श्रवणम्

8.68.10
तं त्वा᳚ य॒ज्ञेभि᳚रीमहे॒ तं गी॒र्भिर्गि᳚र्वणस्तम ।
इन्द्र॒ यथा᳚ चि॒दावि᳚थ॒ वाजे᳚षु पुरु॒माय्य᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । य॒ज्ञेभिः᳚ । ई॒म॒हे॒ । तम् । गीः॒॑भिः । गि॒र्व॒णः॒॑त॒म॒ ।
इन्द्र᳚ । यथा᳚ । चि॒त् । आवि᳚थ । वाजे᳚षु । पु॒रु॒॑माय्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं स्तुत्यत्वेन प्रसिद्धं त्वा त्वां यज्ञेभिर्यागसाधनैः सोमादिभिरीमहे याचामहे तमेवेन्द्रं गीर्भिः स्तुतिभिरीमहे । हे गिर्वणस्तम गीर्भिः स्तुतिभिर्व- ननीयतमेन्द्र तंत्वामिति समन्वयः । हे इन्द्र त्वं यथाचिदाविथ येनप्रकारेण ररक्षिथ मां चिदितिपूरणः । कुत्रेति उच्यते-वाजेषु संग्रामेषु कीदृशं मां पुरुमाय्यं बहुप्रज्ञं बहुस्तुतिमित्यर्थः ॥ १० ॥