स्तुत्यत्वेन प्रसिद्धस्य ते तव सख्यं स्वाद्वतीवानुभवार्हम् । किञ्च ते प्रणीतिःप्रणयनं धनादीनां स्वाद्वी स्वादु सुहर्षकं तथोभे त्वद्विषयोयज्ञश्च वितन्तसाय्यो विशेषेण तननीयः ॥ ११ ॥

8.68.12
उ॒रु ण᳚स्त॒न्वे॒३॒᳚ तन᳚ उ॒रु क्षया᳚य नस्कृधि ।
उ॒रु णो᳚ यन्धि जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒रु । नः॒ । त॒न्वे᳚ । तने᳚ । उ॒रु । क्षया᳚य । नः॒ । कृ॒धि॒ ।
उ॒रु । नः॒ । य॒न्धि॒ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नोस्माकं तन्वे आत्मजाय उरु प्रभूतं कुधि कुरु । सामर्थ्यात् धनं सुखं वेति गम्यते । तथा तने तत्पुत्राय उरु कृधि । तथा क्षयाय निवासाय उरुकृधि नोस्माकं जीवसे जीवनाय यन्धि प्रयच्छाभिमतम् ॥ १२ ॥

8.68.13
उ॒रुं नृभ्य᳚ उ॒रुं गव᳚ उ॒रुं रथा᳚य॒ पन्था᳚म् ।
दे॒ववी᳚तिं मनामहे ॥
▶ पदपाठः (Word-by-word)
उ॒रुम् । नृ॑भ्यः᳚ । उ॒रुम् । गवे᳚ । उ॒रुम् । रथा᳚य । पन्था᳚म् ।
दे॒व॑वी᳚तिम् । म॒ना॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नृभ्योस्मदीयेभ्यो भृत्येभ्यः उरुं हितं मनामहे याचामहे । तथा गवे एतदुपलक्षणं गवाश्वादिकाय तथा रथाय पन्थां पन्थानं मार्गं अथवा नृप्रभृतीनां संचाराय शोभनं मार्गं मनामहे तथा देववीतिं यज्ञं मनामहे ॥ १३ ॥

8.68.14
उप᳚ मा॒ षड्द्वाद्वा॒ नर॒ः सोम᳚स्य॒ हर्ष्या᳚ ।
तिष्ठ᳚न्ति स्वादुरा॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । मा॒ । षट् । द्वा॑द्वा᳚ । नरः᳚ । सोम᳚स्य । हर्ष्या᳚ ।
तिष्ठ᳚न्ति । स्वा॒दु॒॑रा॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतदाद्याः षळृचः ऋक्षाश्वमेधयोर्दानस्तुतिरूपाः यद्यपि बृहद्देवतानुक्रमण्यां-ऋक्षाश्वमेधयोरत्र पञ्चदानप्रशंसका इत्युक्तम् । तथाप्युपमाषळित्य- स्याः राजदानस्तुतिशेषत्वादविरोधः । अनयैवाशया अनुक्रमण्यांअन्त्याः षळृचः ऋक्षाश्वमेधयोर्दानस्तुतिरित्युक्तम् । मामां प्रियमेधं यज्ञे प्रसर्पन्तः षट् एतत्संख्याका नरोनेतारो राजानः सोमस्य पीतस्य हर्ष्या हर्षेण स्वादुरातयः सुष्ठूपभोगार्हदानाः सन्तो द्वाद्वा द्वौद्वौ पितृपुत्ररूपेण युग्मौ भूत्वा मामुपतिष्ठन्ति तेषां युग्मानां नाम तूत्तरत्र स्पष्टीक्रियते ॥ १४ ॥

8.68.15
ऋ॒ज्रावि᳚न्द्रो॒त आ द᳚दे॒ हरी॒ ऋक्ष᳚स्य सू॒नवि᳚ ।
आ॒श्व॒मे॒धस्य॒ रोहि᳚ता ॥
▶ पदपाठः (Word-by-word)
ऋ॒ज्रौ । इ॒न्द्रो॒ते । आ । द॒दे॒ । हरी॒ इति᳚ । ऋक्ष᳚स्य । सू॒नवि᳚ ।
आ॒श्व॒॑मे॒धस्य᳚ । रोहि᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रोते एतन्नामके आतिथिग्वे अतिथिग्वनाम्नो राज्ञःपुत्रे । अतिथिग्वायशंबरमिति । अतिथिग्वायशंस्यमित्यादिष्वतिथिग्वः प्रसिद्धः । तत्पुत्रइन्द्रो- तः ऋज्रौ ऋजुगामिनावश्वौ आददे स्वीकृतवानस्मि । तथा ऋक्षस्य सूनवि ऋक्षनाम्नः पुत्रेन्यस्मिन्राजनि हरी हरितवर्णावश्वावाददे । तथा आश्व- मेधस्य अश्वमेधपुत्रे राजनि रोहिता रोहितवर्णावश्वौ आददे । नन्वनुक्रमण्यामुभयोरेवदानप्रशंसारूपत्वमुक्तम् । अत्र कथं त्रयाणां दानकीर्तनमिति । नैषदोषः । ऋक्षाश्वमेधपुत्र्योरेव यागेअस्यऋषेः प्रवृत्तेस्तयोरेवदानं प्रस्तुत्य इन्द्रोतस्तु स्वपित्रासह तयोर्यज्ञदिदृक्षयागत्य तयोर्दानं दृष्ट्वा स्वपि- त्राप्रेरितो दत्तवानश्वौ अतस्तद्दानं प्रासंगिकमिति । एवमृक्षाश्वमेधयोर्दानस्तुतित्वं नव्याहन्यते पितृपुत्रयोरभेदात् तयोः पक्षकर्तृत्वाच्च । इन्द्रोतदा- नस्य प्रासंगिकत्वं षळश्वानित्यत्र विस्पष्टयिष्यते ॥ १५ ॥

