यस्य᳚ ते महि॒ना म॒हः परि᳚ ज्मा॒यन्त᳚मी॒यतु᳚ः ।
हस्ता॒ वज्रं᳚ हिर॒ण्यय᳚म् ॥
हस्ता॒ वज्रं᳚ हिर॒ण्यय᳚म् ॥
पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । म॒हि॒ना । म॒हः । परि᳚ । ज्मा॒यन्त᳚म् । ई॒यतुः᳚ ।
हस्ता᳚ । वज्र᳚म् । हि॒र॒ण्यय᳚म् ॥
हस्ता᳚ । वज्र᳚म् । हि॒र॒ण्यय᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
महोमहतो यस्य ते तव यच्छब्दः प्रकृतपरामर्शकः प्रकृतं तूक्तमृग् द्वयं तत्रत्यतुविकूर्मिमृतीषहमित्याद्युक्तलक्षणस्य तवेत्यर्थः । महिना महत्त्वेन तव हस्ता हस्तौ ज्मायन्तं पृथिव्यां सर्वतोव्याप्नुवन्तं हिरण्ययं हिरण्मयं वज्रं परि ईयतुः परिगृह्णीतः । सर्वदास्माकं भयनिवारणायेतिभावः ॥ ३ ॥ पृष्ठ्याभिप्लवषडहयोः द्वितीयेहनि विश्वानरस्येति प्रतिपत्तृचः सूत्रितञ्च-विश्वानरस्यवस्पतिमिन्द्रइत्सोमपाएकइति मरुत्वतीयस्य प्रतिपदनु- चराविति ।