प॒रोमा᳚त्र॒मृची᳚षम॒मिन्द्र᳚मु॒ग्रं सु॒राध᳚सम् ।
ईशा᳚नं चि॒द्वसू᳚नाम् ॥
ईशा᳚नं चि॒द्वसू᳚नाम् ॥
पदपाठः (Word-by-word)
प॒रः॑मा᳚त्रम् । ऋची᳚षमम् । इन्द्र᳚म् । उ॒ग्रम् । सु॒॑राध᳚सम् ।
ईशा᳚नम् । चि॒त् । वसू᳚नाम् ॥
ईशा᳚नम् । चि॒त् । वसू᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
परोमात्रं परामात्रा यस्य तादृशं अथवा मीयतइति मात्रं दूरदेशः ततः परस्ताद्वर्तमानं अपरिमितस्वरूपं तथापि ऋचीषमं ऋचा स्तुत्या समं यद्यप्यपरिच्छिन्नस्तथाप्;इ स्तुतिर्यावन्मात्रं विषयीकरोति तत्समइत्यर्थः । तदेवाह इन्द्रं परमैश्वर्ययोगत्वादिच्छानुकूलस्वरूपं उग्रमुद्रूर्णबलं सुराधसं राधइति धननाम शोभनधनं शोभनान्नं वा ईशानं चित् ईश्वरं च । केषां वसूनां अस्मभ्यं प्रदेयानां गवादिधनानां एवं महानुभावमिन्द्रं हुवइतिशेषः ॥ ६ ॥