8.68.16
सु॒रथा{4}᳚ आतिथि॒ग्वे स्व᳚भी॒शू{4}रा॒र्क्षे ।
आ॒श्व॒मे॒धे सु॒पेश᳚सः ॥
▶ पदपाठः (Word-by-word)
सु॒॑रथा᳚न् । आ॒ति॒थि॒॑ग्वे । सु॒॑अ॒भी॒शून् । आ॒र्क्षे ।
आ॒श्व॒॑मे॒धे । सु॒॑पेश᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आतिथिग्वे इन्द्रोते सुरथान् शोभनरथोपेतानश्वान् आददे । आर्क्षे ऋक्षपुत्रे स्वभीशूनश्वानाददे आश्वमेधेश्वमेधपुत्रे सुपेशसः सुरूपान् तान् शोभ- नालंकारान् आददे ॥ १६ ॥

8.68.17
षळश्वा{4}᳚ आतिथि॒ग्व इ᳚न्द्रो॒ते व॒धूम᳚तः ।
सचा᳚ पू॒तक्र᳚तौ सनम् ॥
▶ पदपाठः (Word-by-word)
षट् । अश्वा᳚न् । आ॒ति॒थि॒॑ग्वे । इ॒न्द्रो॒ते । व॒धू॑म᳚तः ।
सचा᳚ । पू॒त॑क्र᳚तौ । स॒न॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आतिथिग्वे इन्द्रोते पूतक्रतौ शुद्धप्रज्ञे शुद्धकर्मोपेतेवा तस्मिन् वधूमतोवधूभिर्वडवाभिस्तद्वतः षळश्वान् ऋक्षाश्वमेधयोः पुत्राभ्यां दत्तेनाश्वादिधनेन सचा सह सनं लब्धवानस्मि एतत्साहित्यवचनं इन्द्रोतदानस्य प्रासंगिकत्वे लिंगम् ॥ १७ ॥

8.68.18
ऐषु᳚ चेत॒द्वृष᳚ण्वत्य॒न्तरृ॒ज्रेष्वरु᳚षी ।
स्व॒भी॒शुः कशा᳚वती ॥
▶ पदपाठः (Word-by-word)
आ । ए॒षु॒ । चे॒त॒त् । वृष᳚ण्॑वती । अ॒न्तः । ऋ॒ज्रेषु᳚ । अरु᳚षी ।
सु॒॑अ॒भी॒शुः । कशा᳚॑वती ॥
▶ सायणभाष्यम् (Sayana Commentary)

एष्वृज्रेषु ऋजुगामिष्वश्वेषु अन्तर्मध्ये आचेतत् आज्ञायते । का वृषण्वतीवर्षकैः पुमश्वै स्तद्वती । अरुषी आरोचमना स्वभीशुः शोभनप्रग्रहा कशा- वती दृप्ता वडवा ज्ञायते ॥ १८ ॥

8.68.19
न यु॒ष्मे वा᳚जबन्धवो निनि॒त्सुश्च॒न मर्त्य᳚ः ।
अ॒व॒द्यमधि᳚ दीधरत् ॥
▶ पदपाठः (Word-by-word)
न । यु॒ष्मे इति᳚ । वा॒ज॒॑ब॒न्ध॒वः॒ । नि॒नि॒त्सुः । च॒न । मर्त्यः᳚ ।
अ॒व॒द्यम् । अधि᳚ । दी॒ध॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजबन्धवः अन्नबन्धवः अन्नप्रदाः एवं पुत्राणां पितृपुत्ररूपाणां षण्णां वा संबोधनं हे राजानः युष्मे युष्मासु निनित्सुश्चन निन्दकोपि मर्त्योम- नुष्यः अवद्यं निंदा नाधिदीधरत् नान्वधारयत् नारोपयति युष्मासु । अतःअनिन्द्या यूयमिति दातॄणां स्तुतिः ॥ १९ ॥

प्रप्रवइत्यष्टादशर्चं दशमं सूक्तं प्रियमेधस्याङ्गिरमस्यार्षं द्वितीया नदंवइत्येषा चतुःसप्तकोष्णिक् चतुर्थ्याद्यास्तिस्रोगायत्र्यः एकादशीषोडश्यौ पंक्ती शिष्टादशानुष्टुभः । अपादिन्द्रइत्यर्धर्चःवैश्वदेवः वरुणइदिहेत्याद्यास्त्रयोर्धर्चा वरुणदेवताकाः । शिष्टाऎन्द्मः । तथाचानुक्रान्तम्-प्रप्रद्मूनानुष्टुभं द्विबृहत्यन्तं द्वितीयोष्णिक् चतुर्थ्याद्यास्तिस्रोगायत्र्यः षोळश्येकादश्यौपङ्क्ती अपाद्वैश्वदेवोर्धर्चस्त्रयोवारुणाइति । आद्यस्तृचः षोडशिशस्त्रे आनु- ष्टुभः सूत्रितञ्च-प्रप्रवस्त्रिष्टुभमिषमर्चतप्रार्चतेति ।