श्रवणम्

8.68.12
उ॒रु ण᳚स्त॒न्वे॒३॒᳚ तन᳚ उ॒रु क्षया᳚य नस्कृधि ।
उ॒रु णो᳚ यन्धि जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒रु । नः॒ । त॒न्वे᳚ । तने᳚ । उ॒रु । क्षया᳚य । नः॒ । कृ॒धि॒ ।
उ॒रु । नः॒ । य॒न्धि॒ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नोस्माकं तन्वे आत्मजाय उरु प्रभूतं कुधि कुरु । सामर्थ्यात् धनं सुखं वेति गम्यते । तथा तने तत्पुत्राय उरु कृधि । तथा क्षयाय निवासाय उरुकृधि नोस्माकं जीवसे जीवनाय यन्धि प्रयच्छाभिमतम् ॥ १२ ॥