आ॒श्व॒मे॒धस्य॒ रोहि᳚ता ॥
पदपाठः (Word-by-word)
आ॒श्व॒॑मे॒धस्य᳚ । रोहि᳚ता ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रोते एतन्नामके आतिथिग्वे अतिथिग्वनाम्नो राज्ञःपुत्रे । अतिथिग्वायशंबरमिति । अतिथिग्वायशंस्यमित्यादिष्वतिथिग्वः प्रसिद्धः । तत्पुत्रइन्द्रो- तः ऋज्रौ ऋजुगामिनावश्वौ आददे स्वीकृतवानस्मि । तथा ऋक्षस्य सूनवि ऋक्षनाम्नः पुत्रेन्यस्मिन्राजनि हरी हरितवर्णावश्वावाददे । तथा आश्व- मेधस्य अश्वमेधपुत्रे राजनि रोहिता रोहितवर्णावश्वौ आददे । नन्वनुक्रमण्यामुभयोरेवदानप्रशंसारूपत्वमुक्तम् । अत्र कथं त्रयाणां दानकीर्तनमिति । नैषदोषः । ऋक्षाश्वमेधपुत्र्योरेव यागेअस्यऋषेः प्रवृत्तेस्तयोरेवदानं प्रस्तुत्य इन्द्रोतस्तु स्वपित्रासह तयोर्यज्ञदिदृक्षयागत्य तयोर्दानं दृष्ट्वा स्वपि- त्राप्रेरितो दत्तवानश्वौ अतस्तद्दानं प्रासंगिकमिति । एवमृक्षाश्वमेधयोर्दानस्तुतित्वं नव्याहन्यते पितृपुत्रयोरभेदात् तयोः पक्षकर्तृत्वाच्च । इन्द्रोतदा- नस्य प्रासंगिकत्वं षळश्वानित्यत्र विस्पष्टयिष्यते ॥ १५ ॥