वि॒श्वान᳚रस्य व॒स्पति॒मना᳚नतस्य॒ शव᳚सः ।
एवै᳚श्च चर्षणी॒नामू॒ती हु᳚वे॒ रथा᳚नाम् ॥
एवै᳚श्च चर्षणी॒नामू॒ती हु᳚वे॒ रथा᳚नाम् ॥
पदपाठः (Word-by-word)
वि॒श्वान᳚रस्य । वः॒ । पति᳚म् । अना᳚नतस्य । शव᳚सः ।
एवैः᳚ । च॒ । च॒र्ष॒णी॒नाम् । ऊ॒ती । हु॒वे॒ । रथा᳚नाम् ॥
एवैः᳚ । च॒ । च॒र्ष॒णी॒नाम् । ऊ॒ती । हु॒वे॒ । रथा᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
विश्वानरस्य विश्वान् शत्रून् प्रत्यृतस्य अनानतस्य शत्रूणामप्रह्वस्य शवसो बलस्य पतिं स्वामिनमिन्द्रं वा अत्रेन्द्रसंबन्धिनो मरुतोपि संकीर्त्यन्ते हे मरुतो वो युष्माकमित्यर्थः । यद्यपि मरुत् संशब्दनंनास्ति तथापि वइति सामर्थ्याल्लभ्यते । युष्माकं चर्षणीनां सैनिकानां एवैर्गमनैः सह । यद्वा चर्षणीनां इन्द्रस्य सेनारूपाणां वोयुष्माकं गमनैरिति सामानाधिकरण्यं युष्माकं रथानांच ऊती ऊतिभिर्गमनैश्चसह हुवे आह्वयामि । गन्तृभी रथैर्गन्तृभिर्मरुद्भिश्च सहेन्द्रं हुवइत्यर्थः । यद्वा हे यजमाना युष्मदीयाः सैनिकाः सरथा यदा प्रविशन्ति युद्धाय संग्रामं तदानीं तेषां साहाय्या- येन्द्रं हुवे इत्यर्थः ॥ ४ ॥